वाचस्पत्यम्
व्यास || पु० व्यस्यति वेदान् वि + अस—घञ् । १ पराशरसुते मु- निभेदे व्यासश्च नारायणस्य पञ्चकलावतारभेदः यथोक्तं ब्रह्मवै० पु० ४ अ० “व्यासः पुराणसूत्रञ्च पप्रच्छ बाल्मिकं यदा । मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् । तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः । संप्राप निर्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् । पुराणसूत्रं श्रुत्वा स व्यासः पञ्चकलोद्भवः । त्वां सिषेवे प्रदध्यौ च शतवर्षञ्च पुष्करे । तदा त्वत्तोवरं प्राप्य स कवीन्द्रो वभूव ह । तदी वेदविभागञ्च पुराणञ्च चकार ह” । स च कन्याकाले सत्यवत्यां पराशराज्जातः कालीनशब्दे १९९३ पृ० दृश्यम् वेदव्यासशब्दोक्तेषु मुनिभेदेषु च २ समासादिसमा- नार्थके विग्रहवाक्ये ४ विस्वारे अमरः वृत्तक्षेत्रस्य म- ध्यस्थरेखायाम् “व्यासे भनन्दाग्निहते” लीला० क्षेत्र- शब्दे २४०१ पृ० दृश्यम् । “यएवं वाचयेद्विप्रा स ब्रह्मन्! व्यास उच्यते” इत्युक्ते ५ पुराणपाठके विप्रे च ६ मानभेदे शब्दर० ।
शब्दकल्पद्रुमः
व्यासः || पुं, (वि + अस् + घञ् ।)
विस्तारः । इत्यमरः ॥ (यथा, महाभारते । १ । १ । ५१ । “विस्तीर्य्यैतत् महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥” “समासः संक्षेपः व्यासो विस्तारः ।” इति तट्टीका ॥)
मानभेदः । इति शब्दरत्नावली ॥ पाठकब्राह्मणः । यथा, नैयतकालिकतल्पतरौ भविष्यपुराणम् ॥ “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् ॥ बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो नृप । ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप । य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥” इति तिथ्यादितत्त्वम् ॥ गोलस्य मध्यरेखा । यथा, —
“व्यासे भनन्दाग्निहते विभक्ते खवाणसूर्य्यैः परिधिस्तु सूक्ष्मः । द्वाविंशतिघ्ने विहृतेऽथ शैलैः स्थूलोऽथवा स्याद्ब्यवहारयोगः ॥” उदाहरणम् । “विष्कम्भमानं किल यत्र सप्त तत्र प्रमाणं परिधेः प्रचक्ष्व । द्बाविंशतिर्यत् परिधिप्रमाणं तद्व्याससंख्या च सखे विचिन्त्य ॥” इति लीलावती ॥ * ॥
(व्यास्यति वेदानिति । वि + आ + अस् + अच् ।)
मुनिविशेषः । तस्य पर्य्यायो वेदव्यास- शब्दे द्रष्टव्यः ॥ (अस्य निरुक्तिर्यथा महा- भारते । १ । १०५ । १४ । “यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्णात् कृष्णत्वमेव च ॥”)
स च सत्यवत्यां कन्याकाले पराशराज्जातः । श्रीकृष्णस्य पञ्चकलोद्भवः । यथा, —
“व्यासः पुराणसूत्रञ्च पप्रच्छ वाल्मिकं यदा । मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥ तदा चकार सिद्धान्तं त्वद्बरेण मुनीश्वरः । संप्राप निर्म्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् ॥ पुराणसूत्रं श्रुत्वा स व्यासः पञ्चकलोद्भवः । त्वां सिषेवे प्रदध्यौ च शतवर्षञ्च पुष्करे ॥ तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह । तदा वेदविभागञ्च पुराणञ्च चकार ह ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४ अध्यायः ॥ * ॥
तस्य जन्मान्तरं यथा, —
“अथ भूयो जगत्स्रष्टा भोः शब्देनानुवादयन् । सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥ अपान्तरतमा नाम सुतो वाक्सम्भवः प्रभुः । भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥ तमुवाच नतं मूर्द्ध्ना देवानामादिरव्ययः । वेदाख्याने श्रुतिः कार्य्या यथा मतिमतां वर ॥ तस्मात् कुरु यथाज्ञप्तं ममैतद्बचनं मुने । तेन भिन्नास्तदा वेदा मनोः स्वायम्भुवोऽन्तरे ॥ ततस्तुतोष भगवान् हरिस्तेनास्य कर्म्मणा । तपसा च सुतप्तेन यमेन नियमेन च ॥ मन्वन्तरेषु पुत्त्रत्वमेवमेवं प्रवर्त्तकः । भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥” इति महाभारते मोक्षधर्म्मः ॥ * ॥
अन्यच्च । “सुतं त्वजनयच्छक्तरदृश्यन्ती पराशरम् । काली पराशरात् जज्ञे कृष्णद्वैपायनं मुनिम् ॥ द्वैपायनादरुण्यां वै शुको जज्ञे गुणान्वितः ।” इति वह्रिपुराणे प्रजापतिसर्गो नामाध्यायः ॥ * युगभेदे व्यासभेदो यथा, —
“यस्मिन्मन्वन्तरे व्यासा ये ये तांस्तान्निबोध मे । यथा च भेदः शास्वानां व्यासेन क्रियते मुने ॥ अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः । वैवस्वतेऽन्तरे त्वस्मिन् द्बापरेषु पुनः पुनः ॥ वेदव्यासा व्यतीता ये अष्टाविंशतिसत्तमाः । चतुर्धा यैः कृतो वेदो द्बापरेषु पुनः पुनः ॥ द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा । द्बितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः । सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः ॥ सप्तमे च तथैवेन्द्रो वशिष्टश्चाष्टमे स्मृतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ एकादशे वै त्रिवृषो भारद्बाजस्ततः परम् । त्रयोदशे चान्तरीक्षो धर्म्मी चापि चतुर्द्दशे ॥ त्रय्यारुणः पञ्चदशे षोडशे तु धनञ्जयः । कृतञ्जयः सप्तदशे ऋणज्योऽष्टादशे स्मृतः ॥ ततो व्यासो भरद्वाजो भरद्बाजात्तु गोतमः । गोतमादुत्तमो व्यासो हर्य्यात्मा योऽभिधीयते ॥ अथ हर्य्यात्मनो वेणः स्मृतो वाजश्रवास्तु यः । सोमो मुख्यायनस्तस्मात्तृणबिन्दुरिति स्मृतः ॥ ऋक्षोऽभूद्भार्गवस्तस्माद्वाल्मीकिर्योऽभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥ जातुकर्णोऽभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः ॥ एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु । भविष्ये द्बापरे चापि द्रौणिर्व्यासो भविष्यति । व्यतीते मम पुत्त्रेऽस्मिन् कृष्णद्वैपायने मुनौ ॥” इति विष्णुपुराणे ३ अंशे ३ अध्यायः ॥ * ॥
कूर्म्मपुराणे त्वियान् विशेषः । द्बादशे द्वापरे शततेजाः । त्रयोदशे धर्म्मः । चतुर्द्दशे तरक्षुः । पञ्चदशे त्र्यायणः । अष्टादशे ऋतञ्चयः । एक- विंशे वाजश्रवाः । द्बाविंशे शुष्मापणः । त्रयो- विंशे तृणविन्दुः । चतुर्व्विंशे वाल्मीकिः । पञ्च- विंशे विष्णुः । अन्यत् विष्णपुराणवत् ॥ (एतद्- विवरणञ्च देवीभागवते १ स्कन्धे ३ अध्याये च द्रष्टव्यम् ॥)