संस्कृत-शब्दकोशः

व्याप्य व्यामन

व्याम

वाचस्पत्यम्

व्याम ||‍ पु० वि + अम—घञ् । तिर्य्यक्पार्श्वतो विस्तृतयोर्बाह्वो- रन्तरालपरिमाणे हेमच० ।


शब्दकल्पद्रुमः

व्यामः || पुं, (विशेषेण अम्यतेऽनेनेति । अम गतौ + घञ् ।)
तिर्य्यक्पार्श्वे ततयोः सहस्तयोर्बाह्वोर- न्तरम् । वेँउ इति भाषा । व्यामीयतेऽनेन व्यामः कृद्धोः कभाव इत्युक्तेर्माङो डः । इत्य- मरभरतौ ॥ “व्यामव्यायामन्यग्रोधास्तिर्य्यक्बाहू प्रसारितौ ।” इति हेमचन्द्रः ॥ (यथा, महा- भारते । ३ । ११ । ३९ । “ततो भीमो महाबाहुरारुज्य तरसा द्रुमम् । दशव्याममथोद्विद्धं निष्पत्रमकरोत् तदा ॥”)



Correction: