संस्कृत-शब्दकोशः

व्युत्थान व्युत्पन्न

व्युत्पत्ति

वाचस्पत्यम्

व्युत्पत्ति ||‍ स्त्री वि + उद् + पद—क्तिन् । १ विशेषेण उत्पत्तौ शास्त्रजन्येशब्दार्थज्ञानादिसम्पाद्ये संस्कारभेदे ३ शब्दा० नामर्थावबोधकशक्तौ च ।


शब्दकल्पद्रुमः

व्युत्पत्तिः || स्त्री (वि + उत् + पद् + क्तिन् ।)
विशेषे- णोत्पत्तिः । संस्कारः । इति व्युत्पन्नशब्दार्थ- दर्शनात् । यथा । शरत्कालबोधनीयत्वेन शारदा- पदव्युत्पत्तेस्तत् पदं तालव्यादि सारं दतातीति व्युत्पत्तिस्तु काल्पनिकी । इति तिथ्यादितत्त्वम् ॥ शक्तिज्ञानम् । यथा । व्यवहारादिवाधकं विना विवरणादपि व्युत्पत्तेः । वाधकं विना स्वसा- ध्यस्य वाधकं यद्विशेषणं तदभाववत्त्वविशेषण- सहकारेण व्युत्पत्तेः व्युत्पत्तिसम्भवात् शक्ति- ग्रहसम्भवादिति यावत् । इति आख्यातवादस्य माथुरी टीका ॥



Correction: