वाचस्पत्यम्
व्रतिन् || पु० व्रतमस्यास्ति इनि । १ व्रतधारके २ यजमाने च । अमरः ।
शब्दकल्पद्रुमः
व्रती || [न्] पुं, (व्रतमस्यास्तीति । व्रत + इनिः ।)
यजमानः । इत्यमरः ॥ (ब्रह्मचारी । यथा, मनुः । २ । १८८ । “भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥”)
व्रतविशिष्टे, त्रि । यथा, —
“तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्वीत पार- णम् ॥” इति तिथ्यादितत्त्वम् ॥