वाचस्पत्यम्
व्यावृत्ति || स्त्री वि + आ + वृत—क्तिन् । निवारणे ।
शब्दकल्पद्रुमः
व्यावृत्तिः || स्त्री (वि + आ + वृत् + क्तिन् ।)
खण्डनम् । यथा, —
“अतीतः पन्थानं तव च महिमा वाङ्मनसयो- रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः । पदे त्वर्व्वाचीने पतति न मनः कस्य न वचः ॥” इति महिम्नस्तोत्रम् ॥ आवृत्तिः । यथा । सर्व्वसपक्षव्यावृत्तिरेव दोषो न विपक्षव्यावृत्तिरपि तस्याननुगुणत्वात् । इति चिन्तामणौ असाधारणमूलम् ॥