वाचस्पत्यम्
व्यतीपात || पु० वि + अति + पत—घञ् दीर्घः । १ महोत्पातभेदे २ अपमाने मेदि० विष्कम्भादिषु मध्ये ३ योगभेदे ज्यो० त० “श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते” वृद्धममूक्ते ४ तिथ्यादियोगभेदे च पातशब्दे ४२९७ पृ० दर्शिते रसि० उक्ते क्रान्तिसा- व्यात्मके यागवियोगरूपे ५ वाह्नभेदे ||“व्यतीपातत्रयं धारं गण्डान्तत्रितय तथा । एतद् भसन्धित्रितयं सवकर्मसु वर्जयेत्” सू० सि० “व्यतीपा- तानां त्रयं योगवियोगात्मको क्रान्तिलाम्बरूपौ द्वौ व्य- तीपातौ विषुवत्सन्निधौ क्रान्तिसाम्यान्तरेण व्यतीपात- स्तबोरेव भेदः न पृथक् । पश्चाङ्गान्तर्गतयोगान्तर्गत व्यतीपातश्चेति त्रयम्” रङ्ग० । भविष्यपु० “चतुर्दश्यां यदा योगो व्यतीपातेन चार्द्रया । तदा पुण्यतमः कालो देवानामपि दुर्लभः । तदा यः स्नाति गङ्गायां भक्त्या तत् फलमाप्नुयात् । यत्र तत्र विपन्नो हि मङ्गामरणजन्तु सः” प्रा० त० उक्ते ६ तिथ्यादियोगभेदे । “निरंशं दिवसं विष्टिं व्यतीपातञ्च वैधृतिम् । केन्द्रं वापि शुभैर्हीनं पापाह- मपि वजयेत् । परिघस्य त्यजेदर्द्धं शुभकर्म ततःपरम् । गण्डव्याघातयोः षट् च नव हषणवज्रयोः । वैधृति व्यतीपातौ च समस्तं परिवर्जयेत्” । अस्य प्रतिप्रसव- माह भीमपराक्रमे “न विष्कम्भो न वा गण्डो न व्य- ताषातवैधृती । चन्द्रताराबले प्राप्ते दोषागच्छन्त्यसं- मुखा । नवम्यङ्गारको विष्टिः शनैचरदिनं तथा । व्य- तीपातो न दुष्येच्च यस्यार्को दक्षिणे स्थितः । यदि विष्टिव्यतापाता दिन वाप्यशुभं उवेत् । हन्यतेऽमृत- यीगेन भास्करेण तमो यथा” ज्यो० त० ।
शब्दकल्पद्रुमः
व्यतीपातः || पुं, (वि + अति + पत + घञ् । “उप- सर्गस्य घञीति ।” ६ । ३ । १२२ । इति उप- सर्गस्य दीर्घः ।)
महोत्पातः । अपयानम् । इति मेदिनी ॥ विष्कम्भादिसप्तविंशतियोगान्त- र्गतसप्तदशयोगः । तत्र सर्व्वकर्म्मवर्जनं यथा, —
“निरंशं दिवसं विष्टिं व्यतीपातञ्च वैधृतिम् । केन्द्रं वापि शुभैर्हीनं पापाहमपि वर्जयेत् ॥ परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् । गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥” * ॥
अस्य प्रतिप्रसवमाह भीमपराक्रमे । “न विष्कम्भो नवा गण्डो न व्यतीपातवधृती । चन्द्रताराबले प्राप्ते दोषा गच्छन्त्यसंमुखाः ॥ नवम्यङ्गारको विष्टिः शनैश्चरदिनं तथा । व्यतीपातो न दूष्येच्च यस्यार्को दक्षिणे स्थितः ॥ यदि विष्टिव्यतीपातौ दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलम् । “कठोरवाक्यः पिशुनस्वभावो गदातुरो मातृहितो मनुष्यः । परस्य कार्य्ये कृतपक्षपातो यस्य प्रसूतौ व्यतिपातयोगः ॥” इति कोष्ठीप्रदीपः ॥ पारिभाषिकयोगविशेषः । यथा, बृहन्मनुः । “श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते ॥” तत्र गङ्गास्नानफलं यथा । ब्रह्माण्डे । “संक्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्य्ययोः । पुष्ये स्नात्वा तु जाह्रव्यां कुलकोटीः समुद्धरेत् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (यथा च भागवते । ४ । १२ । ४८ । “दिनक्षये व्यतीपाते संक्रमेऽर्कदिनेऽपि वा । श्रावयेत् श्रद्दधानानां तीर्थपादप्रियाश्रयः ॥”)