संस्कृत-शब्दकोशः

व्यवहारस्थान व्यवहारिकसत्ता

व्यवहारिक

वाचस्पत्यम्

व्यवहारिक ||‍ त्रि० व्यवहारः प्रयोजनतयाऽस्त्यस्य ठन् । १ व्य- वहारयोग्ये लोकप्रसिद्धे घटपटादौ स्त्रियां ङीप् । २ इङ्गदवृक्षे ३ लोकयात्रायां ४ सम्मार्ज्जर्न्या स्त्री मेदि० ।


शब्दकल्पद्रुमः

व्यवहारिकः || त्रि (व्यवहारमर्हतीति । व्यवहार + ठक् ।)
व्यवहारयोग्यः । यथा । इयं बुद्धिः ज्ञानेन्द्रियैः सहिता सती विज्ञानमयकोषो भवति । अयं कर्त्तृत्वभोक्तृत्वाभिमानित्वेन इह- लोकपरलोकगामी व्यवहारिकोजीव उच्यते । इति वेदान्तसारः ॥



Correction: