वाचस्पत्यम्
व्यूढ || त्रि० वि + वह—क्त । १ निवेशनविशेषेण स्थापितेव्यूहयुक्ते सैन्यादौ “व्यूढां द्रुपदपुत्रेण” गीता । २ विन्यस्ते ३ सहते अमरः “व्यूढोरस्को वृषस्कन्धः” रघुः । ४ पृथुले त्रि० मेदि० ५ परिहिते ६ विवाहिते च त्रि० “व्यूढा काचन कन्यका” प्रबोधचन्द्रोदयः ।
शब्दकल्पद्रुमः
व्यूढः || त्रि (विशेषेण उह्यतेस्म । वि + वह + क्तः ।)
विन्यस्तः । संहतः । इत्यमरः । ३ । ३ । ४४ ॥ (व्यूहरचनयाधिष्ठितः । यथा, गीतायाम् । १ । २ । “दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्य्योधनस्तदा । आचार्य्यमुपसंगम्य राजा वचनमब्रवीत् ॥”)
पृथुलः । इति मेदिनी ॥ (यथा, रघुः । १ । १३ । “व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्म्मक्षमं देहं क्षात्त्रो धर्म्म इवाश्रितः ॥”)