संस्कृत-शब्दकोशः

व्यात्युक्षी व्याध

व्यादिश

वाचस्पत्यम्

व्यादिश ||‍ पु० वि + आ + दिश—क । १ विष्णौ विष्णुस० २ विशे- षेण आदेशके त्रि० ।


शब्दकल्पद्रुमः

व्यादिशः || पुं, (विशेषेणादिशति स्वस्वकर्म्मणि नियोजयति जगत् । वि + आ + दिश + कः । विष्णुः । यथा, —
“अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥” इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥



Correction: