वाचस्पत्यम्
व्यवधान || न० वि + अव + धा—ल्युट् । १ तिरोधाने २ द्रव्या न्त- रेण द्रव्यान्तरस्याच्छादने च हेमच० ।
शब्दकल्पद्रुमः
व्यवधानं || क्ली (वि + अव + धा + ल्युट् ।)
आच्छादनम् । तत्पर्य्यायः । तिरोधानम् २ अन्तर्द्धिः ३ अपवारणम् ४ छदनम् ५ व्यवधा ६ अन्तर्द्धा ७ पिधानम् ८ स्थगनम् ९ । इति हेमचन्द्रः ॥ व्यवधिः १० अपिधानम् ११ । इति शब्दरत्नावली ॥ (यथा, रघुः । १३ । ३४ । “दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि सन्निधत्ते ॥” भेदः । यथा, भागवते । ४ । २२ । २७ । “परात्मनोर्यद्व्यवधानकं पुरस्तात् स्वप्ने यथा पुरुषस्तद्बिनाशे ॥” विच्छेदः । यथा, शिशुपालवधे । ९ । ५१ । “वपुरन्वलिप्त परिरम्भसुख- व्यवधानभीरुकतया न बधूः ॥” समाप्तिः । यथा, भागवते । ४ । २९ । ७७ । “यावदन्यं न विन्देत व्यवधानेन कर्म्मणाम् ॥”)