वाचस्पत्यम्
व्याकरण || पु० व्याक्रियन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपा- द्यन्ते शब्दा येन वि + आ + कृ—करणे ल्युट्! वेदाङ्गे श- ब्दसाधुतावोधके १ शास्त्रभेदे वेदान्तोक्ते नामरूपाभ्यां २ जगतोविकाशने च ||“अथ व्याकरणं वक्ष्ये कात्यायन! समासतः । सिद्ध- शब्दविवेकाय बालव्युत्पत्तिहेतवे । सुप्तिङ्न्तं पदं ख्यातं सुपः सप्त विभक्तयः । स्वोजसः प्रथमा प्रोक्ता सा प्रातिपदिकार्थके । सम्बोधने च लिङ्गादावुक्ते कर्मणि- कर्त्तरि । अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम् । अमौट्शसो द्वितीया स्यात् तत्कर्म क्रियते च यत् । द्वितीया कर्मणि प्रोक्ता उक्तानुक्ताविभेदतः । टाभ्या- भिसस्तृतीया स्यात् करणे कर्त्तरीरिता । येन क्रियते तत्करणं तत्कर्त्ता यः करोति सः । ङेभ्यांभ्यसश्चतुर्थी स्यात् सम्प्रदाने च कारके । यस्मैदित्सा धारयते रोचते सम्प्रदानकम् । पञ्चमी स्यात् ङसिभ्यांभ्योह्यपादाने च कारके । यतोऽपैति समादत्ते अपादानं भयं यतः । ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्ध उख्यते । ङ्योस् सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत् । आधारश्चा- धिकरणं रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् । पञ्चमी पर्य्युपाङ् योग इतर- र्त्तेन्यदिङ्मुखे । एनब्योगे द्वितीया स्यात् कर्मप्रवच- नीयकैः । लक्षणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती । अनुस्तेषु सहार्थे च हीनेऽनूपौ च कीर्त्ततौ । द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्मणि । अप्राणेहि विमक्ती द्वेमन्यकर्मण्यनादरे । नमःस्वस्तिस्वधास्वाहालंवषट्- योग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववा- चिनः । तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे । काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि । स्वामीश्वरा- धिपतिभिः साक्षिदायादसूतकैः । निर्द्धारणे द्वे विभक्ती षष्ठी हेतुप्रयोगके । स्मृत्यर्थकर्मणि तथा करोतेः प्रति- यत्नके । हिंसार्थानां प्रयोगे च कृति कर्मणि कर्त्तरि । न कर्त्तृकर्मणोः षष्ठी निष्ठादौ प्रतिपादिता । द्विविधं प्रातिपदिकं प्रातिपदिकमज्झलम् । भुवादिम्यस्तिङो लः स्याल्लकारा दश वै स्मृताः । तिप्तसन्तयः प्रथमो मध्यः सिप्थस्थास उत्तमः । मिब्वस्मसः परस्मै तु पदानाञ्चात्म- नेपदम् । तामातामन्तां प्रथमो मध्यख्यासाथांध्वं तथा । उत्तम इर्वहिमही ङितः कर्त्तरि धातुतः । नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् । मध्यमो युस्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि । भुवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तु धातवः । लडीरितो वर्तमाने स्मेनातीते च धातुतः । भूतानद्यतने लिट् च लिङाशिषि च धा- तुतः । विध्यादावेवानुमतौ लिङ्विधिर्मन्त्रणे भवेत् । निमन्त्रणाधीष्ट संप्रश्न प्रार्थनेषु तथाऽऽशिषि । लिडतीते परोक्षे स्याल्लङ्लुङ्, ऌट् ऌङ् भविष्यति । स्यादद्य- तने ऌट् च भविष्यति च धातुतः । धातोरॢङ्क्रिया- तिपत्तौ लिङर्थे लोट् प्रकीर्त्तितः । कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्त्तरि । शतृ शानच् तव्यण्यद् यदनीयर् क्य तृचादयः” गारुडे २०९ अ० ।
शब्दकल्पद्रुमः
व्याकरणं || क्ली (व्याक्रियन्ते अर्था येनेति । वि + आ + कृ + ल्युट् ।)
वेदाङ्गविशेषः । इति शब्द- रत्नावली ॥ तत्र साध्यसाधनकर्त्तृकर्म्मक्रिया- समासादिनिरूपणम् । तस्य व्युत्पत्तिर्यथा । व्याक्रियन्ते व्युत्पाद्यन्ते साधुशब्दा अस्मिन् अने- नेति वा । इति दुर्गादासः ॥ * ॥
“अथ व्याकरणं वक्ष्ये कात्यायन समासतः । सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥ सुप्तिङक्तं पदं ख्यातं सुपः सप्तबिभक्तयः । स्यौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥ संबोधने च लिङ्गादावुक्ते कर्म्मणि कर्त्तरि । अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम् ॥ अमौट्शसो द्वितीया स्यात् तत्कर्म्म क्रियते च यत् । द्बितीया कर्म्मणि प्रोक्ता उक्तानुक्तविभेदतः ॥ टा भ्यां भिसस्तृतीया स्यात् करणे कर्त्तरीरिता । येन क्रियते करणं तत् कर्त्ता यः करोति सः ॥ ङेभ्यां भ्यसश्चतुर्थी स्यात् संप्रदाने च कारके । यस्मै दित्सा धारयते रोचते संप्रदानकम् ॥ पञ्चमी स्यात् ङसि भ्यां भ्यो ह्यपादाने च कारके । यतोऽपैति समादत्ते अपादानं भयं यतः ॥ ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्धमुख्यके । ङ्योस्सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत् ॥ आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥ पञ्चमी पर्य्युपाङ्योग इतरर्त्तेऽन्यदिङ्मुखे । एनयोगे द्वितीया स्यात् कर्म्म प्रवचनीयकैः ॥ लक्ष्मणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती । अन्तरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥ द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्म्मणि । अप्राणे हि विभक्ती द्बे मन्यकर्म्मण्यनादरे ॥ नमःस्वस्तिस्वधास्वाहालंवषडयोग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥ तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे । काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥ स्वामीश्वराधिपतिभिः साक्षिदायादसूतकैः । निर्द्धारणे द्वे विभक्ती षष्ठी हेतुप्रयोगके ॥ स्मृत्यर्थकर्म्मणि तथा करोतेः प्रतियत्नके । हिंसाथानां प्रयोगे च कृति कर्म्मणि कर्त्तरि ॥ न कर्त्तृकर्म्मणोः षष्ठी निष्ठादौ प्रतिपादिता । द्बिविधं प्रातिपदिकं प्रातिपदिकमज्झलम् ॥ * ॥
भुवादिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः । तिप्तसन्ति प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥ मिप्वस्मसः परस्मै तु पदानाञ्चात्मनेपदम् । तामातामन्तां प्रथमो मध्यस्थासार्थांध्वमुत्तमः ॥ आदेशा इवहिमह्यन्ता अनिजादपि धातुतः । नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥ मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि । भुवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तु धातवः ॥ लडीरितो वर्त्तमाने स्मेनातीते च धातुतः । भूतानद्यतने लट् च लोडाशिषि च धातुतः ॥ विध्यादावेवानुमतौ लिङ्विधिर्मन्त्रणे भवेत् । निमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु तथाशिषि ॥ लिडतीते परोक्षे स्याल्लङ् लुङ् ऌट् ऌङ् भवि- ष्यति । स्यादद्यतने ऌट् च भविष्यति च धातुतः ॥ धातोर्लिङ्क्रियाभिपत्तौ लिङर्थे लोट् प्रकीर्त्तितः । कृतस्त्रिष्वपि वर्त्तन्ते भावे कर्म्मणि कर्त्तरि । शतृशानतव्यङ्ण्ययङनीयङ्क्यतृचादयः ॥” इति गारुडे कुमारव्याकरणे २०९ अध्यायः ॥ कुमार उवाच । “सिद्धोदाहरणं वक्ष्ये संहितादि परस्परम् । विप्रान्नं सागतान् धीदं सूत्तमं स्यात् पितॄषमः ॥ होतॄकारो विश्रुतेयं लाङ्गलीषा मनीषया । गङ्गोदकं तवल्कार ऋणार्णं प्रार्णमित्यपि ॥ शीतार्त्तश्च तवल्कारः सैन्द्री सौकार इत्यपि । मध्वासनञ्च पित्रम्बे नन्वयं नाप्ययोजयेत् ॥ नायको लवणं नावस्त एते तेन ईश्वराः । देवीगृहमथोऽमुत्र ययुरेहि पटू इमौ ॥ अमी अश्वाः षडश्वेति तनुराखुस्तृणानि च । तच्चरेत्तल्लु नातीति तज्जलं तच्श्मशानकम् ॥ सुगन्नत्र पचन्नत्र भवांश्छादयतीति दिक् । भवांष्ठक्कुरकश्चैव भवांस्तरति संसृतिम् ॥ भवाँल्लिखति ताञ्छेते भवाञ्छरोऽन्यदीदृशम् । भवाण्डीनं त्वन्तरसि त्वङ्करोषि सदार्च्चनम् ॥ कश्चरेत् कष्ठकारेण कः कुर्य्यात् कः खले स्थितः । कः शेते चैव कः षण्डः कोऽर्थः को याति गौरवम् ॥ क इहार्थ स्त एवाहुर्देवा आहुश्च भो व्रज । प्रभूर्विष्णुर्व्रजति च गीष्पतिश्चैव धूष्पतिः ॥ तस्मान्नैष व्रजेत् स स्यान्न कर्षत्यनुगच्छति । कुटीच्छाया तथाच्छाया साधवोऽन्ये तथे- दृशाः ॥ समासाः षट् पुराणे ये सद्द्विजः कर्म्मधारयः । द्विगुस्त्रिवेदी ग्रामश्वा अयं तत्पुरुषः स्मृतः ॥ तत्कृतञ्च तदर्थ श्च वृकभीतिश्च यद्धनम् । ज्ञानदक्षिणतत्त्वज्ञो वहुव्रीहिरथाव्ययी ॥ भावोऽधिस्त्रि यथोक्तित्वं द्बन्द्वो देवर्षिमानवाः । तद्धिताः पाण्डवः शैवो ब्राह्मञ्च ब्रह्मतादयः ॥ देवाग्निसखिपत्यं शुक्रोष्टुस्वयं भुवः पिता । ना प्रशास्ता च रा गौर्ग्लौ रूढाजन्ताश्च पुंस्यपि ॥ * ॥
हलन्ताश्चाश्वयुक् क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः । आत्मा राजा युवा पन्थाः पूषब्रह्महणौ शशी ॥ विड्वेधा उशनानड्वान् मधुलिट् काष्ठतट् तथा । * । वनवार्य्यस्थिवस्तूनि जगत्सामाहनी तथा ॥ कर्म्म सर्पिर्वपुस्तेज अज्झलन्ता नपुंसके । * । जाया जरा नदी लक्ष्मीः श्रीः स्त्री भूमिर्बधू- रपि ॥ भूः पुनर्भूस्तथा धेनुः स्वसा माता च नौः स्त्रियः । वाक् स्रक् धी क्षुत् क्षुधः पामा युवतिः ककुभ- स्तथा ॥ द्यौर्धृतिः प्रावृषश्चैव सुमन उष्णिहौ स्त्रियाम् । गुणद्रव्यक्रियायोगात्त्रिलिङ्गांश्च वदामि ते ॥ शुक्लः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः । पटुः कमलभूः कर्त्ता सुमतो बहवः सुनौः ॥ सत्यो नाश्रस्तथा ध्वंसो मघुभक्षमदीर्घपात् । धनार्थी च सुहृत् सोमौ वागङ्गस्त्वादिकस्तथा ॥ सुवर्णं बहुपाच्छेषा चैषा त्वनडुहा तथा । * । सर्व्वविश्वोभये चोभौ अन्यान्तरेतराणि च ॥ डतरडतरे नेमः समोऽथ सिम इत्ययम् । पूर्व्वापरावराश्चैव दक्षिणश्चोत्तराधरौ ॥ अपरश्चान्तरोऽप्ये तद्यत्तत्किमदसो द्बयम् । युष्मदस्मत् प्रथमश्चरमाल्पे तथार्द्धके ॥ एकः कतिपयो द्वौ च त्रयः सर्व्वादयस्तथा । * । भुविविदिपविक्रन्दिधार्य्यश्च व्ययतिः स्वदिः ॥ गीर्द्धुर्विद्या जुहोतिश्च जहातिश्च दधात्यपि । दीप्यति स्तूयतिर्वंहि पुत्रशिष्टश्चिनोत्यपि ॥ त्रुटिश्चासूयति स्वपि रुधि गुर्व्वी स्वती तनिः । समिः करोति क्रीणाति वृणोतिर्द्युति वर्च्चति ॥ कलीडकृपराजीवा धातवश्च युना तथा । * । भवत् भवान् भवन्ती च ज्ञेयं कर्त्तव्यमेव च ॥ कार्य्यं कृतश्च कृत्या च प्रत्ययाः स्युस्तथापरे । सूर्य्याहरौ सुराः सन्ति देवविप्रवनान्यज ॥ नरेण कार्य्यं वेदैश्च क्रियते देहि भोजनम् । द्बिजाय च वरिष्ठाभ्यां मा तेभ्योऽस्तु समागतः ॥ तीर्थात्तथाश्रमाभ्याञ्च सत्येभ्यः श्वशुरस्य च । गन्धर्व्वयोः करणानाञ्च ज्ञानं सिद्धमहान्धयोः ॥ ज्ञानतत्त्वेषु चेत्येवमन्ये नेया यथामति । सर्व्वे तिष्ठन्ति सर्व्वस्मै सर्व्वस्मात् सर्व्वतो गतः ॥ सर्व्वेषाञ्चैव सर्व्वस्मिन्नेवं विश्वादयस्तथा । पूर्व्वः पूर्व्वाश्च पूर्व्वस्मात् पूर्व्वस्मिन् पूर्व्व इत्यलम् ॥ सूत उवाच । सुप्तिङन्तं सिद्धरूपं नाममात्रेण दर्शितम् । कात्यायनः कुमारात्तु ज्ञात्वा विस्तरमब्रवीत् ॥” इति गारुडे कुमारव्याकरणे २१० अध्यायः ॥ * एतद्भिन्नं अग्निपुराणे कार्त्तिकेयोक्तव्याकरण- मस्ति । एवं महेशकृतमाहेशव्याकरणं पाणिनि- मुनिकृतपाणिनीयव्याकरणं शर्व्ववर्म्मकृतकलाप- व्याकरणं क्रमदीश्वरकृतसंक्षिप्तसारव्याकरणं पद्मनाभदत्तकृतसुपद्मव्याकरणं वोपदेवकृतमुग्ध- बोधव्याकरणं गोस्वामिकृतहरिनामामृतव्या- करणं भट्टोजीदीक्षितकृतसिद्धान्तकौमुदीव्याक- रणं अनुभूतस्वरूपाचार्य्यादिकृतसारस्वतादि- व्याकरणानि च सन्ति ॥ * ॥
(विस्तारः । यथा, महाभारते । १२ । २५१ । ११ । “व्यवसायात्मिका बुद्धिर्म्मनो व्याकरणात्मकम् ॥”)