वाचस्पत्यम्
व्याघ्रपुच्छ || पु० व्याघ्रस्य पुच्छैव दलमस्य । १ एरण्डवृक्षे अमरः । ६ त० । २ व्यघ्रलाङ्गूले च ।
शब्दकल्पद्रुमः
व्याघ्रपुच्छः || पुं, (व्याघ्रस्य पुच्छमिव सवृन्तदल- मस्य ।) एरण्डवृक्षः । इत्यमरः ॥ व्याघ्रस्य लाङ्गूलञ्च ॥