संस्कृत-शब्दकोशः

व्यतिषङ्ग व्यतीत

व्यतिहार

वाचस्पत्यम्

व्यति(ती)हार ||‍ पु० वि + अति + हृ—घञ् वा दीर्घः । परी- वर्त्ते हेमच० । २ परस्परैकजातीयक्रियाकरणे ।


शब्दकल्पद्रुमः

व्यतिहारः || पुं, (वि + अति + हृ + घञ् ।)
विनि- मयः । यथा, —
“परिदानं विनिमयो नैमेयः परिवर्त्तनम् । व्यतिहारः परावर्त्तो वैमेयो विमयोऽपि च ॥” इति हेमचन्द्रः ॥ (यथा, रघुः । १२ । ९२ । “विक्रम-व्यतिहारेण सामान्याभूद्द्बयोरपि । जयश्रीरन्तरावेदिर्मत्तवारणयोरिव ॥”)



Correction: