संस्कृत-शब्दकोशः

व्यवस्थान व्यवस्थितविभाषा

व्यवस्थित

वाचस्पत्यम्

व्यवस्थित ||‍ त्रि० वि + अव + स्था—क्त । विषयान्तरपरिहारेण विषयविशेषे अवस्थिते १ शास्त्रविहिते पदार्थे २ अवस्थित- मात्रे च ।


शब्दकल्पद्रुमः

व्यवस्थितः || त्रि (वि + अव + स्था + क्तः ।)
विधि- पूर्ब्बकस्थितः । व्यवस्थापितः । यथा, —
“अथ व्यवस्थितान् दृष्ट्वा धार्त्तराष्ट्रान् कपि- ध्वजः । प्रवृत्त शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥” इति श्रीभगवद्गीतायाम् १ अध्यायः ॥



Correction: