संस्कृत-शब्दकोशः

व्रत व्रतती

व्रतति

वाचस्पत्यम्

व्रतति ||‍ स्त्री वृत—अति पृषो० वा ङीप् । १ लतायाम् । २ विस्तारे च अमरः ।


शब्दकल्पद्रुमः

व्रततिः || स्त्री (प्र + तन विस्तारे + क्तिच् । पृषोदरादित्वात् पस्य वः ।)
विस्तारः । लता । इत्यमरः ॥ (यदा, ऋग्वेदे । ८ । ४० । ६ । “अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय ॥” “व्रततेरिव यथा लताया गुष्पितं निर्गतां शाखां वृश्चति ।” इति तद्भाष्ये सायणः ॥)



Correction: