संस्कृत-शब्दकोशः

व्याकरण व्याकुलात्मन्

व्याकुल

वाचस्पत्यम्

व्याकुल ||‍ त्रि० वि + आ + कुल—क । रोगादिना इतिकर्त्तव्य- तानिश्चयविहीने अमरः ।


शब्दकल्पद्रुमः

व्याकुलः || त्रि (विशेषेण आकुलः ।)
शोकादिभि- रितिकर्त्तव्यताशून्यः । तत्पर्य्यायः । विहस्तः २ । इत्यमरः ॥ (यथा, महाभारते । ५ । १७७ । २५ । “रुरोद सा शीकवती वाष्पव्याकुललोचना ॥” उपद्रुतः । यथा, भागवते । १ । ३ । २८ ॥ “एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥”)



Correction: