संस्कृत-शब्दकोशः

व्रह्मचारिन् व्रह्मजटा

व्रह्मज

वाचस्पत्यम्

व्रह्मज is an alternate of ब्रह्मज. ब्र(व्र)ह्मज ||‍ पु० ब्रह्मणो जायते जन—ड । १ हिरण्यगर्भे “यो वै ब्र(व्र)ह्माणं विदधाति पूर्वं गश्चास्मै प्रहिणोति वेदम्” श्रुतेः “सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्बहुधा प्रजाः” इत्युपक्रमे “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयंब्रह्मा सर्वलोकपितामहः” इति भनू- क्तेश्च तस्य तथात्वम् । २ ब्रह्मजातमात्रे पञ्चभूतादौ च “यतो वा इमानि भूतानि जायन्ते” इत्युपक्रमे “तत् विजिज्ञासस्व ब्रह्मेति श्रुतौ ब्रह्मतः सर्वभूतोत्पत्ति- श्रवणात् ।



Correction: