संस्कृत-शब्दकोशः

व्याघात व्याघ्रदल

व्याघ्र

वाचस्पत्यम्

व्याघ्र ||‍ पुंस्त्री० वि + आ + घ्ना—क । १ जन्तुभेदे अमरः स्त्रियां ङीष् । २ रक्तैरण्डे ३ करञ्जे च पु० मेदि० ।


शब्दकल्पद्रुमः

व्याघ्रः || पुं, (व्याजिघ्रतीति । वि + आ + घ्रा + कः ।)
जन्तुविशेषः । वाघ इति भाषा ॥ (यथा, छान्दोग्ये । ६ । ९ । ३ । “त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति ॥”)
तत्पर्य्यायः । शार्द्दूलः २ द्वीपी ३ । इत्यमरः ॥ पृदाकुः ४ वनश्वः ५ चित्रकः ६ पुण्डरीकः ७ । इति जटाधरः ॥ हिंस्रपशुः ८ व्याडः ९ हिंस्रकः १० हिंसारुः ११ श्वापदः १२ । इति शब्दरत्ना- बली ॥ पञ्चनखः १३ व्यालः १४ गुहाशयः १५ तीक्ष्णदंष्ट्रः १६ भीरुः १७ नखायुधः १८ । अस्य मांसगुणाः । “शार्द्दूलसिंहसरभर्क्षतरक्षुमुख्या येऽन्ये प्रसह्य विनिहन्त्यभिवर्त्तयन्ते । ते कीर्त्तिताः प्रहसनाः पललं तदीय- मर्शःप्रमेहजठरामयजाड्यहारि ॥” इति राजनिर्घण्टः ॥ स तु कश्यपभार्य्यादंष्ट्रासन्तानः । यथा, —
“दंष्ट्रा त्वजनयत् पुत्त्रान् व्याघ्रसिंहांश्च भाविनी । द्वीपिनश्च सुतास्तस्या व्याल्याद्याश्चामिष- प्रियाः ॥” इत्याद्ये वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥ नरादिशब्दोत्तरस्थः श्रेष्ठार्थवाचकः ॥ (यथा, महाभारते । १ । १५२ । २९ । “किन्नुदुःखतरं शक्यं मया द्रष्टुमतःपरम् । योऽहमद्य नरव्याघ्रान् सुप्तान् पश्यामि भूतले ॥”)
रक्तैरण्डः । करञ्जः । इति मेदिनी ॥



Correction: