वाचस्पत्यम्
व्यय || गतौ त्यागे अद० चु० उभ० सक० सेट् । व्यवयति ते अव- व्ययत् त ।
वाचस्पत्यम्
व्यय || गतौ भ्वा० उभ० सक० सेट् । व्ययति ते अव्ययीत् अव्ययिष्ट अव्ययिढ्वम् (ध्वस) ।
वाचस्पत्यम्
व्यय || नादे चु० उभ० सक० सेट् । व्याययति ते अविव्ययत् त ।
वाचस्पत्यम्
व्यय || पु० वि + इण—अच् । १ विगमे २ धनादेस्त्यागे शब्दर० । ज्योतिषोक्ते लग्नात् ३ द्वादशस्थाने च ज्यो० त० ।
शब्दकल्पद्रुमः
व्यय || क नुदि । इति कविकल्पद्रुमः । (चुरा०- पर०-सक०-सेट् ।)
अन्तःस्थादियुक्तः । क, व्याययति । नुदि प्रेरणे । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
व्ययं || क्ली (व्यय गतौ + अच् ।)
लग्नात् द्बादश- स्यानम् । यथा, —
“लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः । मरणं धर्म्मकर्म्मायव्यया द्वादशराशयः ॥” इति ज्योतिस्तत्त्वम् ॥ (व्ययति गच्छतीति । व्यय गतौ + अच् । नश्वरे, त्रि । यथा, मनुः । १ । १९ । “सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्- व्ययम् ॥”)
शब्दकल्पद्रुमः
व्यय || ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।)
ञ, व्ययति व्ययते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
व्यय || त् क गतौ । त्यागे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।)
व्यययति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
व्ययः || पुं, (वि + इ + अच् ।)
अर्थस्यापगमः । वित्तसमुत्सर्गः । इति शब्दरत्नावली ॥ खरच् इति पारस्यभाषा ॥ (यथा, मनुः । ९ । ११ । “अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ॥” नाशः । यथा, भागवते । ४ । १ । ४९ । “ताविमौ वै भगवतो हरेवंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥” परित्यागः । दानम् । यथा, रघुः । १२ । २३ । “आत्मानं मुमुचे तस्मात् एकबेत्रव्ययेन सः ॥” बृहस्पतिचारगतवर्षविशेषः । यथा, वृहत्- संहितायाम् । ८ । ३६ । “पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रवलमुत्सवाकुलम् ॥” नामविशेषः । यथा, महाभारते । १ । ५७ । १६ । “अमाहठः कामठकः सुषेणो मानसो व्ययः ॥”)