वाचस्पत्यम्
व्यासक्त || त्रि० वि + आ + सन्ज—क्त । १ आसक्ते तत्परे २ संलग्ने च ।
शब्दकल्पद्रुमः
व्यासक्तः || त्रि (वि + आ + सञ्ज + क्तः ।)
विशे- षेणासक्तः । संलग्नः । यथा, —
“व्याकोषेन्दीवराभा कनकपरिलसत्पीतवासाः सुहासा वर्हैरुच्चन्द्रकान्तैर्व्वलयितचिकुरा चारुकर्णा- वतंसा । अंसव्यासक्तवंशध्वनिसुस्वितजगद्वल्लवीभिर्लसन्ती मूर्त्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा ॥” इति छन्दोमञ्जरी ॥