संस्कृत-शब्दकोशः

व्यथित व्यध्य

व्यध

वाचस्पत्यम्

व्यध is an alternate of ब्यध. ब्य(व्य)ध ||‍ ताडने दिवा० पर० सक० अनिट् बि(वि)व्यति अभ्या(व्या)त्सीत् बि(वि)व्या(व्या)ध वर्ग्यादित्वे सनि बिभ्यत्सति ।


वाचस्पत्यम्

व्यध ||‍ ताडने दि० पर० सक० अनिट् । विध्यति अव्यात्सीत् । विव्याद विविधतुः ।


वाचस्पत्यम्

व्यध ||‍ पु० व्यध—अच् । १ वेधे अमरः भावे अप् । २ छिद्रीकरणे ३ भेदने च ।


शब्दकल्पद्रुमः

व्यध || औ य ताडे । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-अनिट् ।)
य, विध्यति शत्रुं शूरः । औ, अव्यात्सीत् । कश्चित्तु द्विर्भूतस्यानिकारी- भूतयकारस्य व्यधेर्वकारो वर्ग्यः अन्यत्र तु दन्त्य इति मन्वानः सनि विव्यत्सतीत्याह । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

व्यधः || पुं, (व्यधनमिति । व्यध ताडे + “व्यधजपो- रनुपसर्गे ।” ३ । ३ । ६१ । इत्यप् ।)
वेधः । इत्यमरः ॥ (यथा, सुश्रुते । १ । ३ । “सिराव्यधो धमनीनां गर्भिण्या व्याकृति- स्तथा ॥”)



Correction: