वाचस्पत्यम्
व्यवहारमातृका || स्त्री व्यवहारस्य विवादनिर्णयस्य मातेव पोषकत्वात् परिच्छेदकत्वाद्वा इवार्थे कन् । व्यवहार- निर्णयार्थं प्राड्विवाकादिकार्य्ये क्रियासमुदाये “व्यवहारान्नृपः पश्येत्” इत्युक्तो व्यवहारः सोऽय- मित्थं चतुष्याच्चतुरंशकल्पनया विवादेषु ऋणादानादि- षूपदर्शितो वर्णितः “तत्र प्रत्यर्थिनोऽग्रतो लेख्यम्” इति भाषापादः प्रथमः । “श्रुतार्थस्योत्तरं लेख्यम्” इत्युत्तर- पादो द्वितीयः । “ततोऽर्थो लेखयेत्सद्य” इति क्रि- यापादस्तृतीयः । “तत्सिद्धौ सिद्धिमाप्नोति” इति सा- ध्यसिद्धिपादश्चतुर्थः । यथोक्तम् “परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यान्न्यायाद्व्यवस्थानं व्यवहार उदाहृतः । भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः । आक्षिप्तश्चतुरंशस्तु चतुष्पादभिधीयत” इति । सम्प्रति प्रत्युत्तरे तु साधनानिर्देशाद्भाषार्थस्यासाध्यत्वाच्च न साध्य सिद्धिलक्षणः पादोऽस्तीति द्विपात्त्वमेव । उत्तराभिधाना- नन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परा- मर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वे- नानभिधानात् व्यवहर्तृसम्बन्धाभावाच्च न व्यवहारपाद- त्वमिति स्थितम् इति व्यवहारमातृका । एवं सर्वव्य- वहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना क्वचित् व्यवहारविशेषे कञ्चिद्विशेषं दर्शयितुमाह” मिता० ।
शब्दकल्पद्रुमः
व्यवहारमातृका || (व्यवहारस्य मातृकेव ।)
व्यव- हारोपयोगिक्रिया । तद्यथा । व्यवहार- दर्शनम् १ व्यवहारलक्षणम् २ सभासदः ३ प्राड्विवाकादिः ४ व्यवहारविषयः ५ राज्ञः कार्य्यानुत्पादकत्वम् ६ कार्य्यार्थिनि प्रश्नः ७ आह्वानानाह्वाने ८ आसेधः ९ प्रत्यर्थिन्यागते लेख्यादिकर्त्तव्यता १० पश्चविधो हीनः ११ कीदृशं लेख्यं १२ पक्षाभाषाः १३ अना- देयाः १४ आदेयः १५ नियुक्तजयपराजये वादिजयपराजयौ १६ शोधितलेख्यनिवेशनम् १७ उत्तरावधिशोधनम् १८ शोधिते पत्रारूढे उत्तरकर्त्तव्यम् १९ उत्तरलक्षणम् २० सत्यो- त्तरलक्षणम् २१ मिथ्योत्तरलक्षणम् २२ प्रत्यवस्कन्दनोत्तरम् २३ प्राङ्न्यायोत्तरम् २४ उत्तराभासः २५ सङ्करानुत्तरम् २६ प्रत्यर्थि- क्रियानिर्द्देशः २७ उत्तरे पत्रेऽभिनिवेशिते साधननिर्द्देशः २८ तत्सिद्धौ सिद्धिः २९ चतुष्पादव्यवहारः ३० । इति मिताक्षरायां व्यवहारमातृका ॥