संस्कृत-शब्दकोशः

व्यवसाय व्यवसित

व्यवसायिन्

शब्दकल्पद्रुमः

व्यवसायी || [न्] त्रि, (व्यवसायोऽस्यास्तीति । इनिः ।)
व्यवसायविशिष्टः । बाणिज्यकारकः । यथा, —
“कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कःपरः प्रियवादिनाम् ॥” इति चाणक्यशतकम् ॥ अनुष्ठाता । यथा, —
“अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यव- सायिनः ॥” इति मानवे १२ अध्यायः ॥ अज्ञेभ्य इति । उभयोः प्रशस्यत्वे सति अन्य- तरस्यातिशयवि क्षया श्रेष्ठतेतीष्टिनोबिधाना- दीषदध्ययना अज्ञाः तेभ्यः समग्रग्रन्थाध्येतारः श्रेष्ठाः । तेभ्योऽधीतग्रन्थधारणसमर्थाः श्रेष्ठाः । तेन ग्रन्थिनः पथितविस्मृतग्रन्था बोद्धव्याः । धारिभ्योऽधीतग्रन्थार्थज्ञाः प्रकृष्टाः । तेभ्यो- ऽनुष्ठातारः । इति तट्टीकायां कुल्लूकभट्टः ॥



Correction: