संस्कृत-शब्दकोशः

व्रह्मपादप व्रह्मपुर

व्रह्मपुत्र

वाचस्पत्यम्

व्रह्मपुत्र is an alternate of ब्रह्मपुत्र. ब्र(व्र)ह्मपुत्र ||‍ पु० ब्र(व्र)ह्मणः पुत्र इव कपिलवर्णत्वात् । १ विषभेदे अमरः । तद्विषस्य लक्षणं भावप्र० उक्तं यथा “वर्णतः कपिलो यः स्यात्तथा भवति सारकः । ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले” । २ उत्तर- देशप्रसिद्धे ३ नदभेदे ४ क्षेत्रभेदे च । ५ सरस्वत्यां नद्यां स्त्री । तस्याः पितामहजातत्वं ब्रह्माणीशब्दे दृश्यम् । तस्य नदस्योत्पत्तिकथा “हरिवर्षे महावर्षे शान्तनु- र्नाम नामतः । मुनिरासीनमहाभागो ज्ञानवान् सु- तपोधनः । तस्य भार्य्या भहाभागा अमोघाख्या महा- सती । हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा । तया सार्द्धं स कैलासमर्य्यादापर्वतेऽवसत् । लौहिता- ख्यस्य सरसस्तीरे वै गन्धमादने । एकदा स तपोनिष्ठो निजपुष्पादिगोचरे । जगाभ वनमध्यन्तु चिन्वन् बहु- फलानि च । तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः । तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया । तां दृष्ट्वा देवगर्भाभां युवत्रीमतिसुन्दरीम् । मोहितो मदनेनाशु तथा ऽभूत् तृधितेन्द्रियः । उदीरितेन्द्रियो भुत्वा जिघृक्षुस्तां म- हासतीम् । अथाधावत्तदा ब्रह्मा सम्मुणो मदनार्दितः । धावमानं विधातारं दृष्ट्वाऽमोघा महासती । मैवं मैवमिति प्रोच्य पर्णशालां व्यलीयत । इदञ्चोवाच धातारममोघा कुपिता तदा । पर्णशालान्तरगता द्वार- मावृत्य तत्क्षणात् । अकार्य्यं न मया कार्य्यं मुनि- पत्न्त्या विगर्हितम् । बलात् प्रमथ्या चाहं चेत्त्वया त्वाञ्च शपाम्यहम् । अमोघया चैवमुक्ते विधातुश्च तदा नृप! । १ रेतश्चक्रन्द च तदैवाश्रमे शान्तनोर्मुनेः । च्युते रेतसि धातापि हंसयानं समास्थितः । लज्जयाति- परीतात्मा द्रुतं वै स्वाश्रमं ययौ । गते वेधसि शान्तनु- र्निजमात्रममागतः । आगत्य दृष्ट्वा हंसानां पदक्षोभं तथा भुवि । तेजश्च पतितं भूमौ विधातुर्ज्वलनोप- मम् । अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् । किमेतदत्र शुभगे! प्रवृत्तं दृश्यते तु यत् । पक्षिणाञ्च पदक्षोभस्तेजश्चेदम् कीदृशम् । सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम् । अमर्षितेव न्यगददाकुला विक- लानना । हंसयुक्तस्यन्दनेन कोऽम्भ्यागत्य चतुर्मुख। कमण्डलुकरो भीरू रतिं मां समयाचत । ततो मया भर्त्सितः स कुटजान्तरलीनया । प्रच्याव्य तेजः स गतो मम शापभयार्दितः । कुरु तत्र प्रतीकारं यदि शक्नोषि शान्न्तनो! । न हि तां धर्षणां सोढुं कश्चित् श- क्नोति जीवभृत् । स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः । इति निश्चित्य मनसा तत्र ध्याबपरोऽभवत् । दिव्यज्ञानेन स ज्ञात्वा देवकार्य्यमुपस्थितम् । तीर्था- वतारणञ्चापि हितायं जगतां मुनिः । ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत् । इदं तेजो ब्रह्मणस्त्वं पिबामोथे! ममाज्ञया । हिताय सर्वजगतां देवकार्य्यार्थ- सिद्धये । भवत्या निकटे ब्रह्मा स्वयमेव समागतः । त्वामप्राप्य स महात्मा आवयोः स समर्प्य च । गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः । तत् श्रुत्वा शा- न्तनोर्वाक्यममोघातीव लज्जिता । सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती । नान्यस्य तेजो धास्यामि न चेत्ते विमनस्कता । अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज । ततस्तस्या वश्यः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः । स्वयं पीत्वा च तत्तेजस्तस्या गर्भऽभ्यषेचयत् । संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती । गर्भं दधा- रामोघाख्या हिताय जगतां ततः । तस्यां काले तु संप्राप्ते संजातोजलसञ्चयः । तन्मध्ये तनयश्चापि नीलवासाः कि- रीटधृक् । रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् । चतु- र्भुजः पद्मविद्यावरशक्तिधरस्तथा । शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः । तं जातञ्च तथाभूतं शान्तनु- र्लोकशान्तनुः । चतुर्णां पर्वतानाञ्च मध्यदेशे न्यवेशयत् । कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः । जारुधिः पश्चिमे शैलः पूर्वे संवर्त्तकाह्वयः । तेषां मध्ये स्वयं कुण्डं पर्वतानां विधेः सुतः । कृत्वाऽतिववृधे नित्यं शरदीव निशाकरः । तं तोयमध्यगं पुत्रमासाद्य द्रुहिणः स्वयम् । क्रमतस्तस्य संस्कारानकरोद्देह- शुद्धये । अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः । तोयराशिस्यरूपेण ववृधे पञ्च योजनान् । तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे । शीतामलजले हृद्ये देव्यश्चाप्सरसां गणैः । तस्मिन्नवसरे रामो जाम- दग्न्यः प्रतापवान् । चक्रे मातृबधं घोरमत्युग्रं पितुराज्ञया । तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः । स जगाम महाकुण्डं ब्राह्माख्यं स्नातुमिच्छया । तत्र स्नात्वा च प्रीत्वा च मातृहत्यां व्यप्रानयत् । वीथिं परशुना कृत्वा तञ्च क्ष्मामवातारयत्” तदुत्तरत्र “ब्रह्मकु- ण्डात् सृतः सोऽथ कासारे लोहिताह्वये । कैलासो- पत्यकायान्तु न्यपतद् ब्रह्मणः सुतः । तस्यापि सरसन्तीरं समुत्पाट्य महाबलः । कुठारेण दिशं पूर्वामनयद्- ब्रह्मणः सुतम् । ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य च । कामरूपान्तरं पीठमवाहयदसुं हरिः । तस्य नाम विधिश्चक्रे स्वयंलोहितगङ्गकम् । लौहि- त्यात् सरसो जातो लौहित्याख्यस्ततोऽभवत् । स काम- रूपमखिलं पीठमाप्लाव्य वारिणा । गोपयन् सर्वतीर्थानि दक्षिणं याति सागरम् । प्रागेव दिव्ययमुनां संत्यज्य ब्रह्मणः सुतः । पुनः पतति लौहित्ये गत्वा द्वादश- योजनम् । चैत्रे मासि सिताष्टम्यां यो नरो नियते- न्द्रियः । स्लाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् । चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः । लौहित्यतोये यः स्लाति स कैवल्यमवाप्तुयात्” कालिकापु० ८४, ८५ अ० “मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् । पिवेदशोककलिकाः स्नायाल्लौहित्यवारिणि । पुनर्वसौ वृषे लग्ने चैत्रे मासि सिताष्टमीम् । लौहित्ये विरजे स्नायात् सर्वपापैः प्रसुच्यते” ति० त० ।



Correction: