वाचस्पत्यम्
व्याख्या || स्त्री वि + आ + ख्या—अच् । विवरणात्मके शब्दसमूहरूपे १ ग्रन्थभेदे २ कथने च ।
शब्दकल्पद्रुमः
व्याख्या || स्त्री (व्याख्यानमिति । वि + आ + ख्या + “आतश्चोपसर्गे ।” इत्यङ् । ततष्टाप् ।)
विवरणम् । इति हलायुधः ॥ (यथा, भाग- वते । ७ । १३ । ८ । “न शिष्याननुवध्नीत ग्रन्थानैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भानारभेत् कचित् ॥” ग्रन्थः । यथा, तन्त्रसारे वागीश्वरीप्रकरणे । “शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डो- ज्ज्वलां व्याख्यामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ता- म्बुजैः । विभ्राणां कमलासनां कुचलतां वाग्देवतां । सस्मितां वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत् करीम् ॥”)