वाचस्पत्यम्
व्याहत || त्रि० वि + आ + हन—क्त । व्याघातयुक्ते ।
शब्दकल्पद्रुमः
व्याहतः || त्रि (वि + आ + हन + क्तः ।)
विशेषे- णाहतः । व्यर्थः । यथा । सुप्तव्यासक्तमनसाञ्चे- न्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् तैश्चाप- देशाज्ज्ञानविशेषाणां व्याहतत्वादहेतुः । इति गोतमसूत्रे प्रत्यक्षपरीक्षाप्रकरणम् ॥ अपि च । “अव्याहताज्ञः सर्व्वासु यः सदा देवयोनिषु । निर्ज्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥” इति देवीमाहात्म्यम् ॥