वाचस्पत्यम्
व्यभिचारिन् || पु० वि + अभि + चर—णिनि । १ अलङ्कारोक्ते रसप्रादुर्भवाङ्गे निर्वेदादौ सञ्चारिभावे तल्लक्षणभेदा- दिकं सा० द० उक्तं यथा “विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युनग्ननिरंग्नास्त्रयस्त्रिंशत्तु तद्भिदाः । निर्वेदावेगदैन्यश्रममदजडता औग्र्यमौहौ विबोधः स्वप्नाषस्मारगर्वामरणमलसतामर्षनिद्राव हित्थाः । ओत्सुक्योन्मादशङ्का स्मृतिमतिसहिता व्याधिसन्त्रास- लज्जा हर्मासूयाविषादाः सधृतिचपलता ग्लानिचि न्तावितर्काः” इति विभज्य लक्षिता यथा “तत्त्वज्ञानापदी- र्ष्यादेर्निर्वेदः १ स्वावमानना । दैन्यचिन्ताश्रुनिश्वासवैवर्ण्यो- च्छसितादिकृत् । आवेगः २ सम्भ्रमस्तत्र वर्षजे पीडिताङ्गता । उत्पातजे स्रस्तताङ्गे धूमाद्याकुलताग्निजे । राजविद्र- वजादेस्तु शस्त्रनागादियोजनम् । गजादेःस्तम्भकम्पादिः पांश्वाद्याकुलतानिलात् । इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञे- याश्चान्ये यथायथम् । दौर्गत्याद्यैरनौजस्यं दैन्यं ३ मलि- न तादिकृत् । खेदोरत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ४ । सम्मोहानन्दसम्भेदो मदो ५ मद्योपयोगजः । अमुना चोत्तमः शेते मध्या हसति गायति । अधमप्रकृतिश्चापि परुषं वक्ति रोदिति । अप्रतिपत्तिर्जडता ६ स्यादिष्टा- निष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभा- वादयस्तत्र । शौर्य्यापराधादिभवं मवेच्चण्डत्वमुग्रता ७ । तत्र स्वेदा शिरःकम्पतर्जनाताडनादयः । मोहो ८ विचि- त्तता भीतिदुःखावेगानुचिन्तनैः । घूर्णनामात्रपतनभ्रम- णादर्शनादिकृत् । निद्रापगमहेतुभ्यो विबोध ९ श्चेतनागमः । जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् । स्वप्नो १० निद्रा- मुपेतस्य विषयानुभवस्तु यः । कोपावेगभयग्लानिसुख- दुःखादिकारकः । मनःक्षेपस्त्वपस्मारो ११ ग्रहाद्याकेशना- दिन्नः । भूपातकम्पप्रस्वेदफेनलालादिकारकः । गर्वो १२ मदः प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञासविला- लाङ्गदर्शनाविनयादिकृत् । शराद्यैर्मरणं १३ जीवत्यागोऽ- ङ्गपतनादिकृत् । आलस्यं १४ श्रमगर्भाद्यैर्जाड्यं जृम्भा- क्षुतादिकृत् । निन्दाक्षेपापमानादेरमर्षो १५ ऽभिनिवि- ष्टता । नेत्ररागशिरःकम्पभ्रू भङ्गोत्तर्जनादिकृत् । चेतः- सम्मीलनं निद्रा १६ श्रमक्लममदादिजम् । जृम्भाक्षिमी- लनोच्छासगात्रभङ्गादिकारकम् । भयनीरवलज्जादेर्हर्षा- द्याकारगुप्तिरवहित्था १७ । व्यापारान्तरसक्त्यन्यथाभा- षणविलोकनादिकरी । इष्टानवाप्ते रौत्सुक्यं १८ कालक्षे- पासहिष्णुता । चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत् । चित्तसम्मोह उन्मादः १९ कामशोकभयादिभिः । अस्था- नहासरुदितगीतप्रलपनादिकृत् । परक्रौर्य्यात्मदोषाद्यैः शङ्का २० ऽनर्थस्य तर्कणम् । वैवर्ण्यकम्पवैस्वर्य्यपार्श्वालो- कास्यशोषकृत् । सदृशज्ञानचिन्ताद्यैंर्भ्रूसमुन्नमनादिकृत् । स्मृतिः २१ पूर्वानुभूतार्थविषयज्ञानमुच्यते । नीतिमार्गा- नुसृत्यादेरर्थनिर्द्धारणं मतिः २२ । स्मेरता धृतिसन्तोषौ बहुमानश्च तद्भवाः । व्याधि २३ र्ज्वरादिर्वाताद्यैर्भूमीच्छो- त्कम्पनादिकृत् । निर्घातविद्युदुल्कादैस्त्रासः २४ कम्पा- दिकारकः । धार्ष्ट्याभावो व्रीडा २५ वदनानमनादिकृद् दुराचारात् । हर्ष २६ स्त्विष्टाव्याप्तेर्मनःप्रसादाऽश्रुग- द्गदादिकरः । असूया २७ ऽन्यगुणर्द्धीनामौद्धत्यादसहि- ष्णुता । दोषोद्वोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् । उपायाभावजन्मा तु विषादः २८ सत्त्वसङ्क्षयः । निः- श्वासोच्छासहृत्तापसहायान्वेषणादिकृत् । ज्ञानाभीष्टा- गमाद्यैस्तु सम्पूर्णस्पृहता धृतिः २९ । सौहित्यवचनोल्ला- ससहासप्रतिभादिकृत् । मात्सर्य्यद्वेषरागादेश्चापल्यं ३० त्वनवस्थितिः । तत्र भत्र्सनपारुष्यस्वच्छन्दाचरणादयः । रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा । ग्लानि ३१ र्गिष्प्रा- णताकम्पकार्श्यानुत्साहतादिकृत् । ध्यानं चिन्ता ३२ हितानाप्तेः शून्यताश्वासतापकृत् । तर्को ३३ विचारः सन्देहाद् भ्रूशिरोऽङ्गुलिनर्त्तकः । रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः । शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः । शान्ते जुगुप्सा कथिता व्यभिचारि- तया पुनः । इत्याद्यन्यत्समुन्नेयं स्वयम्भावितबुद्धिभिः” । न्यायोक्ते २ व्यभिचाररूपदोषवति हेतुपदार्थे च । ३ प- रपुरुषगामिन्यां स्त्रियां स्त्री ङीप् । “हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधः- शय्यां वासयेद्व्यभिचारिणीम्” । “सोमः शौचं ददौ तासां गन्धर्वश्च शुभां गिरम् । पावकः सर्वभ- क्षत्वं मेध्या वै योषितो ह्यतः” इति तु स्त्रीसामा- न्यविषयम् । “व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधी- यते । गर्भभर्तृवधे तासां तथा महति पातके” ग- रुडे ९५ अ० । तस्याः परित्यागादि हेतुमाह हारीतः “गर्भिणीमधोवर्णगां शिष्यसुतगामिनीं पापव्यसनासक्तां धनधान्यक्षयकरीं वर्जयेत्” । यमः “स्वच्छन्दगा हि या नारी तस्यास्त्यागो विधीयते । न चैव स्त्रीवधः कार्य्यो न चैवाङ्गवियोजनम्” । वृहस्पतिः “हीनव र्णोपभुक्ता या त्याज्या बध्यापि वा भवेत्” । विशेषयति मिताक्षरायां स्मृतिः “ब्राह्मणक्षत्रियविशां भार्य्याः शूद्रेण सङ्गताः । अप्रजास्ताविशुद्ध्यन्ति प्रायश्चित्तेन ने- तराः” । एतत् बलात्कारविषयम् उद्वा० त० ।
शब्दकल्पद्रुमः
व्यभिचारी || [न्] पुं, (ब्यभिचरतीति । वि + अभि + चर + णिनिः ।)
चतुस्त्रिंशत्प्रकार- शृङ्गारभावविशेषः । तद्यथा । निर्व्वेदः २ ग्लानिः २ शङ्का ३ असूया ४ मदः ५ श्रमः ६ आलस्यम् ७ दैन्यम् ८ चिन्ता ९ मोहः १० स्मृतिः ११ धृतिः १२ व्रीडा १३ चपलता १४ हर्षः १५ आवेगः १६ जडता १७ गर्व्वः १८ विषादः १९ औत्सुक्यम् २० निद्रा २१ अपस्मरः २२ सुप्तः २३ विबोधः २४ अमर्षः २५ अवहित्थः २६ उग्रता २७ मतिः २८ उपलम्भः २९ व्याधिः ३० उन्मदः ३१ मरणम् ३२ त्रासः ३३ वितर्कः ३४ । इति हेमचन्द्रः ॥ (अस्य लक्षणादिकं यथा, साहित्यदर्पणे । ३ । १६८ । “विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्मग्ननिर्म्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥” के ते इत्याह । “निर्व्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वप्नापस्मारगर्व्वा मरणमलसतामर्षनिद्रा- वहित्थाः ॥ औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधृतिचपलताम्लानिचिन्ता वितर्काः ॥” एतेषां लक्षणादिकं तत्रैव विशेषतो द्रष्टव्यम् ॥)
त्रि, व्यभिचारविशिष्टः । (स्वमार्गच्युतः । यथा, कथासरित्सागरे । १५ । ५५ । “लब्धापि मन्त्रिताख्यातिरस्माकं यान्यथा भवेत् । स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ॥” अनित्यः । आगमापायी । यथा, भागवते । ११ । ३ । ३८ । “नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद्व्यभिचारिणां हि ॥”)