वाचस्पत्यम्
व्रत || न० व्रज—घ जस्य तः । १ भक्षणभेदे उणादि० २ पुण्य- साधने ३ उपवासादिनियमभेदे च ||व्रतञ्च सभ्यक्सङ्कल्पजनितानुष्ठेयक्रियाचिशेयरूपं तच्च प्रवृत्तिनिवृत्त्युभयरूपं तत्र दूष्यविशेषभोजनपूजादिकं प्र- वृत्तिरूपम् उपवासादिकञ्च निवृत्तिरूपं तच्च नित्यं नैमि- त्तिकं काम्यञ्च । नित्यमेकादश्यादिव्रतम् नैमित्तिकं चान्द्रायणादिव्रतं काम्यं तत्तत्तिथ्युपवासादिरूपं “सत्त्वके ससाधनं कर्म कर्त्तव्यमधिकारिणा । निष्कामेण स- वीर! काम्यं कामान्वितेन च” भविष्यपु० । सम्यक् प्रवम कल्पादिना संसाधनं यथाविहितं साधनं यस्य । अधि कारिणा अर्थिना समर्थेण विदूषा चेत्यर्थः । तत्र व्रता- रम्भकालः हेमा० व्र० दर्शितो यथा अथ व्रतारम्भकालः । तत्र सत्यब्रतः “उदयस्था तिथिर्य्या हि न भवेद्दिनमध्यभाक् । सा खण्डा न व्रतानां स्यादारम्भे च समापने” इति । एतद्व्यतिरिक्ताया- मखण्डायां प्रारम्ममाह वृद्धवशिष्ठः “अखण्डव्यापि- मार्त्तण्डा यद्यखण्डा भवेत्तिथिः । व्रतप्रारम्भणन्तस्या- मनष्टगुरुशुक्रयुगिति” । तिथिर्यद्यनष्टगुरुशुक्रयुक् अन- स्तमितगुरुशुक्रयुक्ता तस्यां व्रतमारम्भणीयमित्यर्थः, इद- मुपलक्षणम् । गुरुशुक्रयोर्बाल्ये वार्द्धक्येऽपि व्रतन्नार- म्भणीयमित्यर्थः । तथा च वृद्धमनुवृहम्मती “अग्न्या- धानं प्रतिष्ठाञ्च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्ग- चूडाकरणमेखलाः । माङ्गल्यमभिषेकञ्च मलमासे विव- र्जयेत् । वाले वा यदि वा वृद्धे शुक्रं वास्तङ्गते गुरौ । मलमास इवैतानि वर्जयेद् देवदर्शनम्” इति । गार्ग्यो- ऽपि “नामान्नप्राशनञ्चौडं विवाहं मौञ्जिवन्धनम् । निष- क्रमं जातकर्मापि काम्यं वृषविसर्जनम् । अस्तगे च गुरौ शुक्रे बाले वृद्धे मलिम्लुचे । उद्यापनमुपारम्भं व्रतानां नैव कारयेद्” इति । लल्लः “नीचस्थे वक्र- संस्थे व्यतिचरणगते बालवृद्धास्तगे वा संन्यासो देवयात्रा व्रतचरणविधिः कर्णवेधस्तु दीक्षा । मौञ्जीबन्धोऽथ चूडा परिणयनविधिर्वास्तुदेवप्रतिष्ठा वर्ज्याः सद्भिः प्रय- त्नात् त्रिदशपतिगुरौ सिंहराशिस्थिते च” इति । नी- चलक्षणन्तु ज्योतिःशास्त्रे “सूर्य्यादिषूच्चमजगोमुकराः कृमात् स्युः । स्त्रीकर्किमीनवणिजोस्तगमञ्च नीचम्” इति । उच्चस्थानात् सप्तमं नीचमित्यर्थः । तथा च नीचस्ये गुरौ मकरगते इत्यर्थः । शौनकः “पूर्त्तागार- विवाहयागगमनं क्षौराद्यकर्णव्यधं विद्यादेवविलो- कनोपवयवं दीक्षापरीक्षा व्रतम् । स्नानं तीर्थगमं रणं पुरमहादानप्रतिष्ठापनम् । सिंहस्थे विबुधार्चिते न शुभदं कर्त्तुस्तथा सूर्य्यगे” । अस्तलक्षणन्तु ब्रह्मसि- सिद्धान्ते “रविणासत्तिरन्येषां ग्रहाणामस्त उच्यते । ततोऽर्वाक् बार्द्धकं विद्यादूर्द्ध्वं बाल्यं प्रकीर्त्तितम्” इति । एतयोरवधिः ज्योतिःशास्त्रेऽनेकविधोदर्शितः “बालः शुक्रो दिवसदशकं पञ्चकञ्चैव वृद्धः पश्चादह्नस्त्रितय- मुदितः पक्षमौढ्यः क्रमेण । जोवो वृद्धः शिशुरपि लदा पक्षमन्यैः शिशू तौ वृद्धौ प्रोक्तौ दिवसदशकञ्चा- परैः सप्तरात्रम्” इति । एतेषां पक्षाणां व्यवस्था देशा- न्तरविषया आपद्विषया वा । तथा च गार्ग्यः “शुक्रो गुरुः प्राक्पराक् चैव वालो बिन्ध्ये दशावन्तिषु सप्त- रात्रम् । वङ्गेषु हूणेषु च षट् च पञ्च शेषे च देशे त्रिदिनं वदन्ति” इति । वराहमिहिरोऽपि “वहवो दर्शिताः काला ये बाल्ये वार्द्धकेऽपि च । ग्राह्यास्तत्रा- धिकाः शेषा देशभेदादुतापदि” इति । व्रतानां मानसादिभेदस्तत्र दर्शितो यथा वराहपुराणे “अहिंसा सत्यसस्तेयं ब्रह्वचर्य्यमकल्- मषम् । एतानि मानसान्याहुर्व्रतानि व्रतधारिणाम् । एकभक्तं तथानक्तमुपवासादिकञ्च यत् । तत्सर्वं का- यिकं पुंसां व्रतं भवति नान्यथा” । उपवासोऽत्राहो- रात्राभोजनम्, आदिशब्दादियाचितादि । तथा “कि- ञ्चिद् व्रत वा क्रियते पूज्यते यत् त्रिलोचन! । विप्रे- भ्योदीयते सर्वमेतज्जन्मतरोः फलम्” । व्रतभेदफलादिकं तत्रोक्तं यथा गरुडपुराणे “तपोगतिर्हि भूतानां तप एव परायणम् । तपसा विजिता लोकास्तपसा निर्वृतिः सताम् । तपसा धूत० पाप्मानो निर्वाणं परसङ्गताः । तपसा परमायुश्च शान्तिं वापि तथाप्नुयात् । तपसा विन्दते लोकानखि- लानपि पूरुषः । तपसा परमृच्छन्ति निर्वाणमपि शा- श्वतम् । तपसा चैहिकीं सिद्धिं विपुलासपि विन्दति । लभन्ते च सुतादींस्तु तपसा मर्त्यजातयः । अक्षयञ्च धन- ञ्चापुस्तपन्तश्च नरा भुवि । व्रतीपवासूनियमैः शरीरोत्ता- पनन्तपः । उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि । “एतद्वीरासनं प्रोक्तं महापातकनाशनम् । एकभक्तेन चेकेन तथैवासाचिचेन च । उपवासेन चैकेन पादकृच्छः प्रकीर्त्तितः” । कूर्मपुराणे “व्रतोपवासनियमैर्होमब्राह्म- णतर्पणैः । आराधय महायोर्गेर्योगिनां हृदिसंस्थि- तम्” । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तम! अर्च्चयन्ति महादेवं यज्ञदानसमाधिभिः । व्रतीपवास- नियमैर्होमैः स्वाध्यायतर्पणैः । तेषां वै रुद्रसायुज्य सामीप्यञ्चातिदुर्लभम् । सलोकता च सारूप्यं जायते तत्प्रसादतः” । गरुडपुराणे “धुन्धुमारस्तु राजर्षिर्लेभे पुत्रशतं पुरा । दानेन नियमेनैव तपसा च व्रतेन च । सगरो नाम राजर्षिर्दिक्षु सर्वासु विश्रुतः । पुत्राणाञ्च शत प्राप्तं तेन राज्ञा महात्मना । तथा दशरथो राजा व्रतेषु निरतः सदा । यज्ञदानतपीयोगैः सन्तुष्टः पुरु- षोत्तमः । स्वयं पुत्रत्वमापेदे तस्य राज्ञो महात्मनः । ज- नको नाम राजर्षिस्तपीव्रतनिधिः स्वयम् । ऐश्वर्य्यम- तुलं प्राप्य योगिनां गतिमाप्तवान् । एवमेव महाराज! राजानो ब्राह्मणास्तथा । ऐश्वर्य्यलक्षणं प्रापुर्गतिं वै व्रतविभवात् । अतः कुरुष्व सततं तपःसञ्चयमात्मवान् । व्रतोपवासनिरतस्त्रीर्थानि नृपसत्तम!” । तथा “विनि- ग्रहञ्चेन्द्रियाणां कुर्वीत नियमात्मवान् । उपवासजप, ध्यानतीर्थस्नानादिकैरपि । व्रतैर्यज्ञेन दानेन तपसा तीर्थसेवया । अनेकजन्मसंसिद्धिमेनःक्षपयति द्विजः” । व्रतादीनां चातुर्वर्णसाधारणत्वाभिधानात् द्विजग्रहण- सत्र वर्णमात्रोपलक्षणार्थम् । न चैवं सति शूद्रस्य य- ज्ञेऽनधिकाराद्यज्ञशब्दविरोध इति वाच्यम् । यजेरने- कार्थत्वेन देवतापूजाद्यर्थसम्भवात् । “कायिकं मानसञ्चैव वाचिकञ्च त्रिधा मतम् । यज्ञोदानं तपश्चैव वैदतस्तच्छृ- णुष्व मे । अहिंसा व्रतचर्य्या च तपः कायिकमुच्यत । वाचिकं सत्यवचनं भूतद्रोहविवर्जितम । मानसं मनसः शान्तिः सर्ववैराग्यलक्षणम्” । आदित्यपुराणे “व्रतोपवा- सान् खलु यो विधत्ते दारिद्य्रपाशं स भिनत्ति चाशु । व्रतोपवासेषु रतस्य पुंसश्चैवापदः शान्तिमुशन्ति तज्ज्ञाः” ब्रतसामान्यधर्मास्तदधिकारिणश्च तत्र दर्शिता यथा स्कन्दपुराणे “निजवर्णाश्रमाचारनिरतः शुद्धमानसः । व्रतेष्वधिकृतो राजन्नन्यथा विफलः श्रमः । अलुब्धः स्म- त्यवादी च सर्वभूतहिते रतः । व्रतेष्वधिकृतो राजन्न- न्यथा विफलः श्रमः । श्रद्वावान्न्यायभीरुश्च मददम्भवि- वर्जितः । व्रतेष्वधिकृतो राजन्नन्यथा विफलः श्रमः । समः सर्वेषु भूतेषु शिवभक्तो जितेन्द्रियः । व्रतेष्वधिकृतो राजन्नन्यथा विफलः श्रमः । पूर्वं निश्चित्य शास्त्रार्थ ||यथावत् कर्मकारकः । अवेदनिन्दको धीमानधिकारी व्रतादिषु” । महाभारते “श्राद्धकर्म तपश्चेव सत्यमक्रोध एव च । स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता । आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप!” देवलोऽपि “व्रतोपवासनियमैः शरीरोत्तापनैस्तथा । वणाः सर्वेऽपि मुच्यन्ते पातकेभ्यो न संशयः” इति । तदेवं वचनसन्द- र्भेणोक्तनियमवतां चतुर्णामपि वर्णानां स्त्रीपुंसाधारण्येन व्रतेष्वधिकार इति प्रतिपाद्यते । तथा च भारते(गीता) “मामुपाश्रित्य कौन्तेय! येऽपि स्युः पापयोनयः । स्त्रियो वैश्याश्च शूद्राश्च तेऽपि यान्ति पराङ्गतिम्” इति । तत्रायं परोविशेषो यत् स्त्रीणां भर्त्तुराज्ञां विना न खा- तन्त्र्येण व्रतादिष्वधिकार इति । तथा च मार्कण्डेय- पुराणे “नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपो- पणम् । भर्तृशुश्रूषयैवैता लोकानिष्टान् व्रजन्ति हि । यद्देवेभ्यो यत्र पित्रादिकेभ्यः कुर्य्याद्भर्त्ताभ्यर्चनं सत्क्रि- याञ्च । तस्यार्द्धं वै सा फलं नान्याचत्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव । धर्मार्थकामसंसिद्धौ भवेद्भर्तुः सहायिनी” । आदित्यपुराणे “नास्ति स्त्रीणा पृथग्यज्ञो न व्रतं मा- स्युपोषणम् । पतिं शुश्रूपते यत्तु तेन स्वर्गे महीयते । पत्युरभ्यधिकं नारी नोपवासव्रतञ्चरेत् । अनायुष्यं द्विज श्रेष्ठ! प्रत्युस्तस्यास्तदुच्यते । देवताराधनं कुर्य्यात् कामं वा ब्राह्मणोत्तमः । नारी पतिव्रता नाम प्राप्यानुज्ञान्तु भर्तृतः । नारी खल्वननुज्ञाता पित्रा भर्त्त्रा सुतेन वा । विफलं तद्भवेत्तस्या यत्करोत्यौर्द्धदेहिकम्” । पित्रेति कन्यात्वे । भर्त्रेति सौभाम्यदशायाम् । सुतेनेति वैघ- व्यदशायाम् । और्द्धदेहिकं व्रतादि । “अथ वा सर्वसु० वसृज्य पतिपूजनतत्परा । केशवाराधनं कुर्य्यात् साध्वी स्त्री पुरुषर्षभ! । तेनैव स्वर्गमाप्नोति यत् किञ्चिन्मनसे- च्छति । अफल सर्वमेव स्यात् भर्त्त्रनुज्ञां विना कृतम् । केशवाराधनं यच्च तथापि सफलं स्त्रियः” । हरिवंशे “ब्रतीत्वधर्मचरणं यस्या नित्यमखण्डितम् । पुण्यकानां विधिस्तस्याः पुराणे परिकीर्त्तितः । दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति! । निःफलान्यसतीना हि पुण्यकानि तथा शुभे” । पुण्यकानि व्रतानि । “या नार्चयन्ति भ- र्त्तारं योनिदुष्टाश्च याः स्त्रियः । योनिदोषात् पुण्य- फलं नाश्नान्त निरयङ्गताः । साध्व्यो जगद्धारयन्ति सु- शालाः पतिदेवताः । अनन्यधर्मनित्याश्च सतां पन्थानमा- श्रिताः । अवाग्दुष्ठाः शौचयुक्ताः धृतिमत्यः शुचि- व्रताः । सततं साधुवादिन्यो धारयन्ति जगत् श्वलु । व्याधितः पतितो वापि निर्द्धनो वा कथञ्चन । न वक्तव्यः स्त्रिया भर्त्ता धर्म एष सनातनः । अकार्य्यकारिणं वापि निर्गुणं स्त्री पतिं तथा । तारयत्येव साध्वी सा तथा- त्मानं शुभानने! । योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैय सा । वागदष्टे विहितं सद्भिः प्रायश्चित्तं पुरा- तनैः । भर्त्तुश्छन्देन कर्त्तव्यं व्रतकं सर्वदा स्त्रिया । उपवासोऽपि वा सत्ये! काङ्क्षन्त्या तु शुभां गतिम् । कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् । तिर्य्य- ग्योनिसहस्रेषु पच्यते योनिविभ्रमात् । यदि स्यान्नाम मानुष्यं स्त्री लभेदसती सती । चण्डालयोनौ दुर्मेधा जायते कुक्कुरानना । भर्त्ता देवः सदा स्त्रीणां स्त्रीभि- र्दृष्टः सनातने । यस्या हि तुष्यते भर्त्ता सा सती धर्मचारिणी । कोतूहलहतानान्तु स्त्रीणां लोको न शोभनः । भर्त्तर्य्येव मनो यासां सद्भावेन व्यवस्थितम् । कर्मणा मनसा वाचा पतिं नातिचरन्ति याः । ताषां पुण्यफलं सौम्ये! पुण्यकैः समुदाहृतम् । पुण्यकाना विधिं कृत्स्नं स्वर्लोकं प्रति शोभने! । निबोध स हि सर्वो हि दृष्टोऽयं तपसा मया । स्नात्वा स्त्री प्रात- रुत्थाय पतिं विज्ञापयेत् सती । उपवासार्थमथ वा व्रत- कार्य्ये धृतव्रते! । स्पृष्ट्वा कराभ्यां चरणौ सततं सत्त- मस्य च । गृहीत्वौदुम्बरं पात्रं सकुशं साक्षतं तथा । गोशृङ्गं दक्षिणासिच्य प्रतिगृह्णीत तज्जलम् । ततो भर्त्तुः सती दद्यात् स्नातस्यप्रयतस्य च । आत्मनाऽथ निसेक्तव्यं ततः शिरसि तज्जलम् । त्रैलोक्ये सर्वती- र्थेषु स्नानमेतदुदाहृतम् । उपवासेषु कर्त्तव्यमेयद्धि व्रतकेषु च । स्वानमेतद्धि सामान्यं स्त्रीणां पुंसाञ्च भा- मिनि! । अरुन्धति! मया दृष्टं तपसा हरतोषकम् । अशून्यं विद्धि शयनमासनञ्च तथाविघम् । स्वयं प्र- क्षालनं चापि पादयोरनुशब्दितम्” । अनशब्दितं व्रतो- पयोगितया कथितम् । “अश्रुप्रपातो रोषश्च सलहस्य कृतिः सति! । उपवासात् व्रताद्वापि सद्योभ्रंशयति स्त्रियम् । शुक्लमेव सदा वासः पशस्तं चन्द्रसम्भवे! । अन्तर्वासोऽपरञ्चैव उपवासव्रते तथा । पादुकार्थस्तृणैः कार्य्यः सर्वदा व्रतके सति! । उपवासेऽपि च विधिरेष एव प्रकीर्त्तितः । अञ्जनं रोचनञ्चापि गन्धान् सुम- नसस्तथा । व्रतके चोपवासे च नित्यमेव विवर्जयेत्” । “रोचनं कुङ्क मादिना, मुच्चोज्वलीकरणम् । “दन्तकाठ शिरः स्नानमुद्वर्त्तनमथापि वा । विवर्जितां मृदं सर्वां शौचार्थन्तु विधीयते । तिलामलफलैर्नित्यं श्रीफलैश्च समाचरेत् । प्रक्षालनञ्च शिरसः सदा मृण्मिश्रितैर्जलैः । शिरसाऽभ्यञ्जनं सौम्ये! नैवमेतत् प्रशस्यते । न पादयोर्न मात्रस्य स्नेहेनेति स्थितिः स्मृता । गोयानमुष्ट्रयानञ्च कथञ्चिदपि नाचरेत् । खरयानञ्च सततं व्रते चाप्युप- वासके । नदीजलं प्रस्ववजं शस्तं वै सोमनन्दिनि! । शुभे तडागे वाप्यादौ विस्तीर्णे जलजाप्लुते । गत्वा स्नानं प्रशस्तन्तु सदैव खलु सर्वथा । अलाभे त्ववरुद्धा स्त्री घटस्नानं समाचरेत् । नवैश्च कुम्मैः स्नातव्यं विधि- रेष सनातनः । स्नानञ्च कार्य्यं शिरसा तपःफलमवा- प्नुयात्” । भविष्यत्पुराणे “क्षमा सत्यं दया दानं शौच- मिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्ज- नम् । सर्वव्रतेष्वयं धर्मः सामान्यो दशकः स्थितः” । अत्र क्षमादीनां स्वतन्त्रतया चतुर्वर्गसाधनत्वेन विहि- तानां व्रताङ्गतयाऽभिधानं खादिरं वीर्य्यकामस्येत्यादि- वत् संयोगपृथक्त्वन्यायादुपपन्नम् । मत्स्यपुराणे “त- स्मात् कृतोपवासेन स्नानमभ्यङ्गपूर्वकम् । वर्जनीयं प्रय- त्नेन रूपघ्नं तत्परं नृप!” । यत्तूक्तं गरुडपुराणे- “गन्धालङ्कारवस्त्राणि पुष्पमालानुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमञ्जनम्” इति यच्च व्यासोक्तम् “दन्तधावनपुष्पाणि व्रतेऽपि स्युर्न्न दुष्यति” । तदेतत्स- भर्तृकोपवासविषयम् । भविष्यत्पुराणे “अञ्जनञ्च सता- म्बूलं सिन्दूरं रक्तबाससी । बिभृयात्सोपवासापि अवैध- व्यकरं परम् । विधवा यतिमार्गेण कुमारी वा यदृ- च्छया” पद्मपुराणे “गर्भिणी सूतिकादिश्च कुमारी वाथ रोगिणी । यदा शुद्धा तदान्येन कारयेत् प्रयता स्व- यम्” । गर्भिण्यादिरुपवासे कर्त्तव्ये नक्तं कुर्य्यात् । सूतकादिभिरशुद्धा अन्येन व्रतं कारयेत् । प्रयता शुद्धा, स्वयं कुर्य्यात्, पूंसोऽप्येष विधिः लिङ्गस्याविवक्षितत्वात् तदेवं स्त्रीणां कन्यादशायां पित्रादेराज्ञया, विन्नानां भ- र्तूराज्ञया, विधवानां पुत्राद्याज्ञयैव व्रताधिकारोनान्य- येति सिद्धम् । अग्निपुराणे “व्रीहिषष्टिकमुद्गाश्च क- लायाः सलिलं पयः । श्यामाकाश्चैव नीवारा गोघू- माद्या व्रते हिताः । कूष्माण्डालाबुवार्त्ताकीपालङ्क्य ज्योत्स्नकाख्यजेत् । चरुर्मैक्ष्यं शक्तुकणाः शाकन्दधि घृतं मधु” । श्यामाकाः शालिनीवारा शाकं मूलपत्रादि- कम् । “हविष्यव्रतनक्तादावग्निकार्य्यादिकं हितम् । मधु मांसं विहायान्यद् व्रते च हितमीरितम्” । व्र० ख० दयादीनामुपवासगुणतयातदङ्गत्वम् एका० त० दर्शित यथा व्रते गुणानाह गोतमः “दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहा चेति” । दया- दिलक्षणान्याह वृहस्पतिः “परे वा बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा । आत्मवद्वर्त्तितव्य हि दयैवैषा प्रकी- र्त्तिता” । परे उदासीने । आपत्सु रक्षितव्यन्त्विति कल्पतरौ पाठः । आत्मवदितिव्यक्तमाह दक्षः “यथै- वात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता । सुखदुःखानि तुल्यानि यथात्मनि तथा परे” । वृहस्पतिः “बाह्ये चा- ध्यात्मिके चैव दुःखे चोत्पादिते कचित् । न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता । न गुणान् गु- णिनो हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते साऽनसूया प्रकीर्त्तिता । अभक्ष्यपरिहारस्तु संसर्गश्चाप्य- निन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्ति- तम् । शरीरं पीड्यते येन सुशुभेनापि कर्मणां । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते । प्रशस्ताचरणं नित्य- मप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वद- र्शिभिः । स्तोकादपि च दातव्यमदीनेनैव चात्मना । अहन्यहनि यत् किञ्चिदकार्पण्यं हि तत् स्मृतम् । यथोत्पन्नेन सन्तोषः कर्त्तव्योऽप्यल्पवस्तुना । परस्य चिन्तयित्वार्थं साऽस्पृहा परिकीर्त्तिता” । देवीपुरा- णम् । “तद्ध्यानं तज्जषः स्नानं तत्कथाश्रवणादिकम् । उपवासकृतो ह्येते गुणा प्रोक्ता मनीषिभिः” । व्रतकालविवेकेऽत्र विशेष उक्तो यथा “दीर्घकालानुपा- लनीयतत्तदितिकर्त्तव्यताकलापोपहितनियतसङ्कल्पविषयो व्रतमिति व्रतलक्षणम् । व्रतानां सङ्कल्पसम्भवत्वमाह मनुः “सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रता- (पुंस्त्वमार्षम्) नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः” । व्र- तारम्भप्रतिष्ठाकालमाह ज्योतिषम् “गुरोर्भृगोरस्तबाल्ये बार्द्धक्ये सिंहगे गुरौ । गुर्वादित्ये दशाहे तु वक्रिजीवा- ष्टविंशके । दिने, प्राग्राश्यनायातातिचारिगुरुवत्सरे प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके । कल्पाद्य द्भुत सप्ताहे नीचस्थेज्ये मलिम्लुचे । मानुतलङ्घितवे मासि क्षये राहुयुते गुरौ । पौषादिकचतुर्मासे चरणा- ङ्कितवर्षणे । एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये । तृतीयेन तु सप्ताहे माङ्गल्यानि जिजीविषुः । विद्यारम कर्णवेधौ चूडापनयनोद्वहान् । तीर्थयानमनावृत्तं तथा नादिसुरेक्षणम् । परीक्षारामयज्ञांश्च पुरसरणदीक्षणे । व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे देवकूपादेर्वर्जयन्ति च । द्वात्रिंशद्दिवसश्चास्ते जीवस्य भार्गवस्य च । द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश क्र- मात् । अस्तात् प्राक् परयोः पक्षं गुरोर्बार्द्धकबालते । पक्षं वृद्धो महास्ते तु भृगुर्बालो दशाहिकः । पादास्ते तु दशाहानि वृद्धो बालो दिनत्रयम्” । सिंहस्थ गुरौ ||विशेषस्तु ज्योतिःकौमुद्याम् “गण्डक्या उत्तरे तीरे गिरिराजस्य दक्षिणे । सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत्” इति । अथ व्रतानुष्ठानं तत्र देवलः “अभुक्त्वा प्रातराहारं स्नात्वाचम्य समाहितः । सूर्य्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत्” । अत्र प्रातर्व्रतमचारेदित्यन्वयः ततश्चाहारमभुक्त्वा इति पूर्वदिने एकभक्त कृत्वा इत्य- र्थकम् दिवारात्रिभोजनद्वयस्यैकतरनिवृत्त्यैकतरत्याव- सीयमानत्वात् । गृहोतवताकरणे छागलेयः “यो गृ- हीत्वा व्रतं मोहात् माचरेत् काममोहितः जीवन् भवति चाण्डालो मृतः श्वा चैव जायते” । अत्र प्राय- श्चित्तणाह शान्तपुराणम् “लोभान्लोहात् प्रमादाद्वा व्रतभङ्गो भवेद्यदि । उपवासत्रयं कुर्य्यात् कुर्य्याद्वा केश- मुण्डनम् । प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत्” । शब्दः समुच्चये तेन मुण्डनञ्च कुर्य्यादित्यर्थः । प्रमादात् सकृदकरणे प्रतिप्रसवमाह देवलः “सर्वभूतभयं व्याधिः प्रमादो गुरुशासनम् । अव्रतघ्नानि कथ्यन्ते सकृदेतानि शास्त्रतः” । आरम्भानन्तरमशौचं न प्रतिबन्धकम् “व्रतय- ज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे । आरब्धे सूतकं न स्यादनारम्भे तु सूतकम्” विष्णूक्ते । व्रतारम्भः सङ्कल्प एव तत्रैवोक्तः । आरब्धव्रतस्य समापनं विना मरणे तत्- फलप्राप्तिरपीत्याहाङ्गराः “योयदर्थं चरेद्धर्ममसमाप्य- मृतो यदि । स तत्पुण्यफलं प्रेत्य प्राप्नोति मनुरव्रवात्” । प्रेत्य परलोके । अशक्तौ जलादिपाने दोषाभावमाह बोधायनः “अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । हविर्व्राह्मणकाम्या च गुरोर्वचनमौषधम्” । गर्भिण्यादौ विशेषमाह शाम्बपुराणम् “गर्भिणी सूतिकः नक्तं कु- मारी च रजस्वला । यदा शुद्धा तदान्येन कारयेत् क्रि- यते तदा” । अशुद्धा पूजादिकं कारयेत् कायिकमुपवा- सादिकं सदा अशुद्धाशुद्धा वा स्वयं कुर्य्यात् । उपवासा- शक्तौ नक्तं कुर्वीत । उपवासेष्वशक्तानां नक्तं भोज- नमिव्यते” इति वचनात् । व्रतदिने वज्यान्याह हा- रीतः “पतितपाषण्डनास्तिकसम्भाषानृताभिधानादिक सुपवासदिने वर्जयेत्” । तथा कूर्मपुराणम् “बहिर्ग्रामा- न्यजं सूतिं पतितञ्च रजस्वलाम् । न स्पृशेन्नाभिभाषेत नेक्षेत हरिवासरे” । व्रतानुष्ठानकालश्च तत्तत्तिथि- विहितपूजाप्रधानकालपूर्वाह्णे प्राप्ततिथिर्ग्राह्या यथा नरसिंहपुराणम् “दैवकृत्यन्तु पूर्वाह्णे मनुष्याणाञ्च म- ध्यमे । अपराह्णे पितॄणाञ्च कार्य्याण्येतानि यत्नत” इति तथा श्रुतिरपि पूर्वाह्णो वै देवानां मध्यन्दिनं मनुष्याणा- विति” । उभयदिने पूर्वाह्णलाभे विशेषवचर्न विना युन्मा- दिवचनाद्व्यवस्था” । संक्रान्तिनिमित्तं तत्तत्संक्रान्तिपुण्य- काल एव कार्व्यम् । त्रुटेः सहस्रभागो यः स कालो रविसंक्रमः” इत्युक्तेः संक्रान्तिकालस्यातिसूक्ष्मत्वेन कर्मा- नर्हतया संक्रान्तिपदस्य लक्षणया तत्परत्वात् । अत्र तु “वृश्चिकस्य तु संक्रान्त्यां पुत्रकामा व्रतं चरेत्” इति मविष्यपुराणीयेन कार्त्तिकेयव्रतस्य संक्रान्तिविहितत्वे- ऽपि “सायंकाले समारोम्ब प्रातःकाले विसर्जयेत्” इति भविष्यपुराणीयेन पूजाया रात्रिमात्रकर्त्तव्यत्वाभिघा- नात् तदङ्गोपवासस्य चाहोरात्रसाध्यतया पुण्यकाले तदसम्भवात् तद्युक्ताहोरात्र एव कर्त्तव्यत्वम् । ततश्च संपूर्णार्द्धरात्रात् परं वृश्चिकसंक्रान्तौ परदिने पूर्वयाम- द्वयस्य पुण्यकालत्वेन तद्युक्ताहोरात्र एव कार्त्तिकेयव्रतं कर्तव्यम् दिवा तदङ्गस्नानादेः व्रतत्वेन प्रातरोरम्भार्ह- त्वात् तदङ्गोपवासस्य प्रातरारम्भार्हत्वाच्च । उक्तान्यव्रतेषु युम्मवचनेन शुक्लपक्षकृष्णपक्षादिभेदेन वा तिथिविवेकोक्ता व्यवस्थाऽनुसरणीया । व्रतप्रतिष्ठाकालश्च पूर्वोक्तेन “गुरोर्भृगोरस्तवाल्ये वार्द्धक्ये सिंहगे गुरौ” इत्यादिवचनोनोक्तगुरुशुक्रास्तमयादिभिन्नः शुद्धसमय एव कालः । तत्र “सर्वेषूक्तेषु कर्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फल- मुच्यते” इति हयशीर्षपञ्चरात्रीयवचनेऽकरणे निष्- फलत्वश्रुतेः प्रतिष्ठा नित्या सा च न व्रताङ्गं किन्तु कर्मान्तरम् । “समाप्ते तु वते तत्र प्रतिष्ठा तदन- न्तरम्” ब्रह्मपुराणात् । इत्थञ्च तद्दिनेऽशौचादौ यथा न आर्त्तानुष्ठानं तथा समयाशुद्धावपि नानुष्ठानम् । यत्तु “समाप्ते तु व्रते तत्र प्रतिष्ठा तदनन्तरम् । न कालनि- यमस्तत्र तत्र विघ्ने पराव्दिके” इति तत्सम्पूर्णदिवसे समयाशुद्धावपि प्रतिष्ठाविधायकं सचनं तत कामधेनु- कल्पतरुकारादिभिरलिखितत्वादनाकरम् । यदव व्रत मासवर्षादिकालविशेषनियन्त्रितं काम्यं तस्यैव प्रतिष्ठा यत् पुनर्नित्यं कालविशेषानियन्त्रितञ्च न तस्य प्रतिष्ठा पूर्वोक्त हयशीर्षीये काम्यफलार्थिभिरित्यनेन काम्यस्यैव प्रतिष्ठा- विधानात् कालविशेषानियन्त्रिते तदसम्भवात्” । व्रतभेदाश्च नानापुराणोक्तास्तत्र हेमा० व्र० स्वण्डोक्ता अकारादिवर्णाद्यक्षरपूर्वकशब्दानुसारेणात्र कर्त्तव्यकाल- सहिताः प्रदर्श्यन्ते तेषामितिकर्त्तव्यता तु तत्र दृश्या अक्षयतृतीयाव्रतं भविष्योत्तरोक्तम् । “वैशाखस्य सितामेकां तृतीयामक्षयां शृणु । तस्यां स्नानं जपो होमः स्वा- ध्यायः पितृतर्पणम् । दानञ्च क्रियते किञ्चित् तत् सर्वं स्यादिहाक्षयम् । आदिः कृतयुनस्येयं युगादिस्तेन कथ्यते । सर्पपापप्रशमनी सर्वसौख्यप्रदायिनी” । अक्षयफलावाप्तिफलकाख्यतृतीयाव्रतं विष्णुधर्मोत्तरोक्तम् । “वैशाखशुक्लपक्षे तु तृतीयायामुपोषितः । अक्षयं फल- माप्नोति सर्वस्य सुकृतस्य तु । सा तथा कृत्तिकोपेता विशेषेण च पूजिता । तत्र दत्तञ्च जप्तञ्च सर्वमक्षयमुच्यते । अक्षया सा तिथिस्तस्मात्तस्यां सुकृतमक्षयम् । अक्षतैः पूजितोविष्णुस्तेन सा चाक्षया स्मृता । अक्षतैस्तु नरः स्नातो विष्णोर्दत्त्वा तथाऽक्षतान् । सक्तून् सुसंस्कृतांश्चैव हुत्वा चैव तथाक्षतान् । विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंस्कृतान् । पक्वान्नन्तु महाभाग! फलमक्ष- यमश्नुते । एकामप्युक्तां कृत्वा च तृतीयां भृगुनन्दन! । एतावत्तु तृतीयानां सर्वासान्तु फलं लभेत्” । अखण्डैकादशीव्रतं वामनपु० उक्तम् । “मासि चाश्वयुजे ब्रह्मन्! यदा पद्मजसन्निधिः । नाभ्यां निर्य्याति जगता- मीशितुश्चक्रधारिणः । तस्मिन् रम्ये शुभे काले या शु- क्लैकादशी भवेत् । तस्यां सम्यग्यजेद्विष्णुं येन खण्डं प्रपूर्य्यते” । येन विष्णुप्रपुजनेन खण्डमसम्पूर्णं धर्मा- दिभिः परिपूर्णम्भवतीत्यर्थः” । अग्निचतुर्थीव्रतं विष्णुधर्मोत्तरोक्तम् । “इदमन्यत् प्रवक्ष्यामि चतुर्मूर्त्तिव्रतं तव । । चतुरात्मा हरिः प्रोक्तसत्वारश्च हुताशनाः । आहिताग्निर्द्विजो यस्य विद्यतेऽग्निचतु- ष्टयम् । सोपवासश्चतुर्थ्यान्तु शुक्लपक्षस्य फाल्गुने । अ- भ्यर्च्य चतुरात्मानं वासुदेवमतन्द्रितम् । तणै दद्याद् द्विजेन्द्राय तिलप्रस्थानि षोडश । सुवर्णञ्च सुवर्णञ्च वस्त्रं घृततुलामपि” । सुवर्णं कर्षान्थूनम् “एवं संवत्सरं कृत्वा व्रतमेतदतन्द्रित । सर्वकामसमृद्धस्य यज्ञस्यलफ- मश्नते” । अघोराख्यचतुर्दशीव्रतं भविष्योत्तरे “भाद्रे मास्यसिते पक्षे अघोराख्याचतुर्दशी । तामुपोष्य नरोयाति शिवलोकम- यत्नतः” ति० त० । अङ्गारकचतुर्थीव्रतं मत्स्यपु० उक्तम् । “चतुर्थ्यङ्गारकदिने यदा भवति भारत! । मृदा स्नान तदा कुर्य्यात् पद्मरा- गविभूषितः । अग्निर्मूर्ध्ना दिवो मन्त्रं जपंस्तिष्ठेदुदङ्- मुखः । शूद्रस्तुष्णींजपन् जोपमास्ते भोगविवर्जितः” । अचलासप्तमीकृत भविष्योत्तरोक्तम् । “माघस्य सितसप्तम्यां सर्वकामफलप्रदम् । रूपसौभाग्यजननं स्नानं कुरु वरा- नने! । कृत्वा षष्ठ्यामेकभक्तं सप्तम्यां निश्चलं जलम् । रात्र्यन्ते चालयेथास्त्वं दत्त्वा शिरशि दीपकम् । मा- घस्य सितसप्तग्यामचलञ्चालितञ्च यत् । एकभक्तेन स- न्तिष्ठेत् षष्ठ्यां सम्पूज्य भास्करम् । सप्तम्यां तु व्रजेत् प्रातः सुगम्भीरजलाशयम्” । अदारिद्र्यषष्ठीव्रतं स्कन्दपु० उक्तम् । “षष्ठी नाम तिथिर्याज्या सामान्या दैवतैरपि । एकभक्तेन नक्तेन तथैवायाचितेन च । उपबासेन दानेन तैलक्षारविवर्जितः । अयं हि भगवान् देवो भास्करश्च परद्युतिः । येन शीघ्रेण दृ- श्येत तदगुह्यं कथताम्यहम् । मोपनीयं व्रतं दिव्यमि ह लाके फलप्रदम् । यस्मिन् कृते व्रते चैव दरिद्रो न भ- येत् कुले । षष्ठीतिथिं समुद्दिश्य ब्राह्मणस्य च भोजनम् । शाल्योदनञ्च पयसि कृत्वा च शर्करायुतम् । बाहुल्य- घृतसंयुक्तं वर्षमेकं प्रदापयेत् । कुले तस्यैव ये जाता ये भविष्यन्ति मानवाः । इह तणैव ये सन्ति तान् दा- रिद्र्यं न गच्छति” । अनघाष्टमीव्रत भविष्योत्तरोक्तम् । “कृष्णाष्ठम्यां मार्गशीर्षे दाम्पत्यं दर्भनिर्मितम् । अनघं चानघीञ्चैव बहुपुत्रैः समन्वितम् । स्थापयित्वा शुभे देशे गोमयेनानुलेपिते । स्नात्वा समर्चयेत् पुष्पैः सुगन्धैश्चानुलेपनैः । ऋग्वेदेनोक्त- मन्त्रैश्च दण्डकं मनसा स्मरन् । अनघं वासुदेवन्तु पत्नो तस्यास्थिसम्भवा । प्रद्युम्नादिपुत्रवर्गं हरिवंशे यथो- दितम् । वर्षमेकं ततः कृत्वा इदं तदनघ स्मृतम्” । अनङ्गत्रयोदशीव्रतं भविष्योत्तरोक्तम् । “अनङ्गो भगवान् शम्भुस्तेजोमूर्त्तिरगोचरः । स एव देवोयेनास्यां तेनानङ्ग- त्रयोदशी । प्रसिद्धा समनुप्राप्ता नित्या सर्वफलप्रदा । मार्गशीर्षेऽमले पक्षे त्रयोदश्यां समाहितः । स्नानं नद्यां तडागे वा गृहे वा कूपतोऽपि वा । कृत्वाभ्यर्च्य महा- देवं विधानाच्छशिभूषणम् । लिङ्कं स्वायम्भुवं भूतमभावे यत्प्रतिष्ठितम् । तदनङ्गमिति प्रोक्तं पूजयेद्भक्तितोव्रती” । एतत् व्रतं तदवधि वर्षसाध्यम् । अनङ्गत्रयोदशीव्रतं कालोत्तरोक्तम् । “चैत्रशुक्लत्रयोदश्याम- नङ्गं तु पटे लिस्वेत् । नीलदूर्वाङ्कुरश्यामं हस्तमात्रं प्रमाणतः । रतिप्रीत्युभयोपेतं पौष्पसायकचापधृक् । पटेषु सुस्थितः कार्य्यः सर्वैश्चाप्सरसां गणैः” । अनन्तचतुर्द्दशीव्रतं भविष्योक्तम् “अनन्तव्रतमप्यन्यत्तिथाव- स्यामनुत्तमम् । सर्वपापहरं नृणां स्त्रीणां चैव युधि- ष्ठिर! । शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे भवेत् । तस्या- नुष्टानमात्रेण सर्वपापाद्व्यपोहति” । अनन्ततृतीयाव्रतं पद्मपु० उक्तम् । “शृणुष्वावहिता देवि! तथैवानन्तपुण्यकृत् । नराणामथ नारीणामाराधनमनु- त्तमम् । नभस्ये वाथ वैशाखे मार्गशीर्षेऽथ वा पुनः । शुक्लपक्षे तृतीयायां स्रातः सन् गौरसर्षपैः । गोरोच- नाऽथ गोमूत्रं मुस्तागोशकृतं दधि । चन्दनेन च संसिश्र्य ललाटे तिलकं न्यसेत् । सौभाग्यारोग्यकृद्- यस्मात् सदा च ललिताप्रियम् । प्रतिपक्षतृतीयायां पुमान् वाथ सुवासिनी । धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च” । अनन्तद्वादशीव्रतं विष्णुरहस्योक्तम् । “द्वादश्यां शुक्लपक्षे च मासि भाद्रपदे नरः । नैवेद्यगन्घपुष्पाद्यैरर्चयेज्जलशा- यिनम् । न चाऽऽलपेद्विकर्मस्थान् पाषण्डान् पतितान्न- रान् । स्नात्वा जपन्ननन्तेति शतमष्टोत्तरं बुधः । व्रजं- स्तिष्ठन् स्वपन् भुञ्जन् बुध्यन् प्रस्खलिते क्षुते । वेदनार्त्तः अरेन्नित्यमनन्तं मनसा गिरा । व्रतमेतद्विधानेन कुर्य्यात् संवत्सरं नरः” । अनन्तपञ्चमीव्रतं स्कन्दप्रभासोक्तम् । “यो नरः पूजयेद् नागं पञ्चम्यां फाल्गुने सिते । पञ्चोपचारविधिना मिताहारो जितेन्द्रियः । न तं दशन्ति फणिनो दश वर्षाणि पञ्च च । विषं न क्रमते तस्य कुले मातृकूलेऽपि च । त- स्मात् तं पूजयेद् यत्नात् पञ्चम्याञ्च विशेषतः” । अनन्तफलसप्तमीव्रतं भविष्योक्तम् । “शुक्लपक्षे तु सप्तम्यां मासि भाद्रपदेऽच्युत! । प्रणम्य शिरसा देवं पूजयेत् सप्तवाहनम् । पुष्पधूपादिभिर्वीरः कुतप्रानाञ्च तर्पणैः” । कुतपानां ब्राह्मणादीनाम् । “पाषण्डादिभिरालापम- कुर्वन्नियतात्मवान् । विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्यतः । तिष्ठन् ब्रवन् प्रस्थितश्च क्षुतप्रस्खलिता- दिषु । आदित्यनामस्मरणं कुर्य्यादुच्चारणं तथा । अने- नव विधानेन मासान् द्वादश वै क्रमात् । उपोष्य पा- रणे पूर्णे समभ्यर्व्य जगद्गुरुम् । पुण्येन श्रवणेनेह प्रणमेत् पुष्टिमाप्तुयात् । एवं यः पुरुषः कुर्य्यादादित्या- राधनं शुचिः नारी वा स्वर्गमभ्येत्य सानन्त्यं फल- मश्नुते” । अनोदनसप्तमीव्रतं भविष्योक्तम् । “शुक्लपक्षे तु वैशाखे षष्ट्यां सम्यपुपोषितः । पूजयेद् भास्करं भक्त्या पुष्प- धूपादिलेपनैः । येन तत् पूजयेद्देवं
