वाचस्पत्यम्
व्रह्मचारिन् is an alternate of ब्रह्मचारिन्. ब्र(व्र)ह्मचारिन् || पु० ब्र(व्र)ह्म वेदस्तद्ग्रहणार्थं चरति व्रत- भेदम् चर + णिनि । १ उपनयनानन्तरमाद्याश्रमयुते द्विजातौ उपचारात् २ तदाश्रमे च । तस्य कर्त्तव्यादिकं मनूक्तं ब्र(व्र)चर्य्यशब्दे दर्शितम् ।