वाचस्पत्यम्
व्रज || गतौ भ्वा० पर० सक० सेट् । व्रजति अव्राजीत् ।
वाचस्पत्यम्
व्रज || पु० व्रज—घञर्थे क । १ समूहे अमरः । २ गोष्ठे ३ पथि मेदि० मथुरासमीपस्थे देशभेदे च ||मात्स्ये “व्रजमण्डलभूगोलं शेषनागफणाम्बरम् । कुमादाख्यं महाश्रेष्ठं सर्वेषां मध्यसंस्थितम् । तस्यो- परिस्थितं लोकं सर्वस्थानं महाफलम् । कृष्णलीला विहारार्थमुच्चस्थानविराजितम् । चतुरष्टक ८४ क्रोशेन प- रिपूर्णविराजितम् । अस्य प्रदक्षिणां कुर्वन् धनधान्यसुखं लभेत् । दानार्च्चावासतो लोको विष्णुलोकमवाप्नु- यात् । आवसन् म्रियते चेत्तु पुनर्जन्म न विद्यते । पुण्यं लक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले । कृष्णेन नि- र्मितास्तीर्थाः सार्द्धद्वयसहस्रकाः” । तत्रादौ वनोपवन प्रतिवनाधिवनान्यष्टचत्वाविंशत् तानि चतुरष्टक्रोशपरि- माणस्थितानि चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह । पाद्मे “वनानि द्वादशान्याहुर्यमुनोत्तरदक्षिणे । महावनं १ महाश्रेष्ठं वरं काम्यवनं २ शुभम् । कोकिलाख्यं तृतीयञ्च ३ तुर्य्यं तालवनं ४ तथा । पञ्चमं कुमुदाख्यञ्च ५ षष्ठं भाण्डीरसंज्ञकम् ६ । नाम्ना छत्रवनं ७ श्रेष्टं स प्तमं परिकीर्त्तितम् । अष्टमं खदिरं ८ प्रोक्तं नवमं लीहजं वनम् ९ । नाम्ना भद्रवर्न १० श्रेष्ठं दशमं बहु- पुण्यदम् । एकादशं समाख्यातं बहुलावनसंज्ञकम् ११ । नाम्ना विल्ववनं १२ श्रेष्ठं द्वादशं कामनाप्रदम् । इति द्वादशसंज्ञानि वनानि शुभदानि च” । द्वादशोपवना- न्याह नाराहे “आदौ ब्रह्मवनं १ नाम द्वितीयं त्वप्स० रोवनम् २ । तृतीयं विह्वलं ३ नाम कदम्बाख्यं ४ चतु- र्थकम् । नाम्ना स्वर्णवनं ५ श्रेष्ठं पञ्चमं परिकीर्त्ति- तम् । सुरभीवननामा ६ पि षष्ठमाह्लादवर्द्धनम् । श्रेष्ठं प्रेमवनं ७ नाम सप्तमं शुभदं नृणाम् । मयूरवन नामा ८ पि चाष्टमं परिकीर्त्तितम् । मानेङ्गितवनं ९ श्रेष्ठं नवमं मानबर्द्धनम् । शेषशायिवनं १० श्रेष्ठं दशमं पापनाशनम् । एकादशं समाख्यातं नारदाख्यं ११ शुभोदितम् । द्वादशं परमानन्दवनं १२ सर्वार्थदायकम् । इति द्वादशसंज्ञानि वनान्युपवनानि च” । द्वादशप्रतिव- नानि भविष्ये “आदौ रङ्गवनं १ श्रेष्ठं पुरसंज्ञाविरा- जितम् । वार्त्तावनं २ द्वितीयञ्च २ करहाटं ३ तृतीयकम् । चतुर्थं काम्यनामापि ४ वनं कामप्रदं नृणाम् । वनमञ्जन- नामापि ५ पञ्चमं स्त्रीशुभप्रदम् । नाम्ना कर्णवनं ६ श्रेष्ठं षष्ठं स्वप्नवरप्रदम् । कृष्णाक्षिपलकं ७ नाम वनं सप्तस- मीरितम् । नन्दप्रेक्षणकृष्णाख्यं वनं नन्दन ८ मष्टमम् । वनमिन्द्रवनं ९ नाम नवमं कृष्णपूजितम् । शिक्षावनं १० शुभं प्रोक्तं दशमं नन्दभासितम् । चन्द्राबलीवनं ११ श्रेष्ठमेकादशमुदाहृतम् । नाम्ना लोहवनं १२ श्रेष्ठं द्वादशं शुभदं नृणाम् । इति प्रतिवनान्याहुर्मार्गे वामे च दक्षिणे । इति द्वादशसंज्ञास्ते देवावासफल- प्रष्टाः” । द्वादशाधिवनान्याह विष्णुपु० “मथुरा १ प्रयमं नाम राधाकुण्डं २ द्वितीयकम् । नन्दग्राम ३ स्तृतीयश्च गूढस्थानं ४ चतुर्थकम् । पञ्चमं ललिताग्रामं ५ वृषभानुपुर ६ ञ्च षट् । सप्तमं गोकुलं स्थान ७ मष्टमं बलदेवकम् ८ । गोव- र्द्धनवनं ९ श्रेष्ठं नवमं कामनाप्रदम् । वनं जाववटं १० नाम दशमं परिकीर्त्तितम् । मुख्यं वृन्दावनं ११ श्रेष्ठमे- कादशं प्रकीर्त्तितम । सङ्केतवटकं १२ स्थानं वनं द्वादशं कीर्त्तितम् । इति द्वादशसज्ञानि वनान्यधिवनानि च । वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः । एषां नैव विलोकेन वनयात्रा च निष्फला एषाञ्च दर्शनेनैव वनयात्रा धुभप्रदा । आदौ लोलां यदा पश्येद्वनयात्रां ततश्चरेत् । सर्वान् कामानवाप्नोति विष्णुलोकमवाप्नु- यात् । सर्वत्र विजयी भूयाद्वनयात्राप्रभावतः” ।
वाचस्पत्यम्
व्रज || संस्कारे गतौ च चु० उ० सक० सेट् । ब्राजयति ते अविव्रजत् ।
शब्दकल्पद्रुमः
व्रज || क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
क, व्राजयति । विरेफौ तौ । तौ एतौ विरेफौ रेफरहितौ च स्याताम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
व्रजं || क्ली व्रजनम् । गमनम् । व्रज गतौ इत्यस्मात् घप्रत्ययेन निष्पन्नमिदम् । इति सिद्धान्त- कौमुदी ॥
शब्दकल्पद्रुमः
व्रज || गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर० सक०-सेट् ।)
व्रजति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
व्रजः || पुं, (व्रज गतौ + “गोचरसंचरेति ।” ३ । ३ । ११९ । इति घप्रत्ययेन निपातनात् साधुः ।)
समूहः । इत्यमरः ॥ (यथा, महाभारते । १ । १८९ । १२ । “ततः प्रतापः सुमहान् शब्दश्चैव विभावसोः । प्रादुरासीत् तदा तेन बुबुधे स जनव्रजः ॥”)
गोष्ठम् । (यथा, माघे । २ । ६४ । “निरुद्धवीवधासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दशार्हाः पुरीं माहिष्मतीं द्बिषः ॥ पन्थाः । इति मेदिनी ॥ अग्रवणमथुरयोश्चतु ष्पार्श्ववर्त्तिदेशः । अस्य विवरणं यथा, मात्स्ये । “व्रजमण्डलभूगोलं शेषनागफणं वरम् । कुमुदाख्यं महाश्रेष्ठं सर्व्वेषां मध्यसंस्थितम् ॥ तस्योपरिस्थितं लोकं सर्व्वस्थानं महाफलम् । कृष्णलीलाविहारार्थमुच्चस्थानविराजितम् ॥ चतुरष्टकक्रोशेन परिपूर्णविराजितम् । अस्य प्रदक्षिणीकुर्व्वन् धनधान्यसुखं लभेत् ॥ दानार्च्चावासतो लोको विष्णुलोकमवाप्नुयात् । आवासान्म्रियते चेह पुनर्जन्म न विद्यते ॥ पुण्यं लक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले । कृष्णेन निर्म्मितास्तीर्थाः सार्द्धद्बयसहसकाः ॥” * तत्रादौ वनोपवनप्रतिवनाधिवनान्यष्टचत्वा- रिंशत् तानि चतुरष्टक्रोशपरिमाणस्थितानि चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह । पाद्मे । “वनानि द्बादशान्याहुर्यमुनोत्तरदक्षिणे । महावनं महाश्रेष्ठं १ द्वयं काम्यवनं शुभम् २ ॥ कोकिलाख्यं तृतीयञ्च ३ तूर्य्यं तालवनं तथा ४ । पञ्चमं कुमुदाख्यञ्च ५ षष्ठं भाण्डीरसंज्ञकम् ६ ॥ नाम्ना छत्रवनं श्रेष्ठं सप्तमं परिकीर्त्तितम् ७ । अष्टमं खदिरं प्रोक्तं ८ नवमं लोहजं वनम् ९ ॥ नाम्ना भद्रवनं श्रेष्ठं दशमं बहुपुण्यदम् १० । एकादशं समाख्यातं वहुलावनसंज्ञकम् ११ ॥ नाम्ना विल्ववनं श्रेष्ठं द्वादशं कामनाप्रदम् १२ । इति द्वादशसं ज्ञानि वनानि शुभदानि च ॥” इति द्वादशवनानि ॥ अथ द्वादशोपवनान्याह वाराहे । “आदौ ब्रह्मवनं नाम १ द्बितीयं त्यप्सरा- वनम् २ । तृतीयं विह्वलं नाम ३ कदम्बाख्यं चतुर्थकम् ४ ॥ नाम्ना स्वर्णवनं श्रेष्ठं पञ्चमं परिकीर्त्तितम् ५ । सुरभीवननामानं षष्ठमाह्लादवर्द्धनम् ६ ॥ श्रेष्ठं प्रेमवनं नाम सप्तमं शुभदं नृणाम् ७ । मयूरवननामानमष्टमं परिकीर्त्तितम् ८ ॥ मालेङ्गितवनं श्रेष्ठं नवमं मानवर्द्धनम् ९ । शेषशायिवनं श्रेष्ठं दशमं पापनाशनम् १० ॥ एकादशं समाख्यातं नारदाख्यं शुभोदितम् ११ । द्बादशं परमानन्दवनं सर्व्वार्थदायकम् १२ ॥ इति द्वादशसंज्ञानि वनान्युपवनानि च ॥” इति द्वादशोपवनानि ॥ * ॥
अथ द्वादशप्रतिवनानि । भविष्ये । “आदौ रङ्कवनं श्रेष्ठं पुरसंज्ञाविराजितम् १ । वार्त्तावनं द्बितीयञ्च २ करहाख्यं तृतीयकम् ३ ॥ चतुर्थं काम्यनामानं वनं कामप्रदं नृणाम् ४ । वनमञ्जननामानं पञ्चमं स्त्रीशुभप्रदम् ५ ॥ नाम्रा कर्णवनं श्रेष्ठं षष्ठं स्वप्नवरप्रदम् ६ । कृष्णाक्षिपलकं नाम वनं सप्तममीरितम् ७ ॥ बन्दप्रेक्षणकृष्णाख्यं वनं नन्दनमष्टमम् ८ । वनमिन्द्रवनं नाम नवमं कृष्णपूजितम् ९ ॥ शिक्षावनं शुभं प्रोक्तं दशमं नन्दभाषितम् १० । चन्द्रावलीवनं श्रेष्ठमेकादशमुदाहृतम् ११ ॥ नाम्ना लोहवनं श्रेष्ठं द्बादशं शुभदं नृणाम् १२ । इति प्रतिवनान्याहुर्मार्गे वामे च दक्षिणे । इति द्वादशसंज्ञास्ते देवावासफलप्रदाः ॥” इति द्वादश प्रतिवनानि ॥ * ॥
अथ द्वादशाधिवनानि । विष्णुपुराणे । “मथुरा प्रथमं नाम १ राधाकुण्डं द्बितीयकम् २ । नन्दग्रामं तृतीयञ्च ३ गूढस्थानं चतुर्थकम् ४ ॥ पञ्चमं ललिताग्रामं ५ वृषभानुपुरञ्च षट् ६ । सप्तमं गोकुलं स्थान-७ मष्टमं बलदेवकम् ८ ॥ गोवर्द्धनवनं श्रेष्ठं नवमं कामनाप्रदम् ९ । वनं जाववटं नाम दशमं परिकीर्त्तितम् १० ॥ मुख्यवृन्दावनं श्रेष्ठमेकादशं प्रकीर्त्तितम् ११ । सङ्केतवटकं स्थानं वनं द्बादशं कीर्त्तितम् १२ ॥ इति द्बादशसंज्ञानि वनान्यधिवनानि च । वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः ॥ एषां नैव विलोकेन वनयात्रा च निष्फला । एषाञ्च दर्शनेनैव वनयात्रा शुभप्रदा ॥ आदौ लीलां यदा पश्येद्बनयात्रां ततश्चरेत् । सर्व्वान् कामानवाप्नोति विष्णुलोकमवाप्नुयात् । सर्व्वत्र विजयी भूयाद्बनयात्राप्रभावतः ॥” इति व्रजभक्तिविलासे १ अध्यायः ॥