वाचस्पत्यम्
व्यात्युक्षी || स्त्री वि + अति + उक्ष—भावे व्यतिरारे णच् स्वार्थे अण् ङीप् । परस्परसेचनरूपे जलक्रीडाभेदे ।
शब्दकल्पद्रुमः
व्यात्युक्षी || स्त्री (व्यतिहारेण उक्षणम् । वि + आ + अति + उक्ष + “कर्म्मव्यतीहारे णच् स्त्रियाम् ।” ३ । ३ । ४३ । इति णच् । ततः “णचः स्त्रियामञ् ।” ५ । ४ । १४ । इति अञ् । “टिड्ढाण- ञिति ।” ४ । १ । १५ । इति ङीप् ।)
रसिकानाम- न्योन्यं जलक्रीडनम् । इति संक्षिप्तसारोणादि- वृत्तिः ॥ तत्पर्य्यायः जलक्रीडाशब्दे द्रष्टव्यः ॥