वाचस्पत्यम्
व्याघ्रपाद् is an alternate of व्याघ्रपाद. व्याघ्रपाद(द्) || पु० व्याघ्रस्य पादैव मूलमस्य वा अन्त्यलोपः । १ विकङ्कतवृक्षे अमरः । २ मुनिभेदे च ३ विकङ्कटवृक्षे राजनि० ।
शब्दकल्पद्रुमः
व्याघ्रपात् || [द्] पुं, (व्याघ्रस्य पाद इव ग्रन्थि- युक्तमूलानि यस्य । “पादस्य लोपोऽस्त्या- दिभ्यः ।” ५ । ४ । १३८ । इत्यलोपः ।)
विकङ्कत- वृक्षः । इत्यमरः ॥ मुनिविशेषः । इति पुराणम् ॥ व्याघ्रतुल्यचरणे, त्रि । इति मुग्धबोधव्याकरणम् ॥