वाचस्पत्यम्
व्यतीत || त्रि० वि + अति + इण्—क्त । अताते “व्यतीतकालस्त्व- हमभ्युपेतः” इति रघुः ।
शब्दकल्पद्रुमः
व्यतीतः || त्रि (वि + अति + इ + क्तः ।)
अतीतः । गतः । यथा, —
“अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् । पूर्ब्बे व्रतादिकं कुर्य्युः परेद्युः स्नानदानयोः ॥ इति तिथितत्त्वे भीमपराक्रमीयम् ॥