वाचस्पत्यम्
व्याप्त || त्रि० वि + आप + —क्त । १ पूर्णे हेमच० । २ समाक्रान्ते २ ख्याते च मेदि० । ४ स्थापिते ५ व्याप्तियुते च “समेन यदि नो व्याप्तः” उदयनाचार्य्यः ।
शब्दकल्पद्रुमः
व्याप्तं || त्रि (वि + आप् + क्तः ।)
सम्पूर्णम् । तत्- पर्य्यायः । पूर्णम् २ आचितम् ३ छन्नम् ४ पूरितम् ५ भरितम् ६ निचितम् ७ । इति हेमचन्द्रः ॥ (यथा, गीतायाम् । ११ । २० । “द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्व्वाः ॥”)
ख्यातम् । समाक्रान्तम् । इति मेदिनी ॥ स्थापितम् । यथा । प्राप्तं प्रणिहिते समे इत्यत्र व्याप्तमपि पाठः । इत्यमरटीकायां रायमुकुटः ॥