वाचस्पत्यम्
व्यान || पु० वि + अन—घञ् । देहस्थे सर्वशरीरव्यापके प्राणा- दिमध्ये वायुभेदे “विष्वगननवान् वायुर्व्यान इत्यभिधी- यते” वेदान्तमतम् “व्यानो व्यानयत्यन्नं सर्वव्याधिप्रको- पनः । महारजतसुप्रख्यो हानोपादानकारणम् । स चाक्षिकर्णयोर्मध्ये कट्यां वै गुल्फयोरपि । ध्राणे गले- स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् । स्कन्धयत्यधरं वक्त्रं गात्रनेत्रे प्रकोपनः” पदार्थादर्शः ।
शब्दकल्पद्रुमः
व्यानः || पुं, (व्यानिति सर्व्वशरीरं व्याप्नोतीति । वि + आ + अन + अच् ।)
शरीरस्थपञ्चवाय्वन्तर्गत- सर्व्वशरीरगवायुः । इत्यमरः ॥ इमे प्राणादयः पञ्चवायबः शरीरे तिष्ठन्ति ते च नियत- स्थानस्थाः । यदाहुः । “हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे च व्यानः सर्व्वशरीरगः ॥” इति ॥ एवं तद्व्यापाराश्च यथा, —
“अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् । भाषणादि निमेषादि तद्ब्यापाराः क्रमादमी ॥” इति भरतः ॥ श्रीधरस्वामिमते तत्कर्म्म । व्यायनम् । आकु- ञ्चनप्रसारणादि । अन्यच्च । “व्यानो व्यानशयत्यन्नं सर्व्वव्याधिप्रकोपणः । महारजतसुप्रख्यो हानोपादानकारणः ॥ स चाक्षिकर्णयोर्मध्ये कठ्यां वै गुल्फयोरपि । घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् । स्कन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपणः ॥” इति शारदातिलकटीका ॥