संस्कृत-शब्दकोशः

व्यान व्यापकन्यास

व्यापक

वाचस्पत्यम्

व्यापक ||‍ त्रि० विशेषेणाप्नोति वि + आप—ण्वुल् । १ अधिक- देशवृत्तौ “व्यापकत्वात् परापि स्यात्” भाषा० । न्यायोक्ते स्वाधिकरणवृत्त्यभावाप्रतियोगिनि च २ पदार्थे ३ तन्त्रोक्ते सर्वाङ्गसम्बन्धिनि न्यासभेदे पु० “अङ्गुलिव्यापकन्यासौ” तन्त्रसा० । ४ आच्छादके त्रि० अमरः ।


शब्दकल्पद्रुमः

व्यापकः || त्रि (वि + आप् + ण्वुल् ।)
विशेषेणा- प्नोति यः । तद्बन्निष्ठात्यन्ताभावाप्रतियोगी । यथा, —
“साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा । स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥” इति भाषापरिच्छेदः ॥ आच्छादकः । यथा, —
“पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं तद्विदो विदुः ॥” पक्षस्य भाषार्थस्य व्यापकं आच्छादकं अभि- योगाप्रतिकूलमिति यावत् । इति व्यवहार- तत्त्वम् ॥ (यथा, कुमारसम्भवे । ६ । ७१ । “तिर्य्यगूर्द्ध्वमधस्ताच्च व्यापको महिमा हरेः ॥”)



Correction: