वाचस्पत्यम्
व्यापिन् || त्रि० वि + आप—णिनि । १ व्यापके स्त्रियां ङीप् । शवष्णौ पु० विष्णुस० ।
शब्दकल्पद्रुमः
व्यापी || [न्] पुं, (व्याप्नोति सर्व्वमिति । वि + आप + णिनिः ।)
विष्णुः । यथा, —
“स्वपनः स्ववशो व्यापी नैकात्मा नैककर्म्मकृत् ॥” इति महाभारते । तस्य सहस्रनामस्तोत्रे । १३ । १४९ । ६३ ॥ त्रि, व्यापकः । यथा, —
“त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः । न तत्र युग्गादरणमन्यत्र हरिवासरात् ॥” इति तिथ्यादितत्त्वधृतपराशरवचनम् ॥