संस्कृत-शब्दकोशः

व्यतिरिक्त व्यतिरेकिन्

व्यतिरेक

वाचस्पत्यम्

व्यतिरेक ||‍ पु० वि + अति + रिच—घञ् । १ विशेषेण अतिक्रमे ३ अभावे ४ विनेवर्थे ५ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०४ पृ० दृश्यम्। न्यायोक्ते ६ तदसत्त्वे तदसत्त्वरूपे कारणताजाहके पदार्थभेदे काव्याभावव्यापकीभूता- भावप्रतियोगित्वरूपे व्याप्तभेदे च ।


शब्दकल्पद्रुमः

व्यतिरेकः || पुं, (वि + अति + रिच + घञ् ।)
विना । अभावः । यथा । यद्व्यतिरेकज्ञानं यदुत्पत्ति- प्रतिबन्धकं तत् तन्निश्चयसाध्यम् । इति परा- मर्शग्रन्थः ॥ (यथा, कथासरित्सागरे । ३९ । १६६ । “न पतिव्यतिरेकेण सुस्त्रीणामपरा गतिः ॥”)
अलङ्कारविशेषः । यथा, —
“व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तु किन्तु प्रकृतिकोमलाः ॥” इति चन्द्रालोकः ॥



Correction: