वाचस्पत्यम्
व्रणास्राव || पु० ६ त० । सुश्रुतोक्ते व्रणस्य पूयादिक्षरणे । तद्विज्ञानं च तत्रोक्तं यथा “अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः । “त्वङ्मांससिरास्नःय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणस्था- नानि । अत्र सर्वव्रणसन्निवेशः । तत्राद्यैकवास्तुसन्निवेशो त्वग्भेदी व्रणः सूप्रचरः शेषाः स्वयमवदीर्य्यमाणा दुरु- पचाराः । तन्नायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणा- कृतिसमासः । शेषास्तु विकृताकृतयो दुरुपक्रमा भ- वन्ति । सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभि- षग्भिश्चोपक्रान्ताः । अनात्मनामज्ञैश्चोपक्रान्ताः प्रवृद्धत्वा- द्दोषाणाम् । तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽति- मृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्ला- दीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरा- स्नायुप्रभृतिपूर्णः पूतिपूयस्राय्युन्मार्ग्युत्सङ्ग्यमनोज्ञ- दर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशो- थपिडकोपद्रुतोऽत्यर्थं दुष्टशीणितास्रावी दीर्घकाला- नुबन्धी चेति दुष्टव्रणलिङ्गानि । तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत । अत ऊर्द्ध्वं सर्वास्रावान् वक्ष्यामः । तत्र वृष्टासु छिन्नासु वा त्वक्षु स्फोटेषु भिन्नेषु विदारितेषु वा सलिलप्रकाशो भव- त्यास्नावः किञ्चिद्विस्रः पीतावभासश्च । मांसगतः सर्पिः प्रकाशः सान्द्रः श्वेतः पिच्छिलश्च । सिरागतः सद्य- श्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडी भिरिव तोयागमनं पूयस्यास्रावश्चात्र तनुर्विच्छिन्नः पि- च्छिलोऽवलन्वो श्यावोऽवश्यायप्रतिमश्च । स्नायुगतः स्निग्धो घनः सिंहाणकप्रतिमः सरक्तश्च । अस्थिगतो- ऽस्थून्यभिहते स्फुटिते मिन्ने दोषावदारिते वा दोषाव- क्षितत्वादस्थिनिःसारं शुक्तिधौतमिवाभाति । आस्राव- श्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च । सन्धिगतश्च पीड्यमानो न प्रवर्त्तते आकुञ्चनप्रसारणोन्नमनविनम- नप्रधावनोत्कासनप्रवाहणैश्च स्रवति । आस्रावश्चात्र पि- च्छिलोऽवलम्बी सफेनपूयरुधिरोन्मथितश्च । कोष्ठगतोऽ- सृङ्मूत्रपुरीषपूयोदकानि स्रवति । मर्मगतस्त्वगादिष्ववरु- द्धत्वान्नाच्यते । तत्र त्वगादिगतानामास्रावाणां यथाक्रमं पारुष्यश्यावावश्यायदधिसस्तुक्षारोदकमांसधावनपुलाकोद- कसन्निभत्वानि मारुताद्भवन्ति । पित्ताद्गोमेदोगोमूत्रभस्म- शङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि । पित्तवद्रक्ताद- तिविस्रत्वञ्च । कफान्नवनीतकासीसमज्जपिष्टतिलनारि- केलोदकवराहवसासन्निमत्वानि । सन्निपातात्तिलनारि- केलोदकेर्वारुकरसकाञ्जिकवसादारुकोदकप्रियङ्गुफलयकृ- न्मुद्गयूषसवर्णत्वानीति । “श्लोकौ चात्र भवतः । पक्वा- शयादसाध्यस्तु पुलाकोदकसन्निभः । क्षारोदकनिमः स्रावो वर्ज्यो रक्ताशयात्स्रवन् । आमाशयात्कलायाम्भोनि- भश्च त्रिकसन्धिजः । स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक्” । अत ऊर्द्ध्वं सर्वव्रणवेदना वक्ष्यामः । तोदनभेदनताडनच्छेदनायमनमन्थनविक्षेपणचुम्चुमायन- निर्दहनावभञ्जनस्थोटनविदारणोत्पाटनकम्पनविविधशूल- विश्लेषणविकिरणपूरणस्तम्भनस्वप्नावकुञ्चनाङ्गुशिकाः स- म्भवन्ति । अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहु- र्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात् । ऊपचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्ण- मिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसक्तिवच्च वेदनाविशेषास्तं पैत्तिकमिति विद्यात् । पित्तवद्रक्तस- मुत्थं जानीयात् । कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्प- वेदनत्वं स्तम्भः शैत्यञ्च यत्र तं श्लैष्मिकमिति विद्यात् । यत्र सर्वासां वेदनानां समुत्पत्तिस्तं सान्निपातिकमिति । अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्यामः । भस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजौक्तः । नीलः पीतो हरितः श्यावः कृष्णो रक्तः कपिल इति रक्तपित्तसमु- त्थयोः । श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य । सर्ववर्णोपेतः सान्निपातिकस्य इति । भवति चात्र “न केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः । सर्वशोथविकारेषु व्रणवल्लक्षयेद्भिषक्” ।