संस्कृत-शब्दकोशः

व्यवहर्त्तृ व्यवहारज्ञ

व्यवहार

वाचस्पत्यम्

व्यवहार ||‍ पु० वि + अव + हृ—घञ् । १ अर्थविशेषवाधनाय शब्द- विशेषप्रयोगे २ ऋणादानादिष्वष्टादशसु विवादेषु ३ सहा- सनभोजनादौ च विवादरूपव्यवहारलक्षणं वीर० मि० उक्तं यथा “अथ कोऽयं व्यवहारः प्रमाणतर्कोप्रष्टव्यः पक्षप्रतिप- क्षपरिग्रहः इति चेन्न वादादेरपि तत्त्वापत्तेः । लि- खितादिः प्रमाणविशेषः परिगृह्यत इति चेत् तत्रापि तत्प्रवृत्त्यविरोधात् । अनुमानाद्यवहिर्भावाच्च तेषाम- व्यावर्त्तकत्वात् । अतएवान्यविरोधेन स्वसम्बन्धितया कथनमित्यपि परास्तम् । प्रमाणान्तर्भावेण स्वरूपनिरू- पणानौचित्याच्च कथनादेर्व्यवहारपदवाच्यत्वे “व्यवहारा- न्नृपः पश्येदित्याद्यनन्वयाच्च । उच्यते । ऋणादानादि- लौकिकार्थविमया कथैव व्यवहारः । कथाव्यपदेशा- भावस्तु शास्त्रीयपदार्थाविषयत्वात् अधिकरणादिव्यप- देशो यथा वैदिकार्थविषयककथायान्तथात्वव्यवहारव्यप- देशः । अतएव यथायथं हेत्वाभासनिग्रहस्थानादि- योजनमपि युक्तम् । तच्च तत्र तत्र प्रदशयिष्यते । चतुष्पात्त्वमपि तस्य तदविरोध्येवेत्युपपादयिष्यते । यत् तु गोपालेन तत्त्वनिर्णयेषु कथात्वाद्वादत्वमेवास्येति मिश्रमतत्वेनोपन्यस्य जयभङ्गफलकत्वात् स्थापनावसान- त्वाच्च जल्पएवायमिति तन्निरस्तम् । तस्यैकविधत्वमयु- क्तम् । शङ्कातत्त्वाभियोगभेदेन उभयरूपत्वस्यैव युक्तत्वात् । वैतण्डिकस्य व्यवहारायोग्यत्वादस्य वितण्डत्वम्परमस- म्मवि । अन्यविरोधेन स्वसम्बन्धितया कथनमिति विज्ञा- नयोगिवचोऽप्येवं सति नायुक्तम् । न च पश्येदित्यनन्व- यः निर्णयार्थकथनतया सर्वनिबन्धृभिस्तद्व्याख्यानात् । “स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्” याज्ञवल्क्यवचनं यद्यपि व्यवहारपदान्यृणादानादीनि सामान्येन लक्ष- यति तथापि व्यवहारसामान्यलक्षणमपि समानसम्बन्धि- संबेद्यतया ततः प्रतीयते । तस्याह्ययमर्थः स्मृत्या- चारादिधर्मप्रमाणातिक्रान्तरीत्याऽन्यैरभिभूतः पुरुषो- राजादिभ्यो व्यवहारदर्शिभ्यो यद्यावैदयति तर्हि तदाऽऽ- वेद्यमानञ्चतुष्पाद्व्यवहारस्य पदं विषयः । हीति प्रसि- द्धमृणादानादिलक्ष्यत्वेन मन्वाद्युक्तमुपक्षिप्तमिति । एव- ञ्चाधर्षितस्यार्थित्वमाधर्षकस्य प्रत्यर्थित्वन्तयोर्विवादश्च व्य- वहार इति प्रतीयते । इदमेव च मिताक्षराया- मन्यविरोधेनेत्यादिना निष्कृष्टमुक्तम् । अन्यविरोधे- नेत्थनुक्ते प्रश्नोत्तरादिरूपेण स्वसम्बन्धिकथनमपि व्य- वहारः स्यात् । स्वसम्बन्धितयेत्यनुक्ते एकसम्बन्धितया साक्षिणा कथनमन्यविरोधि भवत्येवेत्यस्याप्यर्थित्वापत्ति- रतः स्वसम्बन्धितयेति । इदं चोत्तरचतुष्टयेऽप्यनुगतम् । न च सम्प्रतिपत्तावव्याप्तिः तत्रापि साध्यतया वा- दिना निर्दिष्टस्य सिद्धतया निर्देशे तद्विरोघपर्य्यवसा- नात् अन्यथोत्तरत्वभङ्गप्रसङ्गात् । यत्रापि द्वावपि भाषावादिनौ तत्रापि परस्परविरोधावश्यम्भावान्ना- व्याप्तिः । इदं चाग्रे व्यक्तीभविष्यति । यच्च कात्या- यनेनोक्तम् “प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायवि- स्तरे । साध्यमूलस्तु यो वादो व्यवहारः स उच्यते” इति एतच्च व्यवहारहेतुव्यवहारस्वरूपोक्तिपरतया, माधवीयपारिजातादिष्वेवं व्याख्यातम् “विहिताच रणनिषिद्धवर्जनादिप्रयत्नसाध्ये धर्माख्ये वस्तुनि विच्छिन्ने विप्लुते सतीति व्यवहारहेतुरुक्तः धर्मावर्मविप्लव- स्यैव व्यवहारहेतुत्वात् । तथा च नारदः “मनुः प्र- जापतिर्यस्मिन् काले राज्यमबूभुजत् । धर्मैकतानाः पुरु- षास्तदासन् सत्यवादिनः । तदा न व्यवहारोऽभून्न द्वेषो नापि मत्सरः । नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्त्तते” इति । वृहस्पतिरपि “धर्मप्रधानाः पुरुषाः पूर्वमासन्न हिंसकाः । लोभद्वेषाभिभूतानां व्यवहारः प्रवर्त्तते” इति । न्यायेत्यादिना व्यवहारस्वरूवमुक्तम् । तत्र माधवीयव्याख्यानम् । न्यायः शिष्टसम्प्रतिपन्नं लौ- किकमाचरणं तस्य विस्तरः इदं युक्तमिदमयुक्तमिति उपपत्तिपुरः सरो निर्णयः । तस्मिन् विषयभूते तत्प्रवर्त्त- कोऽर्थिप्रत्यर्थिनोः साध्यमूलःसाध्यमृणादानादिपदं तन्मू- लस्तद्विषयको यो विवादः स व्यवहार इति । मदम- रत्ने तु न्यथिः प्रमाणन्तस्य विस्तरः प्रवृत्तिर्यत्र तस्मिन् विषय इति । स्मध्यमूलेतादि तुल्यम् । मदनरत्नाकर- स्मृतिचन्द्रिकाकल्पतरुकारैः सर्वमेवेदं वचनं व्यव- हास्यरूपपरतयापि व्याख्यातम् । प्रयत्नसाध्ये कष्टसाध्ये पराभिभवेन स्वेच्छय । भोक्तुमशक्ये गृह- क्षेत्रादौ सति न्यायः प्रमाणं विस्तार्य्यते प्रपञ्च्यते य- स्मिन् तस्मिन् धर्माधिकरण सदसि साध्यमूलेत्यादि पू- र्ववत् । तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्ये नातीव यतितव्यम् । वयन्तु सर्वं सप्तम्यन्तसामानाधि- करण्येन व्याचक्ष्महे! विहितानुष्ठानादिगोचरप्रयत्न- साध्ये धर्माख्ये न्यायविस्तरे नीयतेऽर्थोऽनेनेति न्यायः प्रमाणं श्रुतिस्मृत्यादि विस्तार्य्यते प्रवर्त्ततेऽस्मिन श्रुत्य दिप्रमेय इत्यर्थः । विच्छिन्ने प्रमाणापरिज्ञानतात्- पर्य्यानवधारणादिना दुज्ञेये सति । यद्वा । धर्म आ- ख्यायतेऽनेनेति धर्माख्यो धर्मप्रतिपादक इति वापत् । न्यायविस्तरे प्रमाणसमूहे श्रुतिस्मृत्यादौ प्रमादादिना विच्छिन्ने लुप्तप्राये सति साध्यमूलेत्यादि गतार्थमिति । हारोतः “स्वधर्मस्य यथा प्राप्तिः परधर्मस्य वर्जनम् । न्यायेन क्रियते यत् तु व्यवहारः स उच्यत” इति । न्यायेन प्रमाणेन । एतस्यापि पूर्वोक्त एव तात्पर्य्यम्” । तन्निरुक्तिर्मेदाश्च तत्र दर्शिता यथा “निरुक्तिमपि व्यवहारपदस्याऽमुमेवार्थमुपलक्षयति । सा च कात्यायनेनोक्ता “विना नार्थेन सन्दहो हरणं हार उच्यते । नानासन्देहहरणाद् व्यवहार इति स्मृत” इति । अथ व्यवहारभेदानाह नारदः “सोत्तरो- नुत्तरश्चेति स विज्ञेयो द्विलक्षणः । सोत्तरोऽभ्यधिको यत्र विलेखपूर्वकः पणः” इति । यदि पराजयेऽह तदा पराजयदण्डाभ्यधिकमेतावद्राज्ञे दास्यामीति यत्र लेख- नपूर्वक प्रतिज्ञ यते स सात्तर इत्यर्यः । तद्रहिताऽनु- त्तर इत्यर्थादुक्तं भवति । स एव त्रयादशप्रकारनि- वन्धनानवान्तरभेदानुद्दिश्य विवृतवान् यथा “चतु- ष्पाश्च चतुःस्थानश्चतुःसाधन एव च । चतुर्हितश्चतु- र्व्यापी चतुष्कारी च कीर्त्तितः । त्रियोनिर्द्ध्यभियोगश्च द्विद्वारोद्विगतिस्तथा । अष्टाङ्गोऽष्टादशपदः शतश ख- स्तथैव च । धर्मश्च व्यवहारश्च चरित्रं राजशासनम्! चतुष्पाद् व्यवहारोऽयमुत्तरः पूर्वबाधकः । तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं तु स्वीक- रणे राजाज्ञायान्तु शासनम् । साम्याद्युपायसाध्यत्वा- च्चतुःसाधन उच्यते । चतुर्णामपि वर्णानां रक्षणाच्च चतुर्हितः । कर्त्तृनथो साक्षिणश्च सभ्यान् राजानमेव च । व्याप्नोति तादृशो यस्माच्चतुर्व्यापी ततः स्मृतः । धर्मस्यार्थस्य यशलोलोकपङक्तेस्तथैव च । चतुर्णाङ्कर णादेव चतुःकारी प्रकीर्त्तितः । कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्त्तते । त्रियोनिः कीर्त्यते तेन त्रय- मेतद्विवादकृत् । द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभि- योगतः । शङ्काऽसतान्तु संसर्गात्तत्वं होडाभिदर्शनात् । पक्षद्वयाभिसम्बन्धात् द्विगतिः समुदाहृतः । पूर्ववाद- स्तयोः पक्षः प्रतिपक्षस्तदुत्तरः । भूतच्छलानुसारित्वात् द्विगतिः समुदाहृतः । भूतन्तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् । राजा १ सपुरुषः सभ्यः २ शास्त्रं ३ गणकलेख- कौ ४ ५ । हिरण्य ६ मग्नि ७ रुदक ८ मष्टाङ्गः समुदाहृतः । ऋणादानं १ ह्युपनिधिः २ सम्भूयोत्थान ३ मेव च । दत्तस्य पुनरादान ४ मशुश्रूषा ५ भ्युपेत्य च । येतनस्यानपाकर्म ६ तथैवास्वामिविक्रयः ७ । विक्रीयासम्प्रदानं ८ च क्रीत्वानु- शय ९ एव च । समयस्यानपाकम १० विवादः क्षेत्रज ११ स्तथा । स्त्रीपुंसयोश्च सम्बन्धो १२ दायभागो १३ ऽथ सा- हसः १४ । वाक्पारुष्यं १५ तथैवोक्तं दण्डपारुष्य १६ मेव च । द्यूत १७ म्प्रकीर्णक १८ ञ्चैवे त्यष्टादशपदः स्मृतः । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते” इति ।


शब्दकल्पद्रुमः

व्यवहारः || पुं, (वि + अव + हृ + घञ् ।)
विवादः । इत्यमरः ॥ वृक्षभेदः । न्यायः । पणः । स्थितिः । इति मेदिनीशब्दरत्नावल्यौ ॥ * ॥
(कर्म्म । क्रिया । यथा, —
“न कश्चित् कस्यचिन्मित्रं न कश्चिकस्य चिद्रिपुः । व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥” यथा च रघुः । ३ । ६२ । “तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तिष्ठतः । तुतोष वीर्य्यातिशयेन वृत्रहा पदं हि सर्व्वत्र गुणैर्निधीयते ॥”)
अथ व्यवहारदर्शनम् । तत्र याज्ञवल्क्यः । “स्मृत्याचारव्यपेतेन मार्गेणाघर्षितः परैः । आवेदयति चेद्राज्ञि व्यवहारपदं हि तत् ॥” स्मृतिसदाचारवहिर्भूतेन वर्त्मना परैरर्थतः शरीरतो वा पीडितश्चेद्राजनि निवेदयेत्तद्ब्यव- हारदर्शनस्थानम् । चेदित्यत्र सदिति मैथिलाः । आवेदयति चेदित्यनेन स्वयं विवादोत्थापनं राज्ञा न कर्त्तव्यमिति शूलपाणिमहामहो- पाध्यायाः । राज्ञीति व्यवहारप्रदर्शकपरम् । तथा च बृहस्पतिः । “राजा कार्य्याणि संपश्येत् प्राड्विवाकोऽथवा द्बिजः ॥” * ॥
प्राड्विवाकलक्षणमाह स एव । “विवादे पृच्छति प्रश्नं प्रतिपन्नं तथैव च । प्रियपूर्व्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥” कात्यायनः । “व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति स्थितिः । विवेचयति यस्तस्मिन् प्राड्विवाकस्ततः स्मृतः ॥” अर्थिनं प्रति भाषा ते कीदृशी प्रत्यर्थिनं प्रति च तवापि कीदृशमुत्तरं इति पृच्छतीति प्राट् श्रुत्वा च युक्तायुक्तंत्वेन जयं पराजयं वा विविनक्ति इति विवाकः प्राट् च स विवाकश्चेति प्राड्विवाकः ॥ * ॥
कात्यायनः । “सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । स्वयं स राजा चिनुयात्तेषां जयपराजयौ ॥ यदा कार्य्यवशाद्राजा न पश्येत् कार्य्यनिर्णयम् । तदा नियुञ्ज्याद्विद्बांसं ब्राह्मणं वेदपारगम् ॥ यदि विप्रो न विद्बान् स्यात् क्षत्त्रियं तत्र योजयेत् । वैश्यं वा धर्म्मशास्त्रज्ञं शूद्रं यत्नेन वर्ज्जयेत् ॥” स विनीतवेशः । मनुः । “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः । धर्म्मप्रवक्ता नृपतेर्न तु शूद्रः कदाचन ॥ नाध्यापयति नाधीते स ब्राह्मणब्रुवः स्मृतः ॥” व्यासः । “द्बिजान् विहाय यः पश्येत् कार्य्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राज्यं बलं कोषश्च नश्यति ॥ यः शूद्रो वैदिकं धर्म्मं स्मार्त्तं वा भाषते यदि । तस्य दण्डं द्बे सहस्रे सृक्नणी चैव भेदयेत् ॥ दुःशीलोऽपि द्विजः पूज्यो न शूद्रो विजितेन्द्रियः । दुष्टां गां कः परित्यज्यार्च्चयेत् शीलवतीं खरीम् ॥” व्यवहारमाह कात्यायनः । “वि नानार्थेऽव सन्देहे हरणं हार उच्यते । नानासन्देहहरणाद्व्यवहार इति स्थितिः ॥” नानाविवादविषयः संशयो ह्रियतेऽनेन इति व्यवहारः । भाषोत्तरक्रियानिर्णायकत्वं व्यव- हारत्वम् । तथा च बृहस्पतिः । “अज्ञानतिमिरोपेतान् सन्देहपटलार्द्दितान् । निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ॥ इह कीर्त्तिं राजपूजां लभते सद्गतिञ्च सः । तस्मात् संशयमूढानां कर्त्तव्यश्च विनिर्णयः ॥” अतएव नारदः । “अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति । दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥” दैवीं देवानुमताम् ॥ * ॥
धर्म्मशास्त्रयोस्तु विरोधे लोकव्यवहार एवादरणीयः । इत्याह स एव । “धर्म्मशास्त्रविरोधे तु युक्तियुक्तो विधि स्मृतः । व्यवहारोऽपि बलवान् धर्म्मस्तेनावहीयते ॥” अवहीयते अवगम्यते हि गतावित्यस्माद्धातोः । अतएव बृहस्पतिः । “केवलं शास्स्त्रमाश्रित्य न कर्त्तव्यो विनिर्णयः । युक्तिहीनविचारे तु धर्म्महानिः प्रजायते ॥” युक्तिर्न्यायः । स च लोकव्यवहार इति व्यव- हारमातृका ॥ अतएव कात्यायनः । “कुलशीलवयोवृत्तवित्तवद्भिरधिष्ठितम् । बणिग्भिः स्यात् कतिपयैः कुलवृद्धैरधि- ष्ठितम् ॥” सद इति शेषः । कात्यायनः । “सभ्येनावश्यवक्तव्यं धर्म्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृणः ॥” सभ्यः सभायां साधुः ॥ * ॥
तथाविधानाह याज्ञवल्क्यः । “श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः । राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये समाः ॥” श्रुताध्ययनसम्पन्नाः धर्म्मशास्त्रज्ञाः । कुलीनाः सङ्करादिदोषशून्यमातापितृवंशपरम्पराकाः । एवंभूताः सभासदः सभायां यथा सीदन्ति उपविशन्ति तथा दानमानसत्कारैः राज्ञा कर्त्तव्याः ॥ * ॥
तथाविधावस्थानेन भूमेः सभात्व- माह मनुः । “यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञः प्रतिकृतो विद्बान् ब्राह्मणस्तां सभां विदुः ॥” विद्वत्सहतावपि सभापर्य्यायपरिषच्छब्दमाह स एव । “त्रैविद्यो हैतुकस्तकीं निरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्व्वे परिषत् स्याद्दशावराः ॥” त्रैविद्यः त्रिवेदपारगः । हैतुकः । सद्युक्ति- व्यवहारी । अतएवामरासंहः । सभा सदसि सभ्ये च । अत्र भा दीप्तिः प्रकाशो ज्ञानमिति यावत् तया सह साक्षात् परम्परया वा वर्त्तते इति सभा ॥ * ॥
कात्यायनः । “दिवसस्याष्टमं भागं मुक्त्वा भागत्रयं तु यत् । स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥” अष्टमयामाद्यार्द्धप्रहरम् । भागत्रयं प्रहरद्बय- पर्य्यन्तम् । मनुः । “धर्म्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत् ॥” मनुनारदबौधायनहारीताः । “पादोऽधर्म्मस्य कर्त्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्व्वान् पादो राजानमृच्छति ॥ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्त्तारं निन्दार्हो यत्र निन्द्यते ॥” कर्त्तारं वादिनम् । राजपादं विवेचकपरम् ॥ अनेनाः निष्पापः ॥ अर्थित्वमाहतुर्व्यासनारदौ । “यस्य चाभ्यधिका पीडा कार्य्यं वाप्यधिकं भवेत् । तस्यार्थिभावो दातव्यो न यः पूर्व्वं निवेदयेत् ॥” अत्रैव पूर्व्वपक्षो भवेत्तस्य इति कात्यायनीये तृतीयपादः । न यः पूर्व्वं निवेदयेदिति तस्यो- त्तरः पक्ष इति शेषः । स यः पूर्व्वमिति पाठे यः प्रथमं निवेदयति स पूर्व्ववादीत्यर्थः । बृह- स्पतिः । “अहं पूर्व्विकया यातावर्थिप्रतर्थिनौ यदा । वादो वर्णानुपूर्व्वेण ग्राह्यः पीडामवेक्ष्य वा ॥” यत्र द्बावेव वदतः प्रभो मद्वाक्यं शृणु इति तत्र ब्राह्मणादिक्रमेणाधिकपीडादर्शनेन वा वादो ग्राह्यः ॥ * ॥
स्वयं विवादाशक्तौ प्रतिनिधिमाह नारदः । “अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥” तयोर्व्वादिप्रतिवादिनोः । बृहस्पतिरपि । “ऋत्विक् वादे नियुक्तश्च समौ सम्परिकीर्त्तितौ । यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं वादेऽथवा जयम् ॥” कात्यायनः । “मनुष्यमारणे स्तेये परदाराभिमर्षणे । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ पारुष्ये कूटकरणे नृपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम् ॥” कुलस्त्रीप्रभृतीनां प्रतिनिधिमाह व्यासः । “कुलस्त्रीबालकोन्मत्तजडार्त्तानाञ्च बान्धवाः । पूर्ब्बपक्षोत्तरे ब्रूयुर्नियुक्तो भृतकस्तथा ॥” भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाह नारदः । “यो न भ्राता पिता वापि न पुत्त्रो न नियो- जितः । पराथवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥” विब्रुवन् विरुद्धं ब्रुवन् ॥ * ॥
नारदः । “निर्व्वेष्टकामो रोगार्त्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथान्येन राजकर्म्मोद्यतस्तथा ॥ गवां प्रचारे गोपालाः शस्यबन्धे कृषीवलाः । शिल्पिनश्चापि तत्काले आयुधीयाश्च विग्रहे ॥ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नासेव्या न चैतान्नाह्वयेन्नृपः ॥” निर्व्वेष्टुकामो विवाहप्रवृत्तः । अन्येन वादान्त- रेण । अप्राप्तव्यवहारः षोडशवर्षावरवयस्कः । तत्काले विवाहादिसमाप्तिपर्य्यन्तकाले । एते विषमस्थाश्च उपप्लवदेशस्थाश्च उत्तमर्णादिना नासेध्या नावधारणीयाः एतान् प्रागुक्तान् वादिना निवेदितानिति शेषः ॥ * ॥
याज्ञवल्क्यः । “अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत् ॥” अभियुक्तः सन्नुत्तरमदत्त्वा भाषावादिनमेतं स्वाभियोगानुपमर्दकेन विवादान्तरेण न योज- येत् । युमपदनेकव्यवहारासम्भवात् । नारदो- ऽपि । “पूर्व्वदादं परित्यज्य योऽन्यमालम्बते पुनः । वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥” हीनवादीत्यनेन दण्ड्यतोक्ता न तु प्रकृतार्थाद्धी- नता अन्यथा छलापत्तेः ॥ * ॥
पारुष्ये प्रति- प्रसवमाह स एव । “कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु च ॥” वाक्पारुष्ये शस्त्रादिप्रहारेषु च । यथापूर्ब्ब- महमप्यनेनाक्रुष्टः शस्त्रेण हत इत्यपराधा- भावाय प्रत्यभियोगं कुर्य्यात् । तथा च बृह- स्पतिः । “आक्रुष्टस्तु यदाक्रोशंस्ताडितः प्रतिताडयन् । हत्वाततायिनञ्चैव नापराधी भवेन्नरः ॥” एतेन वाक्पारुष्यदण्डपारुष्ययोः प्रकृताभि- योगे खण्डकाभियोगेऽपि न दोषः । यत्तु । “पूर्ब्बमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक् । पश्चाद्यः सोऽप्यसत्कारी पूर्ब्बे तु विनयो गुरुः ॥” इति नारदवचनं तत् पूर्ब्बापेक्षया परस्या- धिकवाक्पारुष्योत्पादकस्यापि स्वल्पदण्डविधा- यकम् ॥ * ॥
युगपत्संप्रवर्त्तने अधिकदण्डाभाव- माह स एव । “पारुष्ये साहसे चैव युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात् समस्तयोः ॥” विनयो दण्डः । एवञ्च दण्डोऽयमनपराधे मयि कृतः पीडितत्वादिति भाषायां प्रत्यभियोगः कार्य्य एव । प्रत्यवस्कन्दनोत्तरत्वेन युगपदनेक- व्यवहारापत्तिदोषस्याभावात् ॥ * ॥
सभापतेः- कर्त्तव्यमाह कात्यायनः । “अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनोः । स रक्षितो दिनस्यान्ते दद्यात् भृत्याय वेतनम् ॥” प्रतिभवति तत्कार्य्ये तद्वद्भवति इति प्रति- भूर्लग्नकः । वादयोग्यः विवादफलस्य साधित- धनादिदानस्य दण्डदानस्य च क्षमः । वादिनोः भाषावादिन उत्तरवादिनश्च । तथाच याज्ञ- वल्क्यः । “उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्णये । प्रतिभुवस्त्वभावे च राज्ञा सं ज्ञपनं तयोः ॥” राज्ञा संज्ञपनं दण्डतुल्याधिकरणं निर्णयस्य कार्य्ये धनादिदाने राजदन्तादित्वात् कार्य्य- शब्दस्य पूर्ब्बनिपातः । भृत्यः तद्रक्षको राज- नियुक्तः ॥ * ॥
प्रत्यर्थी यदि कञ्चित् कालं प्रार्थयते स लभते अर्थी तु कालं प्रार्थयन् अर्थित्वमेव व्याहन्यादिति तेन कालो न प्रार्थ- नीयः । तदाह । “प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च । अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ॥” क्वचित् प्रत्यर्थी कालं न लभते । याज्ञवल्क्यः । “साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥” साहसं मनुष्यमारणम् । गौरत्र दोह्या । अभिशापो महापातकादिना । अत्यये द्रव्य- नाशे । स्त्रियां कुलस्त्रियां चारित्रांववादविषय- प्राप्तायां दास्यां स्वत्वविवादे वा । एषु सद्य एव उत्तरं दापयेदिति शूलपाणिः ॥ विशेषयति कात्यायनः । “यस्मात् कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः । तस्मान्न लभते कालमभियुक्तस्तु कालभाक् ॥” अपवादमाह बृहस्पतिः । “अभियोक्ता प्रगल्भत्वात् वक्तुं नोत्सहते यदि । तदा कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः ॥” अत्रापि विशेषयति व्यासः । “राजदवकृतो दोषस्तस्मिन् काले यदा भवेत् । अवध्ययोगमात्रेण न भवेत् स पराजितः ॥” स कृतसमयबन्धोऽभियुक्तः । “राजदैवकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैह्मेन वर्त्तमानस्तु दण्ड्यो दाप्यस्तु तद्धनम् ॥” अवध्यतिक्रमहेतो राजदैविकदोषस्य प्रमितौ न तदतिक्रामकोऽपराध्यति जैह्माच्च तदति- क्रमेण दण्ड्यो भङ्गी च भवतीत्यर्थः । छद्म- काठिन्यादियुक्तो जिह्मः । तथा च हारीतः । छद्म माया व्याजयुक्ता निकृतिः । कौटिल्य- काठिन्यशाठ्यवैरस्यसद्भावयुक्तं जैह्म्यमिति युक्तं योगः ॥ * ॥
अथ व्यवहारपादनिर्णयः । तत्र बृहस्पतिः । “पूर्ब्बपक्षः स्मृतः पादो द्बिपादश्चोत्तरः स्मृतः । क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ॥ मिथ्योक्तौ च चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा । प्राङ्न्याये च स विज्ञेयो द्बिपात्संप्रतिपत्तिषु ॥” यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथाप्यु- त्तरवादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्यो न भवति इति द्विपादतोक्ता ॥ * ॥
अथ भाषापादः । तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती । “प्रतिज्ञादोषनिर्म्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥ स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥ यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना । दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदुत्तरम् ॥” प्रतिज्ञा साध्याभिधायिका वाक् । तस्या दोषैः परस्मरविरुद्धार्थपदादिभिस्त्यक्तं साध्यं साधना- र्हाभिमतं पक्षं विदुः । अन्यथा प्रतिज्ञादोषेण साध्यदोषः स्यात् । अतएवोक्तम् । “वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता । असङ्करेण वक्तव्ये व्यवहारेषु वादिभिः ॥” वक्तव्ये पक्षप्रतिज्ञे पूर्ब्बोक्ते । नारदेनापि । “सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥” उत्तरो विजयी । यद्यप्यन्यत्र साध्यं ज्ञाप्यं तद्- विशिष्टधर्म्मो पक्ष इति भेदः तथाप्यत्र वाक् प्रत्याय्यर्णादिधर्म्मविशेषविशिष्टस्य पक्षतया धर्म्मिणोऽधमर्णादेरेव साध्यत्वात् साध्यपक्षयोर भेदाभिधानम् । उपसंहारे च एवंविधः पक्ष इति । मिताक्षरायान्तु भाषा प्रतिज्ञापक्ष इति नार्थान्तरमित्युक्तम् । भाषार्थमुक्त्वा भाषास्वरूप- प्रपञ्चमाह स्वल्पाक्षर इति । निराकुलः पौर्व्वापर्य्यविपर्य्यासादिशून्यः । तत्र । “द्यूते च व्यवहारे च प्रव्रते यज्ञकर्म्मणि । यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति ॥” इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा शोधयेत् । तच्छोधनमाह बृहस्पतिः । “न्यूनाधिकं पूर्ब्बपक्षं तावद्बादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” * ॥
तल्लिखनप्रकारमाह व्यासः । “पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् । न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥” फलकं काष्ठादिपट्टकम् । कात्यायनः । “पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् । पाण्डुलेखेन फलके ततः पत्रेऽभिलेखयेत् ॥ शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनम् । उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥ अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनोर्व्वचः । चौरवच्छासयेत्तन्तु धार्म्मिकः पृथिवीपतिः ॥” स्वभावोक्तमकृत्रिमम् । एतच्च स्वरविशेषादिना सुज्ञेयम् ॥ * ॥
अतएव याज्ञवल्क्यः । “छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥” भूतं तत्त्वार्थसम्बन्धम् । नारदः । “भूतं तत्त्वार्थसम्बन्धं प्रमादाभिहितं छलम् । किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता ॥ मनुष्यचित्तवैचित्र्यात् परीक्षा साध्वसाधु वा । सर्व्वेष्वर्थविवादेषु वाक्छले नावसीदति ॥ पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥” सर्व्वेष्वर्थविवादेषु प्रमादाभिधानेऽपि नावसी- दति अत्रोदाहरणं पशुस्त्रीत्यादि । अर्थविवाद- ग्रहणात् मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतार्थादप्यर्थाद्धीयत इति गम्यते । यथाह- मनेन शिरसि पादेन ताडित इत्यभिधाय केवलं हस्तेन ताडित इति वदन् न केवलं दण्ड्यः पराजीयते च । ततश्च त्वं मह्यमृणं धारयसि मत्त ऋणत्वेन गृहीततावद्धन- कत्वादिति भाषाशरीरं एतच्च संस्कृतदेश- भाषान्यतरेण यथाबोधं वक्तव्यं लेख्यं वा । मूर्खाणामपि वादिप्रतिवादितादर्शनात् अत- एवाध्यापनेऽपि तथोक्तं विष्णुधर्म्मोत्तरे । “संस्कृतैः प्राकृतैर्व्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥” * ॥
अथोत्तरपादः । तत्र कालमाह कात्यायनः । “सद्यःकृतेषु कार्य्येषु सद्य एव विवादयेत् । कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥” वादिनोक्तस्य साध्यस्य प्रतीपमर्थयते इति प्रत्यर्थी । नारदः । “गहनत्वाद्बिवादानामसामर्थ्यात् स्मृतेरपि । ऋणादिषु हरेत् कालं कामं तत्त्ववुभुत्सया ॥” बृहस्पतिः । “यदा त्वेवंविधः पक्षः कल्पितः पूर्व्ववादिना । दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥” सम्बन्धमुपयुक्तम् । अन्यथा अन्यवादित्वेन भङ्ग- प्रसङ्गात् । “अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर्दिनैः । क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्- क्षणात् ॥” इति नारदोक्तेः ॥ क्रिया लेख्यादिका । साक्षिभिन्नः साक्षिभिः पराजितः । वादिनोक्तस्य साध्यस्य प्रतीपं वदतीति प्रतिवादी । उत्तीर्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेन इति उत्तरम् । याज्ञ- वल्क्यः । “श्रुतार्थस्योत्तरं लेख्यं पूर्ब्बावेदकसन्निधौ ॥” लेख्यमिति वाक्यस्याप्युपलक्षकम् ॥ * ॥
उत्तर- स्वरूपं तद्भेदांश्चाह नारदः । “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं तद्बिदो विदुः ॥ मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा । प्राङ्न्यायाश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्र- वेदिभिः । अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्रवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥” पक्षस्य भाषार्थस्य व्यापकं आच्छादकं अभि- योगप्रतिकूलमिति यावत् । अतएव पूर्ब्बपक्षार्थ- सम्बन्धं प्रतिपक्षं निवेदयेदित्युक्तम् । न च विप्रतिपत्त्या न्यायार्थमागतस्य धारयसीत्यभि- युक्तस्य धारयामीति संप्रतिपत्तेः कथमुत्तरत्वं अभियोगाप्रतिकूलत्वादिति वाच्यम् । भाषा- वादिनो मूर्खत्वेनापटुतया वा कदाचिद्भाषाभि- वादादेवायं हीयते इति भाषाविमर्षपर्य्यन्तं विप्रतिपन्नस्याप्युत्तरवादिनो भाषार्थं सम्यगवगम्य तन्निषेधार्थं सम्यगुत्तरासम्भवात् विद्वत्सभायां चासत्यवचनमत्यन्ताधर्म्मकारकं परोक्तिपराजये च दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसन्द- धतः संप्रतिपत्तेरुत्तरत्वं सम्भवत्येव । एवं एतेभ्य एवानिस्तारात् साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्भत्वे नोपन्यासेन साध्यत्वनिवारणात् सिद्ध- साधनेनापि वादिनः प्रत्यवस्थानाच्चोत्तरत्वं संप्रतिषत्तेः सिद्धमिति । सारं प्रकृतोपयोगि । अनाकुलं पूर्ब्बापरविरोधशून्यम् । अव्याख्या- गम्यमध्याहारादिकं विनैव प्रतीतं अभियोगस्य अभियुज्यते इत्यभियोगः सहेतुकं साध्यं तस्या- पह्नवमित्यर्थः ॥ * ॥
उत्तराभाषमाह कात्यायनः । “प्रकृतेन त्वसम्बन्धं अत्यल्पमतिभूरि च । पक्षैकदेशव्याप्यैवं तच्च नैवोत्तरं भवेत् ॥ अस्तव्यस्तप्रदव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यमसारञ्च नोत्तरं शस्यते बुधैः ॥” अस्तव्यस्तपदव्यापि अनन्वितार्थपदव्याप्तमिति व्यवहारतिलके भवदेवभट्टाः ॥ * ॥
मिथ्योत्तर- भेदमाहतुः पुनर्व्यासनारदौ । “मिथ्यैतन्नाभिजानामि मम तत्र न सन्निधिः । अजातश्चास्मि तत्काले इति मिथ्या चतुर्व्वि- धम् ॥” मिथ्यैतदिति शब्दतो नाभिजानामीत्यादिकमर्थ- तोऽपह्नवः । तथा च कात्यायनः । “श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति । अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयमुत्तरम् ॥” त्वं मह्यं धारयसीति प्रतिज्ञायां न गृहीतमिति शब्दतः । कालविशेषगर्भायां तस्यां सत्यां तदा नाहं जात इति अर्थतः । देशकालविशेष- गर्भायां तदा तत्र नाहमासं इत्यप्यर्थतः । देशादिमत्यां तच्छून्यायां वा न जानामीत्यर्थत एव योग्यास्मरणेनार्थतस्तदग्रहणप्रतिपादनात् अत्र चरमत्रयं ग्रहणावस्कन्दनमुखेन ग्रहणा- भावप्रतिपादकं सापदेशमिथ्योत्तरमात्रं आद्यं मिथ्योत्तरमात्रम् ॥ * ॥
बृहस्पतिः । “श्रुत्वाभियोगं प्रत्यर्थी यदि तत् प्रतिपद्यते । सा तु संप्रतिपत्तिः स्याच्छास्त्रविद्भिरुदाहृता ॥ अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥ आचारेणावसन्नोऽपि पुनर्लेख्यते यदि । सोऽभिधेयो जितः पूर्व्वं प्राङ्न्यायस्तु स उच्यते ॥” अभियुज्यते इत्यभियोगः । प्रतिपद्यतेऽङ्गी- करोति । तं साध्यार्थम् । तथा प्रपद्य सत्यत्वे- नाङ्गीकृत्य । कारणं तत्प्रतिकूलरूपं कारणं ब्रूयात् तदा तदुत्तरं प्रत्यवस्कन्दनम् । वाद्युक्तस्य प्रतिकूलत्वेन प्रत्यवस्कन्दनमित्यर्थः । प्रतिपक्षा- वस्कन्दनात् प्रत्यवस्कन्दनमिति जीमूतवाहनः ॥ तञ्च कारणोत्तरं त्रिविधम् । बलवत् तुल्यबलं दुर्ब्बलञ्च । तत्र बलवदुत्तरं यथा । त्वत्तः शतं गृहीतमिति सत्यं किन्तु परिशोधितमिति । अत्र उत्तरवादिन एव क्रियानिर्द्देशः । तथा च नारदः । “आधर्य्यं पूर्ब्बपक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवादे साक्षिणस्तत्र प्रष्टव्या प्रतिवादिनः ॥” आधर्य्यं दुर्ब्बलत्वं पूर्ब्बपक्षस्य । ततश्च स्थापक- साध्यस्य धार्य्यमाणत्वस्य ध्वंसकारणं निर्यात- नादि तद्रूपमुत्तरं कारणोत्तरम् । अतएव मिथ्योत्तरादस्य भेदः । तद्धि धार्य्यमाणत्वस्या- त्यन्ताभावप्रयोजकमग्रहणरूपं न तु ध्वंस- रूपम् ॥ * ॥
तुल्यबलकारणोत्तरं यथा । मदीयेयं भूमिः क्रमागतत्वादिति वाद्युक्ते मदी- येयं भूमिः क्रमागतत्वादिति प्रतिवादिना तथोत्तरमिति तत्र पूर्ब्बवादिनः साक्ष्युपन्यासः । तदसामर्थ्ये प्रतिवादिनः । तथा च याज्ञवल्क्यः । “साक्षिषूभयतः सत्सु साक्षिणः पूर्व्ववादिनः । पूर्ब्बपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥” दुर्ब्बलकारणोत्तरं यथा । ममेयं भूः क्रमागत- त्वादिति वाद्युक्ते ममेयं भूर्द्दशवर्षभुज्यमानत्वा- दिति प्रत्युत्तरं तत्तु धनमात्रप्रयुक्तम् । “पश्यतोऽब्रुवतो हानिर्धनस्य दशवार्षिकी ॥” इति याज्ञवल्क्यीयं बीजम् ॥ किन्तु नैतद्युक्तम् । “परेण भुज्यमानाया भूमेर्व्विंशतिवार्षिकी ॥” इति भूमिमात्रविषयकं तत्परार्द्धेनापोदित- त्वादिति भवदेवभट्टाः ॥ “पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥” इति शूलपाणिधृतपाठोऽपि तत्रार्थे प्रमाणम् । ततश्चात्र क्रमागतत्वे पूर्ब्बवादिनः प्रमाणोप- न्यासः । तथा चोक्तम् । “गुरावभिहिते हेतौ प्रतिवादिक्रिया भवेत् । दुर्ब्बले वादिनः प्रोक्ता क्रिया तुल्येऽपि वादिनः ॥” आचारेण व्यवहारेण । अवसन्नो भङ्गी । लेख- यते भाषामिति शेषः स वादी अस्मिन्नर्थे मया पूर्ब्बं पराजितः वाच्यः प्राङ्न्यायो हि धार्य्य- माणत्वसामान्याभावज्ञापकः ॥ * ॥
एतेषां सङ्करे विशेषमाहतुर्व्यासहारीतौ । “मिथ्योत्तरं कारणञ्च स्यातामेकत्र चेदुभे । सत्यञ्चापि सहानेन तत्र ग्राह्यं किमुत्तरम् । मिथ्याकारणयोर्व्वापि ग्राह्यं कारणमुत्तरम् ॥ यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्तु विज्ञेयमसं कीर्णमतोऽन्यथा ॥” शताभियोगे शतग्रहणं मिथ्या पञ्चाशदेव गृहीतास्ताश्च परिशुद्धा इति मिथ्याकारणां- शयोस्तुल्यरूपत्वे कारणोत्तरं ग्राह्यं आदौ विचारणीयं परिशोधनस्यार्व्वाचीनत्वेन स्मरणार्हत्वात् पश्चान्मिथ्योत्तरं तत्र ऋणस्य चिरातीतस्य कष्टप्रतिपाद्यत्वात् । एवञ्च नव- त्यभियोगे मिथ्यैतत् षष्टिपुराणा एव मया गृहीतास्तत्रापि त्रिंशत् परिशुद्धास्त्रिंशद्धार- यामि इति मिथ्याकारणसत्यैः सङ्कीर्णोत्तरेऽपि पूर्ब्बवत् कारणोत्तरमेव ग्राह्यं मिथ्याकारणयो- र्व्वापीति वापिशब्दाभ्यां तथा दर्शितत्वात् सत्योत्तरस्य स्वयंस्वीकृतत्वेन निर्णयानर्हत्वा- दिति भावः । प्राङ्न्यायेन सह सर्व्वथैव सङ्क- रानुपपत्तिरिति तन्नोक्तं यदि शतं मिथ्यापञ्च- विंशतिपुराणा गृहीतास्ते च परिशुद्धास्तथा मिथ्यांशस्य प्रचुरार्थविषयस्य विचार उपक्रम- णीयः । भूयोऽनुरोधस्याभ्यर्हितत्वात् पश्चात् स्वल्पार्थस्य विचार इति । तुल्यार्थविषयत्वे तु यत्र क्रियायाः साक्ष्यादेः फलं निर्णयः शीघ्रं भवति तदंशस्यैव प्रमाणं ग्राह्यं तथा यदि शतग्रहणे पत्रमस्ति शतापह्नवे च पञ्चाशत्- परिशोधने साक्षिणस्तदा मिथ्योत्तर एवादौ तत्खण्डनाय ग्रहनपत्रं ग्राह्यं लिखितस्य साक्षिभ्यो बलवत्त्वेन सम्यङ्निर्णयकारित्वात् पश्चात्परिशोधनं साक्षिणः प्रष्टव्याः । सङ्करो- त्तरमप्यसङ्कीर्णमदुष्टं अतो भिन्नमन्यथा सङ्कीर्ण- दुष्टमित्यर्थः । अत्र चावच्छेदभेदेन मिथ्योत्तर- सङ्करे सदुत्तरत्वमेकावच्छेदेन । सङ्करे तु अस- दुत्तरत्वमाह कात्यायनः । “पक्षैकदेशे यत् सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे स्यात् सङ्करात् तदनुत्तरम् ॥” एकदेशे इत्यत्र एकस्मिन्नेव देशे न भिन्नदेशे यथा शतं धारयाम्येव परिशोधितं न गृहीतं वा इति ॥ * ॥
अथ क्रियापादः । उत्तराभिधानानन्तरं याज्ञवल्क्यः । “ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधकम् ।” अर्थी वादी प्रतिवादी च स्वपक्षार्थित्वात् । तयोरधिकारे नियममाह व्यासः । “प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी साधयेत् क्रियाम् । मिथ्योत्तरे पूर्व्ववादी प्रतिपत्तौ न सा भवेत् ॥” मिथ्योत्तरे न गृहीतं मयेत्यादिरूपे पूर्व्ववादी भाषावादी साक्ष्यादिकं निर्द्दिशेन्नोत्तरवादी तत्र तस्य मानुष्याः क्रियाया असम्भवादिति न्यायो मूलं अत्रापि साक्ष्याद्यभावे उत्तरवादिन एव दिव्यम् । “न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥” इति कात्यायनोक्तेः ॥ अत्र पूर्व्वार्द्धेनार्थिनो दिव्यनिषेधेऽर्थात् प्रत्य- र्थिनस्तत्प्राप्तौ परार्द्धाभिधानं सिद्धे सत्यारम्भो नियमाय इति न्यायान्नियमार्थं न च व्यासवचने क्रियापदं कारणोत्तरमानुषीदैवीपरमित्येताव- दथकं मिथ्योत्तरेऽप्यनुयुज्यते इति तत्रापि अर्थिन एव दिव्यमिति वाच्यं श्रूयमाणपदस्य हि पुनरन्वयार्थमेवानुषङ्गः । नन्वर्थवैषम्यसहि- तस्य गौरवात् पूर्व्वोक्तम्यायमूलकविषयलब्धौ कात्यायनोक्तदिव्यविषयनियमभङ्गानर्हत्वाच्च यत्र विवादविषये प्रत्यर्थी सन्दिहानस्तत्र तस्योत्तरा- नर्हतया अर्थिन एव दृष्टक्रिया तदसम्भवे तस्यैव दिव्यं न तु प्रत्यर्थिनः अधिकारनिश्चयाभावात् अर्थिनस्तत्सत्तात् न च न कश्चिदभियोक्तार- मित्यादिना विरोधस्तस्योत्तरार्हप्रतियोगिविषय- त्वात् एतद्विषय एव धनस्वामिनो दिव्यमिति लोकप्रवादः ॥ * ॥
लिखिताद्यभावेनापि दिव्य- माह याज्ञवल्क्यः । “प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति- तम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥” * ॥
अथ दिव्यम् । दिव्यान्याह स एव । “तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥ रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः । विनापि शीर्षकं कुर्य्यात् नृपद्रोहेऽथ पातके ॥” महाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षकस्थः शीर्षकं प्रधानं व्यवहारस्य चतुर्थ- पादो जयपराजयलक्षणः तेन दण्डो लक्ष्यते । तत्र तिष्ठति वर्त्तते तदङ्गीकरोतीत्यर्थः । अत्राभि- योक्तुः शिरोवर्त्तित्वोक्तेरभियोज्यस्य दिव्यकर्त्तृत्वं प्रतीयते । प्रत्यर्थीच्छया अर्थिनो दिव्यमाह रुच्येति । इतरोऽभियुक्तः । एतत्सर्व्वं दिव्यतत्त्वे विवृतम् । प्रतिज्ञातार्थसाधकमिति साधकं साक्ष्यादिकम् । तदाह बृहस्पतिः । “द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा । साक्षिलेख्यानुमानञ्च मानुषी त्रिविधा स्मृता । धटाद्या धर्म्मजान्ता च दैविकी नवधा स्मृता ॥” तत्रानुमानन्तु भुक्त्यादि ॥ * ॥
तत्र साक्ष्यमाह मनुः । “समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ।” एतत् प्रमाणमात्रोपलक्षणम् । “अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यं विवादिनाम् ।” इति तद्वचनान्तरात् ॥ अतएवाकृतमपि साक्षिणमाह मनुः । “यत्रानिरुद्धो वीक्ष्येत शृणुयाद्बापि किञ्चन । पृष्टस्तत्रापि तद्ब्रूयात् यथादृष्ठं यथाश्रुतम् ॥” अनिरुद्धस्त्वमत्र साक्षित्वेनानियुक्तः । परम्पर- यापि श्रवणमाह विष्णुः । “उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा । तदभिहितश्रोतारः प्रमाणं नात्र संशयः ॥” अस्योत्तरसंज्ञामाह नारदः । “साक्षिणामपि यत् साक्ष्यं स्वपक्षं परिभाषताम् । श्रवणात् श्रावणाद्बापि स साक्ष्युत्तरसंज्ञकः ॥” स्वपक्षसम्बन्धि साक्ष्यं परिभाषतां साक्षिणां यः स्वयं शृणोति अर्थिना श्राव्यते वा स श्रवणात् श्रावणादुत्तरसाक्षीत्यर्थः । एवं योऽर्थिना गूढ- तया प्रत्यर्थिवचनं श्रावितः स गूढसाक्षीत्याह स एव । “अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते तदा गूढो गूढसाक्षी स उच्यते ॥” तेनान्यतरवाद्यभिहितार्थविषयकदृष्टकारणजं विज्ञापनं साक्ष्यमिति स्थितम् । तत्र नारदः । “तेषामपि न बालः स्यान्नैको न स्त्री न दुष्ट- कृत् । न बान्धवो न चारातिर्ब्रूयुस्ते कार्य्यमन्यथा ॥” कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन । एवञ्च यदि परमधार्म्मिकत्वेन बान्धवादीनामपि सत्य- वादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितु मर्हन्तीति । तेषां साक्ष्यविधायकं वक्ष्यमाण- मनुवचनमपि एतादृग्विषयम् । याज्ञवल्क्यः । “त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया- रताः । यथाजाति यथावर्णं सर्व्वे सर्व्वषु वा स्मृताः ॥” त्रयोऽवरा निकृष्टा येषां ते त्र्यवराः त्रिभ्यो- ऽन्यूना भवन्तीत्यर्थः । यथेति यो यज्जातीयस्तस्य तज्जातीयः साक्षी । स्त्रीणां स्त्रियोऽन्त्यजानाम- न्त्यजाः । यथावर्णं ब्राह्मणानां ब्राह्मणाः क्षत्त्रियादीनां क्षत्त्रियादयः । अभावे तु तत्त- द्भेदं विना सर्व्व एव । त्र्यवरा इत्यस्यापवाद- माह स एव । “उभयानुमतः साक्षी भवेदेकोऽपि धर्म्मवित् ।” उभयानुमतत्वं धर्म्मवित्त्वञ्च नियतं तन्त्रम् । तदाह विष्णुः । अभिमतगुणसम्पन्नस्तूभयानु- मतस्त्वेकोऽपि इति । अतएव श्रोत्रियमप्येकं निषेधयति बृहस्पतिः । “नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा । उभौ तु श्रोत्रियौ ग्राह्यौ नैकं पृच्छेत् कदा- चन ॥” एको मिलितगुणसम्पन्नः प्रघानकल्पः तदभावे उभयानुमतमात्रोऽपि ग्राह्यस्तदाह नारदः । “उभयानुमतो यः स्याद्द्वयोर्व्विवदमानयोः । भवत्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात् स संसदि ॥” उभयानुमत एकोऽलुब्धत्वादिना सर्व्वजनप्रसिद्ध- श्चेत्तदा साक्षित्वे संसदि बहुजनसन्निधौ प्रष्टव्यः तथात्वे स्नेहवैर



Correction: