वाचस्पत्यम्
व्यवच्छेद || पु० वि + अव + छिद—घञ् । १ पृथक्करणे २ विशेष- करणे ३ मोचने च ४ वाणमुक्तौ हेमच० ।
शब्दकल्पद्रुमः
व्यवच्छेदः || पुं, (वि + अव + छिद् + घञ् ।)
बाण- मुक्तिः । इति हेमचन्द्रः ॥ पृथक्त्वञ्च ॥ (विरामः । निवृत्तिः । यथा, भागवते । ४ । २९ । ३२ । “जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥”)