संस्कृत-शब्दकोशः

व्युदस्त व्युष्ट

व्युदास

वाचस्पत्यम्

व्युदास ||‍ पु० वि + उद् + अस + घञ् । निराकरणे ।


शब्दकल्पद्रुमः

व्युदासः || पुं, (वि + उत् + अस + घञ् ।)
निरासः । परित्यागः । यथा । तदैवेत्येवकारश्रवणात्तिथि- द्वैधे खण्डविशेषो नियम्यते कर्म्मणि खण्डान्तर- व्युदासाय । इत्यमावास्याश्राद्धकालनिरूपणे तिथ्यादितत्त्वम् ॥ (यथा च महाभारते । १२ । १९ । १८ । “अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके ॥”)



Correction: