संस्कृत-शब्दकोशः

व्यायाम व्याल

व्यायोग

वाचस्पत्यम्

व्यायोग ||‍ पु० वि + आ + युज—घञ् । दृश्यकाव्यभेदे सा० द० तल्ल- क्षणमुक्तं यथा “ख्यातेतिवृत्तोव्यायोगः स्वल्पस्त्रो- जनसंयुतः । हीनोगर्भविमर्षाभ्यां नरैर्बहुभिराश्रितः । एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः । कौशिकीवृत्ति- रहितः प्रख्यातस्तत्र नायकः । राजर्षिरथवा दिव्यो भ- वेद्धोरोद्धतश्च सः । हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो- रसाः” यथा सौगन्धिकाहरणधनञ्जयविजयादि” ।


शब्दकल्पद्रुमः

व्यायोगः || पुं, (वि + आ + युज + घञ् ।)
दश- विधरूपकान्तर्गतरूपकविशेषः । यथा, —
“स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगः समवाकारो विथ्यङ्केहामृगा इति ॥ अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृतादिकाः ॥” इति हेमचन्द्रः ॥ (तल्लक्षण यथा, साहित्यदर्पणे । ६ । ५१४ । “ख्यातेतिवृत्तो व्यायोगः स्वल्पस्त्रीजनसंयुतः । हीनो गर्भविमर्षाभ्यां नरैर्ब्बहुभिराश्रितः ॥ एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः । कौशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥ राजर्षिरथ दिव्यो वा भवेद्धीरोद्धतश्च सः । हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥”)



Correction: