वाचस्पत्यम्
व्यापृत || त्रि० वि + आ + पृ—क्त । १ व्यापारयुक्ते २ कर्मसचिवे हेमच० ।
शब्दकल्पद्रुमः
व्यापृतः || पुं, (वि + आ + पृ + क्तः ।)
कर्म्म- सचिवः । यथा, —
“नियोगी कर्म्मसचिव आयुक्तो व्यापृतश्च सः ॥” इति हेमचन्द्रः ॥ व्यापारयुक्ते, त्रि । वि-आङ्-पूर्ब्ब-पृ-धातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, उत्तरचरिते । १ । “आशिथिलपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेव व्यरंसीत् ॥”)