शब्दकल्पद्रुमः
व्रतं || क्ली पुं, भक्षणम् । इत्युणादिकोषः ॥ (व्रियते इति । वृञ् वरणे + बाहुलकात् अतच् । सच कित् ।)
पुण्यजनकोपवासादि । तत्पर्य्यायः । नियमः २ पुण्यकम् ३ । इत्यमरः ॥ नियामः ४ संयमः ५ । इति शब्दरत्नावली ॥ अथ व्रत- विधिः । तदारम्भप्रतिष्ठयोर्व्वर्ज्यकालमाह ज्योतिषे । गुरोर्भृगोरस्तबाल्ये वार्द्धके सिंहगे गुरौ इति । वृद्धो बालो दिनत्रयमित्यन्तम् । मठप्रतिष्ठातत्त्वादावनुसन्धेयम् ॥ * ॥
बुधाष्टमी- व्रते विशेषो राजमार्त्तण्डोक्तो यथा, —
“द्विजेन्द्रसुतसंयुक्ता पूर्णा या च सिताष्टमी । तस्यां नियमकर्त्तारो न स्युः खण्डितसम्पदः ॥ पतङ्गे मकरे याते देवे जाग्रति माधवे । बुधाष्टमीं प्रकुर्वीत वर्जयित्वा तु चैत्रकीम् ॥ प्रसुप्ते च जगन्नाथे सन्ध्याकाले मधौ तथा । बुधाष्टमीं न कुर्वीत कृता हन्ति पुराकृतम् ॥” अथ व्रतानुष्ठानम् । तत्र देवलः । “अभुक्त्वा प्रातराहारं स्नात्वा चैव समाहितः । सूर्य्यादिदेवताभ्यश्च निवेद्य व्रतमाचरेत् ॥ ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम् । व्रतेष्वेतानि चत्वारि वरिष्ठानीति निश्चयः ॥” अत्र प्रातरित्यस्याभुक्त्वेत्यत्र नान्वयः । किन्तु व्रतमित्यनेनान्वयोऽभ्यर्हितत्वात् । “प्रातः सङ्कल्पयेद्बिद्बानुपवासव्रतादिकम् । नापराह्णे न मध्याह्रे पित्रकालौ हि तौ स्मृतौ ॥” इति वराहपुराणैकवाक्यत्वाच्च । वतश्चाभुक्त्वा प्रातराहारमिति । “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रहरया- मान्तः ॥” इति छन्दोगपरिशिष्टादेकाहार पूर्व्वदिने कृता परदिने स्नात्वाचम्य सूर्य्यादिदेवेभ्यो निवेद्य । ॐ सूर्य्यः सोमो यम इत्यादिमन्त्रेण सान्निध्यं प्रार्थ्य व्रतमाचरेत् । ततः सङ्कल्पयेत् । यद्वा सूर्य्यादिदेवेभ्यो निवेद्य पूजनीयद्रव्यादि दत्त्वा व्रतमाचरेत् व्रतं कुर्य्यात् । तद्विधानञ्च शान्ति- पर्व्वणि । “गृहीत्वौडम्बरं पात्रं वारिपूर्णमुदङ्मुखः । उपवासन्तु गृह्णीयात् यद्वा वार्य्येव धारयेत् ॥” * ॥
कर्म्मादौ सूर्य्यपूजामाह ब्रह्मपुराणम् । “यावन्न दीयते चार्घ्यं भास्कराय महात्मने । तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥” नवग्रहपूजामाह मत्स्यपुराणम् । “नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् । अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥” आदित्यादिपूजामाह पद्मपुराणम् । “आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् । नारायणं विशुद्धाख्यं अन्ते च कुलदेवताम् ॥” यत्तु । “देवतादौ यदा मोहात् गणेशञ्च न पूजयेत् । तदा पूजाफलं हन्ति विघ्नराजो गणाधिपः ॥” इत्यनेन गणेशपूजनस्यादित्वमुक्तं तत् सूर्य्यपूजे- तरपरम् । कुलदेवतेत्यत्र कुलाद्युपलक्षणम् । “व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे । आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥” तत्र विशेषयति मत्स्यपुराणम् । “गर्भिणी सूतिका नक्तं कुमारी च रजस्वला यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥ उपवासाशक्तौ तु नक्तं भोजनं कुर्वीत । “उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।” इति वचनान्तरात् अशुद्धा चेत् पूजां कारयेत् कायिकञ्चोपवासादिकं सदा शुद्धया अशुद्धया वा स्वयं क्रियते । अत्यन्तासामर्थ्ये पुत्त्रादिप्रति- निधिद्बारा उपवासः कार्य्यः । तदभावेऽनु- कल्पः । गरुडपुराणम् । “भार्य्या भर्त्तृव्रतं कुर्य्यात् जायायास्तु पति- स्तथा । असामर्थ्यात् द्बयोस्ताभ्यां व्रतभङ्गो न जायते ॥ पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं ब्राह्मणं विनियोजयेत् ॥” आरब्धव्रतस्यासमाप्तौ मरणेऽपि तत्फलप्राप्ति- माहाङ्गिराः । “यो यदर्थं चरेद्धर्म्मं न समाप्य मृतो भवेत् । स तत्पुण्यफलं प्रेत्य प्राप्नुयान्मनुरब्रवीत् ॥” प्रेत्य परलोके । शाम्बपुराणम् । “लोभान्मोहात् प्रमादाद्बा व्रतभङ्गो यदा भवेत् । उपवासत्रयं कुर्य्यात् कुर्य्याद्बा केशमुण्डनम् ॥” मोहो भ्रमः । प्रमादोऽनवधानता । वाशब्दः समुच्चये तेन मुण्डनञ्च कार्य्यं मुण्डनाकरणे द्विगुणं प्रायश्चित्तम् । उपवासत्रयाशक्तौ चतु- र्विंशतिपणा देयाः । पद्मपुराणम् । “वपनं नैव नारीणां नानुव्रज्याजपादिकम् । न गोष्ठे शयनं तासां न च दध्याद्गवाजिनम् ॥ सर्व्वान् केशान् समुद्धृत्य छेदयेदङ्गुलिद्वयम् । एवमेव तु नारीणां मुण्डमुण्डनमादिशेत् ॥” इति गोवधप्रकरणे विवेचितम् । “प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् । पूर्ब्बं गृहीत्वा सङ्कल्पं प्रमादान्नाचरेद्यदि । जीवन् भवति चण्डालो मृतः श्वा चाभि- जायते ॥” इति प्रायश्चित्तविवेकधृतवचनम् ॥ देवलः । “सर्व्वभूतभयं व्याधिः प्रमादो गुरुशासनम् । अव्रतघ्नानि कथ्यन्ते सकृदेतानि शास्त्रतः ॥” भर्त्तुरनुज्ञया स्त्रीणां व्रतकरणे न दोषः । कामं भर्त्तुरनुज्ञया व्रतोपवासनियमेज्यादीनामभ्यासः स्त्रीधर्म्म इति संवत्सरप्रदीपधृतशङ्खवचनात् ॥ अत्र कथाश्रवणमाह देवीपुराणम् । “तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् । उपवासकृतो ह्येते गुणाः प्रोक्ता मनीषिभिः ॥” अथ व्रतप्रतिष्ठाविधिः । श्रीभगवानुवाच । “गोपथारामसेतूनां मठसंक्रमवेश्मनाम् । नियमव्रतकृच्छ्राणां प्रतिष्ठां शृणु सत्तम ॥ ब्राह्म्येण विधिना वह्निं समाधाय विचक्षणः । शिलां पूर्णघटं कांस्यं सम्भवे स्थापयेद्बुधः ॥ ब्रह्मन् सर्व्वं समासाद्य श्रपयेद्यवमयं चरुम् । क्षीरेण कपिलायास्तु तद्बिष्णोरिति साधकः ॥ प्रणवेनाभिघार्य्याथ दर्व्व्या संघट्टयेत् ततः । साधयित्वावतार्य्याथ तद्विष्णोरिति होमयेत् ॥ व्याहृत्या चैव गायत्त्र्या तद्विप्रासेति होमयेत् । विश्वतश्चक्षुरित्युक्त्वा वेदाद्यैर्होमयेत्तथा ॥ ॐ भूरग्नये स्वाहा । ॐ सूर्य्याय स्वाहा । ॐ प्रजापतये स्वाहा । ॐ अन्तरीक्षाय स्वाहा । ॐ द्यौः स्वाहा । ॐ ब्रह्मणे स्वाहा । ॐ पृथिव्यै स्वाहा । ॐ महाराजाय स्वाहा । ॐ सोमं राजानमिति जुहुयात् । ॐ लोक- पालेभ्यः स्वाहा । स्वस्वमन्त्रैर्जुहुयाद्ग्रहेभ्यश्च । एवं हुत्वा चरोर्भागं दद्यात् दशदिशां बलिम् । ततः पलाशसमिधा हुनेदष्टोत्तरं शतम् ॥ आज्यन्तु जुहुयात् पश्चादेभिर्मन्त्रैद्विजोत्तमः । ततः पुरुषसूक्तैश्च मन्त्रैराज्यन्तु होमयेत् ॥ इरावतीति जुहुयात् तिलान् घृतपरिप्लुतान् । हुत्वा च ब्रह्मविष्णीशदेवानामनुयायिनम् ॥ ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः । पर्व्वतानां नदीनाञ्च समुद्राणां तथैव च ॥ हुत्वा व्याहृतिभिर्दद्यात् श्रुचा पूर्णाहुतित्रयम् । वौषडन्तेन मन्त्रेण वैष्णवेन सुरोत्तम ॥ पञ्चगव्यञ्च संप्राश्य दद्यादाचार्य्यदक्षिणाम् । तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृताम् । प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं नरः ॥ * ॥
आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् । मठप्रदानात् स्वर्लोकं प्राप्नोति पुरुषः सदा ॥ सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः । प्रपादानाद्वारुणञ्च लोकमाप्नोत्यसंशयम् ॥ संक्रमाणान्तु यः कर्त्ता दुर्गतिं तरते नरः । स्वर्गलोके च निवसेत् इष्टकासेतुकृत्तथा ॥ गोमार्गस्य तथा कर्त्ता गोलोके क्रीडते चिरम् । नियमव्रतकृद्याति विष्णुलोकं नरोत्तमः ॥ कृच्छ्रकृत् स्वर्गमाप्नोति सर्व्वपापविवर्ज्जितः । अनेन विधिना मर्त्त्यः संपूर्णं फलमाप्नुयात् ॥ * ॥
इयं प्रतिष्ठा सामान्या सर्व्वसाधारणानघ । कर्त्तव्या देशिकेन्द्रैस्तु प्रतिष्ठा यत्र विद्यते ॥ इति संक्षेपतः प्रोक्तः समुदायविधिस्तव । सर्व्वेषामेव वर्णानां सर्व्वकामफलप्रदः ॥ सर्व्वेषूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः । फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते ॥” इति हयशीर्षे समुदायप्रतिष्ठापटलः ॥ * ॥
ब्राह्म्येण वैदिकेन स्वगृह्योक्तविधिनेति यावत् । शिलेति उदूखलोपलक्षणम् । कांस्यं अग्निप्रण- यनार्थम् । कांस्येन अग्निप्रणयनमाह । गृह्या- संग्रहे । “शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद्- बुधः ॥ तस्याभावे सरावेण नवेनाभिमुखञ्च तम् । सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः । विश्वरूपो महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥” एवञ्चाग्निप्रणयनानन्तरं सर्व्वत इत्यस्य पाठो युक्तः । प्रणीत इति मन्त्रलिङ्गात् । अन्यथा स्थापनानन्तरं एतद्विधानं व्यर्थं स्यात् ॥ * ॥
अत्र च पाकाङ्गत्वात् साहसनामानमग्निमाह गृह्यासंग्रहः । “प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः । पूर्णाहुत्यां मृडो नाम शान्तिके वरदस्तथा । आहूय चैव होतव्यं यत्र यो विहितोऽनलः ॥” प्रायश्चित्ते होमकर्म्मवैगुण्यसमाधानार्थं प्राय- श्चित्तात्मकमहाव्याहृतिहोमादौ । तथा च छन्दोगपरिशिष्टम् । “यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥ अपि वाज्ञातमित्येषा प्राजापत्यापि वाहुतिः । होतव्या त्रिर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥” अत्र त्रिर्विकल्प इत्यभिधानात् सामगानां भव- देवभट्टोक्तशाठ्यायनहोमो निष्प्रामाणिकः । अत्रामुकाग्ने इहागच्छागच्छ इत्युच्चार्य्य यवा- भावे व्रीह्यादिभिरपि होमः । “हविष्येषु यवा मुख्यास्तदनु व्रीहयः स्मृताः । माषकोद्रवगौरादीन् सर्व्वाभावे विवर्ज्जयेत् ॥ यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गोधूमा व्रीहीणामिव शालयः ॥” इति छन्दोगपरिशिष्टात् ॥ तत्र गोभिलेन अथ हविर्निर्व्वपति व्रीहीन् यवान् वा कांस्ये चरुस्थाल्यां वा अमुष्मै त्वा जुष्टं निर्व्वपामीति देवतानामोद्देशः । सकृद्- यजुषा द्विस्तूष्णीमित्यनेन निर्व्वापक्रमाभिधानात् सामगेन तन्मात्रं कर्त्तव्यम् । अत्र च विष्णवे त्वा जुष्टं निर्व्वपामीत्यनेन यजुषा चरु इत्यभि- धानात् हवनीयनिर्व्वापणादिचरुनिष्पत्तिः कर्त्तव्या । तत्र छन्दोगपरिशिष्टम् । “देवतासंख्यया गृह्य निर्व्वापांश्च पृथक् पृथक् । तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक् ॥” अत्र देवतासंख्यया पृथक् पृथक् निर्व्वापः । अनुनिर्व्वापस्तन्त्रेणैव । होमोऽपि पृथक् पृथ- गेवेति । आलस्यादिपुरुषदोषेण गृहीततण्डु- लेनापि मन्त्रेण निर्व्वापादिकं समाचरन्ति याज्ञिकाः । “घाते न्यूने तथा च्छिन्ने सान्नाज्ये मान्त्रेके तथा । यज्ञे मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः ॥” इत्युक्तेः । मान्त्रिके मन्त्रमाध्ये अवघातादौ न्यूने तत्काले मन्त्रपाठाभावे मन्त्राः प्रयोक्तव्याः । कपिलाया अभावे अन्यधेनोरपि घृतेन सप्रणव- तद्बिष्णोरित्यनेनाभिधार्य्य दर्व्या दक्षिणावर्त्तेन संमिश्रयेत् । दर्व्वी च प्रादेशप्रमाणा द्व्यङ्गुल- विस्तारा ग्राह्या । “इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत् । वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम् ॥ एषैव दर्व्वी यस्तत्र विशेषस्तमहं ब्रुवे । दर्व्वी द्व्यङ्गुलपृथ्वग्रा तुरीयोनञ्च मेक्षणम् ॥” इति छन्दोगपरिशिष्टात् । इध्मार्द्धप्रमाणं प्रादेशमात्रम् । प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम् । इति छन्दोगपरि- शिष्टोक्तेः । अथेत्यनेन स्वगृह्योक्तशेषकर्म्मसमा- पनानन्तरं प्रकृतहोमः । अत्र बहुदेवताक- चरुहोमादुपघातहोमः । “चरौ तु बहुदैवत्ये होमः स्यादुपघातवत् ।” इति छन्दोगपरिशिष्टधृतवचनात् ॥ उपघातलक्षणमाह गृह्यासंग्रहः । “पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः । हूयते चानुपस्त्रीर्य्य उपघातः स उच्यते ॥ यद्युपघातं जुहुयाच्चरावाज्यं समापयेत् । मेक्षणेन तु होतव्यं नाज्यभागो न स्विष्टिकृत् ॥” अनुपस्तीर्य्य इत्यनेन स्रुचि यच्चतुरावर्त्तं पञ्चा- वर्त्तं वा घृतोपस्तरणादिकं तदत्र नास्ति तेन मेक्षणादिना सकृत् गृहीत्वा होतव्यम् ॥ * ॥
प्रकृतहोमात् प्राक् वह्निपूजनमाह मार्कण्डेय- पुराणम् । “पूजयेच्च ततो वह्रिं दद्याच्चाप्याहुतीः क्रमात् ।” तत इति वह्नेर्नामकरणध्यानानन्तरम् । होमानुष्ठाने स्मृतिः । “मन्त्रेणोङ्कारपूर्व्वेण स्वाहान्तेन विचक्षणः । स्वाहावसाने जुहुयाद्ध्यायन् वै मन्त्रदेवताम् ॥” ततस्तद्बिष्णोरितिमन्त्रेण चरुणा होमयेत् । एवं व्याहृत्या प्रत्येकं भूरित्यादिना । गायत्त्र्या सावित्र्या । तद्बिप्रासेति तद्विप्रासो विपण्यवो जागृवांस इत्यादिना । विश्वत इति विश्वत- श्चक्षुरुत विश्वतोमुख इत्यादिना । वेदाद्यैः अग्निमीले इत्यादिना । इषेत्वोर्ज्येत्वा इत्यादिना । अग्न आयाहि इत्यादिना । शन्नो देवीरित्यादिना चतुर्भिः । भूरग्नये इत्याद्यष्टभिः । ततः सोमं राजानमित्यादिना । ततो लोकपालेभ्य इत्या- दिना स्वस्वमन्त्रैस्तत्तद्वेदोक्तदशदिक्पालमन्त्रैः । तत्र सामगानां इन्द्रस्य त्रातारमित्यादिना । अग्नेश्च अग्निं दूतं वृणीमहे इत्यादिना । यमस्य नाके सुपर्णमित्यादिना । निरृतेर्वेत्थाहि निरृ- तीनां इत्यादिना । वरुणस्य घृतवती भुवनाना- मित्यादिना । वायोः वात आवातु भेषजं इत्या- दिना । सोमस्य सोमं राजानमित्यादिना । ईशानस्य अभित्ता शूरणो नुम इत्यादिना । ब्रह्मणो ब्रह्मयज्ज्ञानं प्रथममित्यादिना । अन- न्तस्य चर्षणीधृतमित्यादिता । तथा च गोभि- लीयकर्म्मप्रदीपे । “त्रातारमिन्द्रमवितारमिन्द्रस्य परिकीर्त्तितः । अग्निं दूतं वृणीमहे वह्रेर्मन्त्रो यमस्य वै ॥ नाके सुपर्णसुपयत् वेत्थाहिर्णिरृतेस्तथा । घृतवतीति वरुणस्य वात आवातु भेषजम् ॥ वायोर्मन्त्रः समुद्दिष्टः सोमं राजानमित्यृचा । सोमस्य मन्त्रः कथितस्त्वभित्वेऽतीश उच्यते ॥” ईशे ईशानस्य । “ब्रह्मयज्ज्ञानं प्रथमं ब्रह्मणः परिकीर्त्तितः । चर्षणीधृतमिति च सर्पस्य समुदाहृतः ॥” ग्रहेभ्यः नवग्रहेभ्यः स्वस्वमन्त्रैः सर्व्ववेदसाधा- रणैः । सूर्य्यस्याकृष्णेनेत्यादिना । सोमस्याप्याये- त्यादिना । मङ्गलस्याग्निर्मूद्धा इत्यादिना । बुध- स्याग्ने विवस्वदित्यादिना । बृहस्पतेर्बृहस्पते परिदीयेत्यादिना । शुक्रस्य शुक्रन्तेऽन्यद्यजतन्त इत्यादिना । शनैश्चरस्य शन्नो देवीरित्यादिना । राहोः कयानश्चित्रेत्यादिना । केतोः केतुं कृण्व- न्नित्यादिना । तथा च मत्स्यपुराणम् । “आकृष्णेनेति सूर्य्याय होमः कार्य्यो विजानता । आप्यायस्वेति सोमाय मन्त्रेण जुहुयात् पुनः ॥ अग्निर्मूर्द्धा दिवो मन्त्रमिति भौमाय कीर्त्तयेत् । अग्ने विवस्वदुषस इति सोमसुताय च । बृहस्पते परिदीया रथेनेति गुरोर्मतः । शुक्रन्तेऽन्यदिति च शुक्रस्यापि निगद्यते ॥ शनैश्चरायेति पुनः शन्नो देवीति होमयेत् । कयानश्चित्र आभुव दूती राहोरुदाहृतः । केतुं कृण्वन्निति कुर्य्यात् केतूनामुपशान्तये ॥” एवं चरुहोमं समाप्य चरुशेषेण प्राच्यादि- दिग्भ्यः पायसवलिं दद्यात् । तद्यथा । एष पायसवलिः ॐ प्राच्यै दिशे नमः इत्यादिना । दक्षिणायै दिशे स्वाहा इति श्रुतिदर्शनात् । हरि- हरपद्धतिकृत्यप्रदीपाभ्यां स्वाहान्तेन बलिदान- मुक्तम् । वस्तुतस्तु वलिप्रकरण एव प्राच्यूर्द्धा- वाचीभ्योऽहरहर्तित्यं प्रयोग इति गोभिलसूत्रे स्त्रीलिङ्गनिर्द्देशात् दिशां देवतात्वं वलौ प्रती- यते । अत्र त्ववाचीतिपाठात् श्रुत्युक्तहोमीये दक्षिणायै इत्यनादृत्य ॐ अवाच्यै दिशे नम इति वलौ प्रयुज्यते । एभिर्मन्त्रैस्तद्विष्णोः परमं पदं इत्यादियावन्मन्त्रैः । आज्यन्त्विति तुशब्देन समिद्धोमे तेषां व्यावर्त्तनात् मन्त्राकाङ्क्षायां प्राथ- मिकत्वेन तद्बिष्णोरित्यस्य परिग्रहः । ततस्त- द्बिष्णोरिति मन्त्रेण स्वाहान्तेन घृताक्तपलाश- समिद्भिरष्टोत्तरशतं जुहुयात् । पूर्व्वोक्तमन्त्रैः पूर्ब्बोक्तदेवताभ्यः स्रुवेणाज्याहुतीर्जुहुयात् । पुरुषसूक्तस्तत्तद्वेदोक्तः । तत्र सामगानाम् । ॐ इदं विष्णुरिति । प्रेक्षकस्य विष्णोरिति । प्राकाव्य- मुषलेव ब्रुवाण इति । सहस्रशीर्षेति । त्रिपा- दूर्द्ध्व इति । पुरुष एवेदमिति । एतावानस्य इति । ततो विराडिति । कयान इत्यादि पुरुष- सूक्तम् । तथा च सामिधेनी श्रुतिः । इदं विष्णुः प्रेक्षकस्य विष्णोः प्राकाव्यमुषलेव ब्रुवाणः इति वाराहमन्त्यं पुरुषव्रते चैषा वैष्णर्वानामसहितेनां प्रयुञ्जन् विष्णुः प्रीणाति इति प्राकाव्यमुषलेव ब्रुवाण इति वाराहमन्त्य- मित्यनेन एको मन्त्रः प्रकाशितः । पुरुष इत्य- नेन पुरुषपदयुक्तपञ्चमन्त्राः । व्रते इत्यनेन कयान- श्चित्र इत्येको मन्त्रः । सामगो जुहुयात् । यजुर्व्वेदी तु तत्र प्रसिद्धाभिः सहस्रशीर्षेत्यादि ऋग्भिः षोडशाहुतीर्जुहुयात् । इरावतीति तिलान् धृताक्तान् सकृज्जुहुयात् । एवंब्रह्मानु- यायिभ्यः म्वाहा विष्ण्वनुयायिभ्यः स्वाहा ईशानानुयायिभ्यः स्वाहा । एवं पूर्व्वोक्तनव- ग्रहमन्त्रैः पूर्ब्बोक्तैर्दिक्पालमन्त्रैश्च जुहुयात् । एवं पर्व्वतेभ्यः स्वाहा नदीभ्यः स्वाहा नदेभ्यः स्वाहा समुद्रेभ्यः स्वाहा भूः स्वाहा भुवः स्वाहा इति जुहुयात् । ततः परिभाषासिद्धं स्वशाखोक्तमहाव्याहृतिहोमं प्रायश्चित्तहोमञ्च कृत्वा स्रुचा तद्बिष्णोरिति मन्त्रेण वौषडन्तेन पूर्णाहुतित्रयमुत्थाय जुहुयादिति विशेषोपा- दानात् नात्र स्वशाखोक्तपूर्णहोमः । ततः पञ्चगव्यं चरुशेषं प्राश्य घ्रात्वा वा हेमयुक्तं सवस्त्रं तिलपात्रं अलङ्कृतां गाञ्च दक्षिणा- माचार्य्याय दद्यात् । आचार्य्यपदञ्च । “उदाहरति वेदार्थान् यज्ञविद्याः स्मृतीरपि । श्रुतिस्मृतिसमापन्नमाचार्य्यं तं विदुर्बुधाः ॥” इति छन्दोगपरिशिष्टात् ॥ कर्म्मोपदेष्टुराचार्य्यत्वेन आचार्य्यपदं स्वयं होतृ- पक्षे ब्रह्मपरं अन्यहोतृपक्षे ब्रह्महोतृद्वयपरम् । स्वयं ब्रह्महोतृकर्म्मकरणपक्षे पुस्तकधारक- परम् । “ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता । कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् ॥ विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्धहरो भवेत् । स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत् ॥” इति छन्दोगपरिशिष्टैकवाक्यत्वात् ॥ एवं ब्रह्मविधिना अग्निस्थापनादि प्रीयतां भग- वान् विष्णुरित्यन्तकर्म्मसंस्कृतगोपथादिदान- नियमव्रतकृच्छ्रादिकरणान्यतररूपा समुदाय- प्रतिष्ठा कर्त्तव्या । समुदायस्य प्रकृतगोपथादेः प्रतिष्ठा समुदायप्रतिष्ठा । तथा च कपिलपञ्च- रात्रम् । “प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्ब्बाच्च तिष्ठतेः । बह्वर्थत्वान्निपातानां संस्कारादौ प्रतेःस्थितिः ॥” तथा च गोपथादेरुक्तकर्म्मसंस्कृतस्य फलजन- कत्वम् । अप्रतिष्ठन्तु निष्फलमित्युक्तेः । एतद्- व्रतकर्म्मणा प्रीयतां भगवान् विष्णुरिति समा- प्नुयात् ॥ * ॥
अथ व्रतप्रतिष्ठाप्रयोगः । तत्र कृतनित्यक्रियः कथान्तं व्रतं समाप्य तत्तद्देवता- प्रीतिकामो यथाशक्ति दानादि दद्यात् । “व्रते देवगृहोत्सर्गे कूपादीनां प्रतिष्टने । दद्यात् षोडशदानानि द्विषड्दानानि चैव वा ॥” इति दानसागरधृतवचनात् ॥ ॐ तत् सदित्युच्चार्य्य ॐ अद्येत्याति अमुक- गोत्रोऽमुकदेवशर्म्मा तत्तद्व्रतफलप्राप्तिकामः कृतैतत् अमुकव्रतप्रतिष्ठामहं करिष्ये । स्त्री चेद्व्रतकारिणी तदा अमुकगोत्रामुकी देवी- त्याद्यूह्यं इति सङ्कल्पं कुर्य्यात् । ततो घटं संस्थाप्य पञ्च देवान् संपूज्य गौर्य्यादिषोडशमातृकाः संपूज्याः । पुरुषश्चेत्तदा नान्दीश्राद्धं कुर्य्यात् । तत उत्तराभिमुखं ब्राह्मणमुपवेश्य तत्समीपे आसनमानीय प्राङ्मुखो यजमानः ॐ साधु भवानास्तां इति कृताञ्जलिर्वदेत् । ॐ साध्वह- मासे इति प्रतिवचनम् । ॐ अर्च्चयिष्यामो भवन्तं इति पुनरुक्ते ॐ अर्च्चयेति प्रतिवचनम् । ततो वस्त्रालङ्कारगन्धपुष्पादिभिरभ्यर्च्च्य दक्षिणं जानु धृत्वा ॐ अद्येत्यादि अमुकगोत्रममुक- देवशर्म्माणमर्च्चितं कृतैतदमुकव्रतप्रतिष्ठाकर्म्मणि होमादिकर्म्मकरणाय भवन्तमहं वृणे । ॐ वृतोऽस्मीति प्रतिवचनम् । ॐ यथाविहितं वृतकर्म्म कुरु । ॐ यथाज्ञानं करवाणि इति प्रतिवचनम् । ततो वेदीं पञ्चगव्येनाभ्युक्ष्य पूर्व्वे पञ्च घटान् घटमेकं वा संस्थाप्य प्रथमलिखित- क्रमेण भूतशुद्ध्यादिगणेशादिपूजां विधायतत्तद्- देवतां क्रमेण पूजयेत् । ततो होता स्वगृह्योक्त- विधिनाग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं चरु- श्रपणं कुर्य्यात् । अन्यत् सर्व्वं प्रतिष्ठापद्धतौ ज्ञेयम् ॥ * ॥
अथ व्रतप्रयोगः । स्वस्तिवाचनं कृत्वा सूर्य्यः सोम इति पठित्या सङ्कल्पं कुर्य्यात् । अद्ये- त्यादि अमुककामोऽमुकव्रतमहं करिष्ये । व्रता- वृत्तौ आवृत्तिसंख्यामुल्लिखेत् अद्यारभ्येति च । उदङ्मुखो भूत्वा एतत् कुर्य्यात् । ॐ यसः क्षित्यै नम इति स्थण्डिलं मार्जयेत् । ॐ स इत्यभ्युक्षयेत् । वामहस्तेन स्थण्डिलं गृहीत्वा कुशेन प्रणवपूर्व्वकं चतुर्थ्यन्तव्रतदेवतानाम लिखेत् । हस्तप्रमाणं स्थण्डिलं चतुरस्रं सित- तण्डुलेनापूर्य्य मध्ये वितस्त्यूर्द्ध्वकर्णिकं हरिद्रा- चूर्णेन तद्वहिर्वितस्तिप्रमाणान्यन्योन्यसक्तानि अष्टदलानि सिततण्डुलचूर्णेन पत्रमूले केशराणि कुसुम्भचूर्णेन पत्रसन्धीर्विल्वादिपत्रचूर्णेन पीठ- गात्राणि दग्धपुलाकजेन कृत्वा घटं संस्थाप्य सामान्यार्घ्यं कृत्वा तदुदकेनात्मानं पूजोपकरण- ञ्चाभ्युक्ष्य गणेशादीन् नवग्रहांश्चैव पूजयेत् । ततो व्रतदेवताः पूजयेत् । इति व्रततत्त्वम् ॥ * ॥
अथ व्रतलक्षणम् । दीर्घकालानुपालनीयसङ्कल्पो व्रतमिति नारायणोपाध्यायानां स्वरसः । स्वकर्त्तव्यविषयो नियतः सङ्कल्पो व्रतमिति श्रीदत्तहरिनाथवर्द्धमानप्रभृतयः ॥ सङ्कल्पश्च भावे मयैतत् कर्त्तव्यमेव निषेधे न कर्त्तव्यमिति ज्ञानविशेषः । अतएव सङ्कल्पः कर्म्ममानस- मित्याभिधानिकाः । वस्तुतस्तु पूर्ब्बोक्तवराह- पुराणववनेनैकादश्युपवासस्य व्रतत्वाभिधानात् । “एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्र उदाहृतः ॥” इत्यादि याज्ञवल्क्यादुक्तेषु एकभक्तनक्तायाचित- भोजनोपवासादिषु पादकृच्छ्रादित्वाभिधानाच्च न सङ्कल्पो व्रतम् । किन्तु सङ्कल्पविषयतत्तत्- कर्म्मैव व्रतमिति । अतएव व्रतानां सङ्कल्पसम्भव- त्वमाह मनुः । “सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रता नियमधर्म्माश्च सर्व्वे सङ्कल्पजाः स्मृताः ॥” अनेन कर्म्मणा इदमिष्टं फलं साध्यते इत्येवं विषया बुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधनतया अवगते तस्मिन् इच्छा जायते ततस्तदर्थं प्रयत्नं कुर्व्वीत इत्येवं यज्ञाः सङ्कल्पसम्भवाः । व्रता नियमरूपा धर्म्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्व्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेव जायन्ते इति कुल्लूकभट्टः ॥ * ॥
सङ्कल्पमाह वराहपुराणम् । “प्रातः सङ्कल्पयेद्बिद्बानुपवासव्रतादिकम् । नापराह्णे न मध्याह्रे पित्र्यकालौ हि तौ स्मृतौ ॥” सङ्कल्प व्रतस्यारम्भ इत्युक्तं राघवधृतो विष्णुः । “व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे । आरब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ आरम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया । निमन्त्रणन्तु वा श्राद्धे आरम्भः स्यादिति श्रुतिः ॥” पाकपरिष्क्रियेति साग्नेर्दर्शश्राद्धविषयम् । तत्रैव तस्याग्न्युद्धरणविधानेन तदग्निपाकस्यासाधा- रणत्वात् ॥ * ॥
सङ्कल्पविधानन्तु संवत्सरप्रदीपे । “प्रातःसन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत् ।” शान्तिपर्व्वणि । “गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मुखः । उपवासन्तु गृह्णीयाद्यद्बा सङ्कल्पयेद्बुधः ॥ देवतास्तस्य तुष्यन्ति कामिकं तस्य सिध्यति । अन्यथा तु वृथा मर्त्त्याः क्लिश्यन्ति स्वल्प- बुद्धयः ॥” यद्बेति पक्षान्तरम् । तेन ताम्रपात्राभावे सङ्कल्पमात्रं करणीयम् ॥ * ॥
गृहीतव्रताकरणे दोषमाह छागलेयः । “पूर्व्वं व्रतं गृहीत्वा यो नाचरेत् काममोहितः । जीवन् भवति चाण्डालो मृतः श्वा चैव जायते ॥ द्वादशीव्रतमादाय व्रतभङ्गं करोति यः । द्वादशाब्दं व्रतं चीर्णं निष्फलं तस्य जायते ॥” इति नारदीयवचनात् द्वादश्यां विशेषोऽपि ॥ * ॥
प्रायश्चित्तमाह पद्मपुराणम् । “लोभान्मोहात् प्रमादाद्बा व्रतभङ्गो यदा भवेत् । उपवासत्रयं कुर्य्यात् कुर्य्याद्बा केशमुण्डनम् । प्रायश्चित्तमिदं कृत्वा पुनरेव व्रती भवेत् ॥” वाशब्दः समुच्चये तेन मुण्डनञ्च कर्त्तव्यमिति प्रायश्चित्तविवेकः ॥ प्रमादादस्य सकृत्कृतत्वे प्रतिप्रसूते देवलः । “सर्व्वभूतभयं व्याधिः प्रमादो गुरुशासनम् । अव्रतघ्नानि कथ्यन्ते सकृदेतानि शास्त्रतः ॥” इत्येकादशीतत्त्वम् ॥ * ॥
पुण्यजनकव्रतानि यथा । वैशाखस्य शुक्लतृती- यायां अक्षयतृतीयाव्रतम् १ तस्य शुक्ला द्वादशी पिपीतकी २ तच्चतुर्द्दशी नृसिंहचतुर्द्दशी ३ तस्य कृष्णाष्टमी त्रिलोचनाष्टमी ४ तस्य कृष्ण- चतुर्द्दशी सावित्री ५ ज्यैष्ठशुक्लतृतीया रम्भा- तृतीया ६ तस्य शुक्ला चतुर्थी उमाचतुर्थी ७ तस्य शुक्ला षष्ठी अरण्यषष्ठी ८ तच्चतुर्द्दशी चम्पकचतुर्द्दशी ९ आषाढी शुक्लैकादशी शयनै- कादशी १० श्रावणी कृष्णाष्टमी श्रीकृष्णजन्मा- ष्टमी ११ भाद्रशुक्ला चतुर्थी शिवा चतुर्थी १२ तस्य शुक्ला षष्ठी चपेटा षष्ठी १३ तस्य शुक्ला सप्तमी ललिता सप्तमी तत्र कुक्कुटीव्रतम् १४ तस्य शुक्लाष्टमी दूर्व्वाष्टमी १५ राधाष्टमी च १६ तस्य शुक्ला नवमी तालनवमी १७ तस्य शुक्लैकादश्यां पार्श्वपरिवर्त्तनव्रतम् १८ तस्य शुक्ला द्बादशी श्रवणद्बादशी १९ तस्य शुक्ला चतुर्द्दशी अनन्तचतुर्द्दशी २० तस्य कृष्णा चतुर्थी गणेशचतुर्थी २१ आश्विनशुक्लाष्टमी महाष्टमी २२ कार्त्तिकशुक्ला नवमी दुर्गानवमी २३ तस्य शुक्लैकादशी उत्थानैकादशी २४ तस्य शुक्ला चतुर्द्दशी पाषाणचतुर्द्दशो २५ तन्मासी- यैकादश्यादिपञ्चतिथ्यात्मकं वकपञ्चकम् २६ वृश्चिकसंक्रान्त्यां सर्व्वजयाव्रतम् २७ कार्त्ति- केयव्रतञ्च २८ अग्रहायणस्य शुक्ला षष्ठी गुह- षष्ठी २९ तस्य शुक्ला सप्तमी मित्रसप्तमी ३० तस्य शुक्ला द्वादशी अखण्डा द्बादशी ३१ माघ- शुक्ला चतुर्थी वरदा चतुर्थी ३२ तस्व शुक्ल- पञ्चन्यां श्रीपञ्चमीव्रतं षड्वर्षनिष्पाद्यम् ३३ तस्य शुक्ला षष्ठी शीतला षष्ठी ३४ तस्य शुक्ला सप्तमी आरोग्यसप्तमी ३५ तस्य शुक्लैकादशी भीमैकादशी ३६ तद्द्वादशी वराहद्वादशी ३७ तस्य कृष्णा चतुर्द्दशी शिवरात्रिः ३८ फाल्- गुनशुक्ला द्बादशी गोविन्दद्बादशी ३९ चैत्र- कृष्णा षष्ठी स्कन्दषष्ठी ४० चैत्रशुक्लाष्टमी अशोकाष्टमी ४१ तस्य शुक्ला नवमी श्रीराम- नवमी ४२ तस्य शुक्ला त्रयोदशी मदनत्रयो- दशी ४३ । इति स्मृतिः ॥ * ॥
अयाचितव्रतं नक्तव्रतं उमामाहेश्वरव्रतं शङ्करनारायणव्रतं देवीपुराणे कृष्णाष्टमीव्रतनामाध्याये सम्मा- र्जनमाहात्म्याध्याये च द्रष्टव्यम् ॥ * ॥
तिथ्यादि- व्रतं गारुडे ११६ अध्याये अगस्त्यार्घ्यव्रतं गारुडे ११९ अध्याये चातुर्मास्यव्रतानि गारुडे १२१ अध्याये भीष्मपञ्चकादिव्रतं गारुडे १२३ अध्याये द्रष्टव्यम् ॥ * ॥
कार्त्तिकस्नानव्रतं कार्त्तिकव्रतं कार्त्तिकप्रदीपदानव्रतञ्च पाद्मोत्तर- खण्डे १४० अध्याये द्रष्टव्यम् ॥ * ॥
प्रतिपत्कल्पे ब्रह्मव्रतम् । द्वितीयाकल्पे पुष्पद्बितीयाव्रतं फल- द्बितीयाव्रतञ्च । तृतीयाकल्पे गौरीव्रतम् । चतुर्थीकल्पे गणेशचतुर्थी । पञ्चमीकल्पे भाद्र- शुक्ला पञ्चमी नागपञ्चमी । षष्ठीकल्पे भाद्र- शुक्ला षष्ठी गुहषष्ठी । सप्तमीकल्पे माघशुक्ल- सप्तमी रथसप्तमी । शुक्लपक्षे रविवारे सप्तम्यां रोहिणीनक्षत्रयोगे विजयासप्तमी । रविवारे संक्रान्तौ आदित्यहृदयव्रतम् । शुक्लपक्षीय- सप्तम्यां पञ्चतारकनक्षत्रयोगे जया सप्तमी । माघशुक्लसप्तमी जयन्ती । भाद्रशुक्लसप्तमी अपराजिता सप्तमी । शुक्लपक्षे सप्तम्यां रवि- संक्रमणे महाजया सप्तमी । मार्गशीर्षस्य शुक्ला सप्तमी नन्दा सप्तमी । शुक्लसप्तम्यां हस्ता- नक्षत्रयोगे भद्रासप्तमीव्रतम् । फाल्गुनस्य शुक्ला सप्तमी कामदा सप्तमी । पापनाशिनी सप्तमी- व्रतम् । भानुपदव्रतम् । सर्व्वव्याप्तिसप्तमीव्रतम् । मार्त्तण्डसप्तमीव्रतम् । भाद्रशुक्लसप्तमी नत- सप्तमी । श्रावणशुक्लसप्तमी अभ्यङ्गसप्तमी । मार्गशीर्षस्य सितसप्तम्यां हस्तानक्षत्रयोगे त्रितयप्रदाव्रतम् । इति भविष्यपुराणम् ॥ * ॥
उत्तरायणे शुक्लपक्षे बुधवारे अष्टमी बुधाष्टमी । अमावस्याव्रतम् । वैशाखीपूर्णिमा मिष्टपूर्णिमा । मेषसंक्रान्तौ मधुसंक्रान्तिः । जलसंक्रान्तिः । फलसंक्रान्तिः । अन्नसंक्रान्तिः । दधिसंक्रान्ति- व्रतञ्च ॥ * ॥
अथ व्रतविधिः । तत्र व्रतधर्म्माः । तत्र विष्णुहारीतौ । “दिनान्ते नखरोमादीन् प्रवाप्य स्नानमाचरेत् । भस्मगोमयमृद्बारिपञ्चगव्यादिकल्पितम् ॥ मलापकर्षणं कार्य्यं बाह्याशौचात्मसिद्धये । दन्तधावनपूर्ब्बेण पञ्चगव्येन संयुतम् । व्रतं निशामुखे ग्राह्यं वहिस्तारकदर्शने ॥” तेन प्रायश्चित्तव्रतारम्भे पूर्ब्बदिने पञ्चगव्यं प्राश्य दन्तधावनं कृत्वा सायं समये व्रतसङ्कल्पः कर्त्तव्यः । वशिष्ठः । श्मश्रुकेशनखान् वापयेदक्षि- लोमशिखावर्ज्जम् । केशधारणेच्छायां द्विगुण- व्रतमाह हारीतः । “राजा वा राजपुत्त्रो वा ब्राह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्रायश्चित्तं समाचरेत् ॥ केशानां धारणार्थन्तु द्विगुणं व्रतमाचरेत् । द्बिगुणे तु व्रते चीर्णे दक्षिणा द्विगुणा भवेत् ॥” * स्त्रियाः केशवपनं न कार्य्यमित्याह बौधायनः । कृच्छ्रेत्रिसवनमुदकोपस्पर्शनमधःशयनमेकवासता केशश्मश्रुनखरोमवापनं एतदेव स्त्रियाः केश- वपनवर्ज्जम् । पञ्चगव्यघृतप्राशनयोर्व्विकल्पः । तथा शङ्खलिखितौ । “वाप्य केशनखान् पूर्ब्बं घृतं प्राश्य वहिर्निशि । प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ॥ प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत् । एकवासार्द्रवासा वा लघ्वाशी स्थण्डिलेशयः ॥ स्नानी वीरासनी मौनी मौञ्जी दण्डकमण्डलुम् । भैक्षचर्य्याग्निकार्य्यञ्च कुष्माण्डैर्जुहुयाद्घृतम् ॥” प्रत्येकं नियतं कालमिति व्रतसंख्या सङ्कल्प- वाक्ये उल्लेखनीया इत्यर्थः । वीरासनी भित्त्या- द्यनाश्रितः । दण्डकमण्डलुं आर्षत्वात् मतुपो लोपेन तेनैतद्युक्त इत्यर्थः । कुष्माण्डैर्यद्देवा देवहेलनमित्यादिमन्त्रैः । मनुः । “महाव्याहृतिभिर्होमः कर्त्तव्यः स्वयमन्व- हम् । अहिंसासत्यमक्रोधमार्ज्जवञ्च स