संस्कृत-शब्दकोशः

व्यथा व्यध

व्यथित

शब्दकल्पद्रुमः

व्यथितः || त्रि (व्यथ + क्तः ।)
पीडितः । (यथा, ऋतुस्रंहारे । ६ । १९ । “कान्ताननद्युतिमुषामचिरोद्गतानां शोभां परां कुरुवकद्रुममञ्जरीणाम् । दृष्ट्वा प्रिये हि पथिकस्य भवेन्न कस्य कन्दर्पवाणनिकरैर्व्यथितं हि चेतः ॥”)
दुःखितः । यथा, —
“ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः । त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीत् यदूद्बहम् ॥” इति श्रीभागवते बाणयुद्धे ६२ अध्यायः ॥



Correction: