संस्कृत-शब्दकोशः

व्यापक व्यापद्

व्यापकन्यास

शब्दकल्पद्रुमः

व्यापकन्यासः || पुं, शिरस्तः पादान्तं पादतः शिरोऽन्तं मूलमन्त्रविन्यासः । यथा । “आदावृष्यादिको न्यासः करशुद्धिस्ततः परम् । अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥ तालत्रयञ्च दिग्बन्धः प्रणायामस्ततः परम् । ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः ॥” इति तन्त्रसारः ॥ प्रपञ्चस्तु न्यासशब्दे द्रष्टव्यः ॥



Correction: