संस्कृत-शब्दकोशः

व्रतिन् व्रश्चन

व्रश्च

वाचस्पत्यम्

व्रश्च ||‍ छेदे तु० पर० सक० ऊदित् वेट् । वृश्चति अव्रश्चीत् अव्राक्षीत् ।


शब्दकल्पद्रुमः

व्रश्च || ऊ श छेदे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-वेट् ।)
दन्त्योपधः चयोगात् तालव्यः । तेन क्विपि शच्छ्राजेति षङि निमित्ताभावे नैमि- त्तिकस्याप्यभाव इति न्यायात् तालव्यस्य दन्त्यत्वे संयोगादेः सस्य लोपे सुवृट् इति । तथा च । “नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजः शकारः स्यात् षाट्टवर्गस्तवर्गजः ॥” इति वोपदेवः ॥ अस्यार्थः । धातुषु मध्ये झलि झसे परे अनु- स्वारपञ्चमौ नकारजौ ज्ञेयौ तालव्यशकारश्च दन्त्यसकारजातः मूर्द्धन्यषकारात् परष्टवर्गोऽपि तवर्गजातो ज्ञेय इति । ञिष्ठास्थाने इत्यादी- नाञ्च थकारादिप्रकृतित्वे तस्थौ इत्यादिबोध्यम् । ऊ, अव्रश्चीत् अव्राक्षीत् । श, वृश्चति । इति दुर्गादासः ॥



Correction: