वाचस्पत्यम्
व्यतिरिक्त || त्रि० वि + अति + रिच—क्त । भिन्ने “न वृक्षवृत्ति- व्यतिरिक्तसाथनम्” इति अमारः ।
शब्दकल्पद्रुमः
व्यतिरिक्तः || त्रि व्यतिरेकविशिष्टः । भिन्नः । वि- अति-पूर्ब्बरिचधातोः क्तप्रत्ययेन निष्पन्नमेतत् ॥ (अधिकः । यथा, कातन्त्रचतुष्टयस्य प्रथमा- विभक्तिर्लिङ्गार्थवचने इत्यस्य पञ्जी । “विशेषे- णातिरिक्तोऽधिको व्यतिरिक्तः ॥”)