वाचस्पत्यम्
व्यतिषङ्ग || पु० वि + अति + सन्ज—घञ् । परस्परमेलने ।
शब्दकल्पद्रुमः
व्यतिषङ्गः || पुं, (वि + अति + षञ्ज + घञ् ।)
पर- स्परमेलनम् । (यथा, महाभारते । १२ । १०३ । ५ । “सेनयोर्व्यतिषङ्गेण जयः साधारणोऽभवत् ॥” विनिमयः । यथा, भागवते । ५ । १३ । १३ । “अन्योन्यवित्तव्यतिषङ्गवृद्ध- वैरानुबन्धो विहरन् मिथश्च ॥”)