वाचस्पत्यम्
व्यतिरेकिन् || न० वि + अति + रिच—घिमुण् । न्यायोक्ते बा- ध्याभावव्यापकीभूताभावपतियागित्वरूपव्याप्तिहेतुके १ अ- नुमानभेदे “तच्चानुमानं त्रिविधं केवलान्वयिकवलव्यति- तेक्यन्वयव्यतिरेकिभेदात्” चिन्तामणिः । यथा पृथिवी इतरभिन्ना गन्धवत्त्वात् इत्यादि । व्यतिरेकिदृष्टान्तश्च यन्नैवं तन्नैवमित्यादि । २ अतिक्रामके च स्त्रिया ङीप् ।